TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ५४

पूर्वभागः - अध्यायः ५४

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ५४
सूत उवाच ॥
ज्योतिर्गणप्रचारं वै संक्षिप्यांडे ब्रवीम्यहम् ॥
देवक्षेत्राणि चालोक्य ग्रहचारप्रसिद्धये ॥१॥

मानसोपरि माहेन्द्री प्राच्यां मेरोः पुरी स्थिता ॥
दक्षिणे भानुपुत्रस्य वरुणस्य च वारुणी ॥२॥

सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः ॥
अमरावती संयमनी सुखा चैव विभा क्रमात् ॥३॥

लोकपालोरिष्टात्तु सर्वतो दक्षिणायने ॥
काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ॥४॥


दक्षिणप्रक्रमे भानुः क्षिप्तेषुरिव धावति ॥
ज्योतिषां चक्रमादाय सततं परिगच्छति ॥५॥

पुरांतगो यदा भानुः शक्रस्य भवति प्रभुः ॥
सर्वैः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः ॥६॥

स एव सुखवत्यां तु निशातस्थः प्रदृश्यते ॥
अस्तमेति पुनः सूर्यो विभायां विश्वदृग्विभुः ॥७॥

मया प्रोक्तोमरावत्यां यथासौ वारितस्करः ॥
तथा संयमनीं प्राप्य सुखां चैव विभां खगः ॥८॥

यदापराह्णस्त्वाग्नोय्यां पूर्वाह्णो नैऋते द्विजाः ॥
तदा त्वपररात्रश्च वायुभागे सुदारुणः ॥९॥

ईशान्यां पूर्वरात्रस्तु गतिरेषा च सर्वतः ॥
एवं पुष्करमध्ये तु यदा सर्पति वारिपः ॥१०॥

त्रिंशांशकं तु मेदिन्यां मुहूर्तेनैव गच्छति ॥
योजनानां मुहूर्तस्य इमां संख्यां निबोधत ॥११॥

पूर्णा शतसहस्राणामेकत्रिंशत्तु सा स्मृता ॥
पंचाशच्च तथान्यानि सहस्राण्यधिकानि तु ॥१२॥

मौहूर्तिकी गतिर्ह्येषा भास्करस्य महात्मनः ॥
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम् ॥१३॥

पर्यपृच्छेत् पतंगोपि सौम्याशां चोत्तरेऽहनि ॥
मध्ये तु पुष्करस्याथ भ्रमते दक्षिणायने ॥१४॥

मानसोत्तरशैले तु महातेजा विभावसुः ॥
मंडलानां शतं पूर्णं तदशीत्यधिकं विभुः ॥१५॥

बाह्यं चाभ्यंतरं प्रोक्तमुत्तरायणदक्षिणे ॥
प्रत्यहं चरते तानि सूर्यो वै मंडलानि तु ॥१६॥

कुलालचक्रपर्यंतो यथा शिघ्रं प्रवर्तते ॥
दक्षिणप्रक्रमे देवस्तथा शीघ्रं प्रवर्तते ॥१७॥

तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥
सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणायने ॥१८॥

त्रयोदशार्धमृक्षाणामह्ना तु चरते रविः ॥
मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥१९॥

कुलालचक्रमध्यं तु यथा मंदं प्रसर्पति ॥
तथोदगयने सूर्यः सर्पते मंदविक्रमः ॥२०॥

तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्चति ॥
स रथो धिष्ठितो भानोरादित्यैर्मुनिभिस्तथा ॥२१॥

गंधर्वैरप्सरोभिश्च ग्रामणीः सर्पराक्षसैः ॥
प्रदीपयन् सहस्रांशुरग्रतः पृष्ठतोप्यधः ॥२२॥

ऊर्ध्वतश्च करं त्यक्त्वा सभां ब्राह्मीमनुत्तमाम् ॥
अंभोभिर्मुनिभिस्त्यक्तैः संध्यायां तु निशाचरान् ॥२३॥

हत्वा हत्वा तु संप्राप्तान्ब्राह्मणैश्चरते रविः ॥
अष्टादश मुहूर्तं तु उत्तरायणपश्चिमम् ॥२४॥

अहर्भवति तच्चापि चरते मंदविक्रमः ॥
त्रयोदशार्धमृक्षाणि नक्तं द्वादशभी रविः ॥
मुहूर्तैस्तावदृक्षामि दिवाष्टादशभिश्चरन् ॥२५॥

ततो मंदतरं नाभ्यां चक्रं भ्रमति वै यथा ॥
मृत्पिंड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥२६॥

त्रिंशन्मुहूर्तैरेवाहुरहोरात्रं पुराविदः ॥
उभयोः काष्ठयोर्मध्ये भ्रमतो मंडलानि तु ॥२७॥

कुलालचक्रनाभिस्तु यता तत्रैव वर्तते ॥
औत्तानपादो भ्रमति ग्रहैः सार्धं ग्रहाग्रणीः ॥२८॥

गणो मुनिज्योतिषां तु मनसा तस्य सर्पति ॥
अधिष्ठितः पुनस्तेन भानुस्त्वादाय तिष्ठति ॥२९॥

किरणैः सर्वतस्तोयं देवो वै ससमीरणः ॥
औत्तानपादस्य सदा ध्रुवत्वं वै प्रसादतः ॥३०॥

विष्णोरौत्तानपादेन चाप्तं तातस्य हेतुना ॥
आपः पीतास्तु सूर्येण क्रमंते शशिनः क्रमात् ॥३१॥

निशाकरान्निस्नवंते जीमूतान्प्रत्यपः क्रमात् ॥
वृन्दं जलमुचां चैव श्वसनेनाभिताडितम् ॥३२॥

क्ष्मायां सृष्टिं विसृजतेऽभासयत्तेन भास्करः ॥
तोयस्य नास्ति वै नाशः तदैव परिवर्तते ॥३३॥

हिताय सर्वजंतूनां गतिः शर्वेण निर्मिता ॥
भूर्भुवः स्वस्तथा ह्यापो ह्यन्नं चामृतमेव च ॥३४॥

प्राणा वै जगतामापो भूतानि भुवनानि च ॥
बहुनात्र किमुक्तेन चराचरमिदं जगत् ॥३५॥

अपां शिवस्य भगवानाधिपत्ये व्यवस्थितः ॥
अपां त्वधिपतिर्देवो भव इत्येव कीर्तितः ॥३६॥

भवात्मकं जगत्सर्वमिति किं चेह चाद्भुतम् ॥
नारायणत्वं देवस्य हरेश्चाद्भिः कृतं विभोः ॥
जगतामालयो विष्णुस्त्वापस्तस्यालयानि तु ॥३७॥

दन्दह्यमानेषु चराचरेषु गोधूमभूतास्त्वथनिष्क्रमंति ॥
या या ऊर्ध्वं मारुतेनेरिता वै तास्तास्त्वभ्राण्यग्निना वायुना च ॥३८॥

अतो धूमाग्निवातानां संयोगस्त्वभ्रमुच्यते ॥
वारीणि वर्षतीत्यभ्रमभ्रस्येशः सहस्रदृक् ॥३९॥

यज्ञधूमोद्भवं चापि द्विजानां हितकृत्सदा ॥
दावाग्निधूमसंभूतमभ्रं वनहितं स्मृतम् ॥४०॥

मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति ॥
अभिचाराग्निधूमोत्थं भूतनासाय वै द्विजाः ॥।४१॥

एवं धूमविशेषेण जागतां वै हिताहितम् ॥
तस्मादाच्छादयेद्धूममभिचारकृतं नरः ॥४२॥

अनाच्छाद्य द्विजः कुर्याद्धूमं यश्चाभिचारिकम् ॥
एवमुद्दिश्य लोकस्य क्षयकृच्च भविष्यति ॥४३॥

अपां निधानं जीमूताः षण्मासानिह सुव्रताः ॥
वर्षयंत्येव जगतां हिताय पवनाज्ञया ॥४४॥

स्तनितं चेह वायव्यं वैद्युतं पावकोद्भवम् ॥
त्रिधा तेषामिहोत्पत्तिरभ्राणां मुनिपुंगवाः ॥४५॥

न भ्रश्यंति यतोभ्राणि मेहनान्मेघ उच्यते ॥
काष्ठा वाह्नाश्च वैरिंच्याः पक्षाश्चैव पृथग्विधाः ॥४६॥

आज्यानां काष्ठसंयोगादग्नेर्धूमः प्रवर्तितः ॥
द्वितीयानां च संभूतिर्विरिंचोच्छ्वासवायुना ॥४७॥

भूभृतां त्वथ पक्षैस्तु मघवच्छेदितैस्ततः ॥
वाह्नेयास्त्वथ जीमूतास्त्वावहस्थानगाः शुभाः ॥४८॥

विरिंचोच्छ्वासजाः सर्वे प्रवहस्कंधजास्ततः ॥
पक्षजाः पुष्कराद्याश्च वर्षंति च यदा जलम् ॥४९॥

मूकाः सशब्ददुष्टाशास्त्वेतैः कृत्यं यथाक्रमम् ॥
क्षामवृष्टिप्रदा दीर्घकालं शीतसमीरिणः ॥५०॥

जीवकाश्च तथा क्षीणा विद्युद्ध्वनिविवर्जिताः ॥
तिष्ठंत्याक्रोशमात्रे तु धरापृष्ठादितस्ततः ॥५१॥

अर्धक्रोशे तु सर्वे वै जीमूता गिरिवासिनः ॥
मेघा योजनमात्रं तु साध्यत्वाद्ब्रहुतोयदाः ॥५२॥

धरापृष्ठाद्द्विजाः क्ष्मायां विद्युद्गुणसमन्विताः ॥
तेषां तेषां वृष्टिसर्गं त्रेधा कथितमत्र तु ॥५३॥

पक्षजाः कल्पजाः सर्वे पर्वतानां महत्तमाः ॥
कल्पान्ते ते च वर्षन्ति रात्रौ नाशाय शारदाः ॥५४॥

पक्षजाः पुष्कराद्याश्च वर्षंति च यदा जलम् ॥
तदार्णवमभूत्सर्वं तत्र शेते निशीश्वरः ॥५५॥

आग्नेयानां श्वासजानां पक्षजानां द्विजर्षभाः ॥
जलदानां सदा धूमो ह्याप्यायन इति स्मृतः ॥५६॥

पौण्ड्रास्तु वृष्टयः सर्वा वैद्युताः शीतसस्यदाः ॥
पुंड्रदेशेषु पतिता नागानां शीकरा हिमाः ॥५७॥

गाङ्गा गङ्गाम्बु संभूता पर्जन्येन परावहैः ॥
नगानां च नदीनां च दिग्गजानां समाकुलम् ॥५८॥

मेघानां च पृथग्भूतं जलं प्रायादगादगम् ॥
परावहोयः श्वयनश्चानयत्यम्बिकागुरुम् ॥५९॥

मेनापतिमतिक्रम्य वृष्टिशेषं द्विजाः परम् ॥
अभ्येति भारते वर्षे त्वपरान्तविवृद्धये ॥६०॥

वृष्टयः कथिता ह्यद्य द्विधा वस्तु विवृद्धये ॥
सस्यद्वयस्य संक्षेपात्प्रब्रवीमि यथामति ॥६१॥

स्रष्टा भानुर्महातेजा वृष्टीनां विश्वदृग्विभुः ॥
सोपि साक्षाद्द्विजश्रेष्ठाश्चेशानः परमः शिवः ॥६२॥

स एव तेजस्त्वोजस्तु बलं विप्रा यशः स्वयम् ॥
चक्षुः श्रोत्रं मनो मृत्युरात्मा मन्यु र्विदिग्दिशः ॥६३॥

सत्यं ऋतं तथा वायुरंबरं खचरश्च सः ॥
लोकपालो हरिर्ब्रह्मा रुद्रः साक्षान्महेश्वरः ॥६४॥

सहस्रकिरणः श्रीमानष्टहस्तः सुमंगलः ॥
अर्धनारिवपुः साक्षात्त्रिनेत्रस्त्रिदशाधिपः ॥६५॥

अस्यैवेह प्रसादात्तु वृष्टिर्नानाभवद्द्विजाः ॥

सहस्रगुणमुत्स्रष्टुमादत्ते किरणैर्जलम् ॥६६॥
जलस्य नाशो वृद्धिर्वा नास्त्येवास्य विचारतः ॥

ध्रुवेणाधिष्ठितो वायुर्वृष्टिं संहरते पुनः ॥६७॥
ग्रहन्निस्सृत्य सूर्यात्तु कृत्स्ने नक्षत्रमंडले ॥

चारस्यान्ते विशत्यर्के ध्रुवेण समधिष्ठिता ॥६८॥

इति श्रीलिंगमहापुराणे पूर्वभागे ज्योतिश्चक्रे सूर्यगत्यादिकथनं नाम चतुःपंचाशत्तमोध्यायः ॥५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:25.4900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

  • The eleventh consonant. 
  • वर्णमालेंतील ११ वें आणि ट वर्गांतील १ लें अक्षर . याचा उच्चार जीभ टाळूला जोरानें लावून करावा लागतो . अक्षरविकास :- ञ प्रमाणेंच याच्या तीन काळच्या तीन अवस्था असून त्या ञ च्या ठिकाणींच सांपडतात . - पु . अक्षरशत्रु ; मूर्ख ; ढ . टफ करणें - ( ल . ) एखाद्या विषयाचें अल्पज्ञान होणें . विद्यालयांतून जे संस्कृतज्ञ बाहेर पडतात त्यांना ट फ करण्याचें सामर्थ्य आलें न आलें कीं लगेच कोणत्याही शास्त्रावर व्याख्यान , निबंध वगैरे सुरू झालेच - नि . टफ करीत वाचणें - अडखळत किंवा चुका करीत वाचणें ; एकेक अक्षर लावून वाचणें ( नवीन शिकणारा असें वाचतो ). ला जुळविणें - १ अक्षराला अक्षर जुळविणें . २ ( ल . ) हीन दर्जाचें काव्य , कविता करणें ; चांगला प्रतिभासंपन्न कवि नसणें . असे ढ पुढें येणार आहेत हें जर त्या कवीला माहीत असतें तर त्यानेंहि ट ला ट जुळविण्याचे श्रम घेतले नसते . - मूक . 
RANDOM WORD

Did you know?

If the rituals after the death are not performed what are the consequences?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.