TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ४

पूर्वभागः - अध्यायः ४

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ४
सूत उवाच ॥
अथ प्राथमिकस्येह यः कालस्तदहः स्मृतम् ॥
सर्गस्य तादृशी रात्रिः प्राकृतस्य समासनः ॥१॥

दिवा सृष्टिं विकुरुते रजन्यां प्रलयं विभुः ॥
औपचारिकमस्यैतदहोरात्रं न विद्यते ॥२॥

दिवा विकृतयः सर्वे विकारा विश्वदेवताः ॥
प्रजानां पतयः सर्वे तिष्ठंत्यन्ये महर्षयः ॥३॥

रात्रौ सर्वे प्रलीयंते निशांते संभवंति च ॥
अहस्तु तस्य वैकल्पो रात्रिस्तादृग्विधा स्मृता ॥४॥

चतुर्युगसहस्रांते मनवस्तु चतुर्दश ॥
चत्वारि तु सहस्राणि वत्सराणां कृतं द्विजाः ॥५॥

तावच्छती च वै संध्या संध्यांशश्च कृतस्य तु ॥
त्रिशर्ता द्विशती संध्या तथा चैकशती क्रमात् ॥६॥

अंशकः षट्शतं तस्मात्कृतसंध्यांशकं विना ॥
त्रिद्व्येकसाहस्रमितौ विना संध्यांशके न तु ॥७॥

त्रेताद्वापरतिष्याणां कृतस्य कथयामि वः ॥
निमेषपंचदशका काष्ठा स्वस्थास्य सुव्रताः ॥८॥

मर्त्यस्य चाक्ष्णोस्तस्याश्च ततस्त्रिंशतिका कला ॥
कलात्रिंशतिको विप्रा मुहूर्त इति कल्पितः ॥९॥

मुहूर्तपंचदशिका रजनी तादृशं त्वहः ॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ॥१०॥

कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु स स्मृतः ॥११॥

शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै ॥
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥१२॥

मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् ॥
पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै ॥१३॥

दश वै द्व्यधिका मासाः पितृसंख्येह संस्मृता ॥
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥१४॥

एतद्दिव्यमहोरात्रमिति लौंगेऽत्र पठ्यते ॥
दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ॥१५॥

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥
एते रात्र्यहनी दिव्ये प्रसंख्याते विशेषतः ॥१६॥

त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः ॥
मानुषं तु शतं विप्रा दिव्यमासास्त्रयस्तु ते ॥१७॥

दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः ॥
त्रीणि वर्षशतन्येन षष्टिवर्षाणि यानि तु ॥१८॥

दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः ॥
त्रिणि वर्षसहस्राणि मानुषाणि प्रमाणतः ॥१९॥

त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः ॥
नव यानि सहस्राणि वर्षाणां मानुषाणि तु ॥२०॥

अन्यानि नवतीश्चैव ध्रौवः संवत्सरस्तु सः ॥
षट्त्रिशत्तु सहस्राणि वर्षाणां मानुषाणि तु ॥२१॥

वर्षाणां तच्छतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ॥
त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु ॥२२॥

षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया ॥
दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥२३॥

दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम् ॥
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥२४॥

द्वारपश्च कलिश्चैव युगान्येतानि सुव्रताः ॥
अथ संवत्सरा दृष्टा मानुषेण प्रमाणतः ॥२५॥

कृतस्याद्यस्य विप्रेंद्रा दिव्यमानेन कीर्तितम् ॥
सहस्राणां शतान्यासंश्चतुर्दश च संख्यया ॥२६॥

चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम् ॥
तथा दशसहस्राणां वर्षाणां शतसंख्यया ॥२७॥

अशीतिश्च सहस्राणि कालस्रेतायुगस्य च ॥
सप्तैव नियुतान्याहुर्वर्षाणां मानुषाणि तु ॥२८॥

विंशतिश्च सहस्राणि कालस्तु द्वापरस्य च ॥
तथा शतसहस्राणि वर्षाणां त्रीणि संख्यया ॥२९॥

षष्ठिश्चैव सहस्राणि कालः कलियुगस्य तु ॥
एवं चतुर्युगः काल ऋते संध्यांशकात्स्मृतः ॥३०॥

नियुतान्येव षट्त्रिंशन्निरंशानि तु तानि वै ॥
चत्वारिंशत्तथा त्रीणी नियुतानीह संख्यया ॥३१॥

विंशतिश्च सहस्राणि संध्यांशश्च चतुर्युगः ॥
एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः ॥३२॥

कृतत्रेतादियुक्तानां मनोरंतरमुच्यते ॥
मन्वन्तरस्य संख्या च वर्षाग्रेण प्रकीर्तिता ॥३३॥

त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः ॥
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु ॥३४॥

विंशतिश्च सहस्राणि कालोयमधिकं विना ॥
मन्वंतरस्य संख्यैषा लैंगेस्मिन्कीर्तिता द्विजाः ॥३५॥

चतुर्युगस्य च तथा वर्षसंख्याप्रकीर्तिता ॥
चतुर्युगसहस्रं वै कल्पश्चैको द्विजोत्तमाः ॥३६॥

निशांते सृजते लोकान् नश्यंते निशि जंतवः ॥
तत्र वैमानिकानां तु अष्टाविंशतिकोटयः ॥३७॥

मन्वंतरेषु वै संख्या सांतरेषु यथातथा ॥
त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस्तथा ॥३८॥

कल्पेतीऽते तु वै विप्राः सहस्राणां तु सप्ततिः ॥
पुनस्तथाष्टसाहस्रं सर्वत्रैव समासतः ॥३९॥

कल्पावसानिकांस्त्यक्त्वा प्रलये समुपस्थिते ॥
महर्लोकात् प्रयांत्येते जनलोकं जनास्ततः ॥४०॥

कोटीनां द्वे सहस्रे तु अष्टौ कोटिशतानि तु ॥
द्विषष्टिश्च तथा कोट्यो नियुतानि च सप्ततिः ॥४१॥

कल्पार्धसंख्या दिव्या वै कल्पमेवं तु कल्पयेत् ॥
कल्पानां वै सहस्रं तु वर्षमेकमजस्य तु ॥४२॥

वर्षाणामष्टसाहस्रं ब्राह्मं वै ब्रह्मणो युगम् ॥
सवनं युगसाहस्रं सर्व देवोद्भवस्य तु ॥४३॥

सवनानां सहस्रं तु त्रिविधं त्रिगुणं तथा ॥
ब्रह्मणस्तु तथा प्रोक्तः कालः कालात्मनः प्रभो ॥४४॥

भवोद्भवस्तपश्चैव भव्यो रंभः क्रतुः पुनः ॥
ऋतुर्वह्निर्हव्यवाहः सावित्रः शुद्ध एव च ॥४५॥

उशिकः कुशिकश्चैव गांधारो मुनि सत्तमाः ॥
ऋषभश्च तथा षड्जो मज्जालीयश्च मध्यमः ॥४६॥

वैराजोवै निषादश्च मुख्यो वै मेघवाहनः ॥
पंचमाश्चित्रकश्चैव आकूतिर्ज्ञान एव च ॥४७॥

मनः सुदर्शो बृंहश्च तथा वै श्वेतलोहितः ॥
रक्तश्च पीतवासाश्च असितः सर्वरूपकः ॥४८॥

एवं कल्पास्तु संख्याता ब्रह्मणोऽव्यक्तजन्मनः ॥
कोटिकोटिसहस्राणि कल्पानां मुनिसत्तमाः ॥४९॥

गतानि तावच्छेषाणि अहर्निश्यानि वै पुनः ॥
परांते वै विकाराणि विकारं यांति विश्वतः ॥५०॥

विकारस्य शिवस्याज्ञावशेनैव तु संहृतिः ॥
संहृते तु विकारे च प्रधाने चात्मनि स्थिते ॥५१॥

साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ ॥
गुणानां चैव वैषम्ये विप्राः सृष्टिरिति स्मृता ॥५२॥

साम्ये लयो गुणानां तु तयोर्हेतुर्महेश्वरः ॥
लीलया देवदेवेन सर्गास्त्वीदृग्विधाः कृताः ॥५३॥

असंख्याताश्च संक्षेपात् प्रधानादन्वधिष्ठितात् ॥
असंख्याताश्च कल्पाख्या ह्यसंख्यताः पितामहाः ॥५४॥

हरयश्चाप्यसंख्यातास्त्वेक एव महेश्वरः ॥
प्रधानादिप्रवृत्तानि लीलया प्राकृतानि तु ॥५५॥

गुणात्मिका च तद्वृत्तिस्तस्य देवस्य वै त्रिधा ॥
अप्राकृतस्य तस्यादिर्मध्यांतं नास्ति चात्मनः ॥५६॥

पितामहस्याथ परः परार्धद्वयसंमितः ॥
दिवा सृष्टं तु यत्सर्वं निशि नश्यति चास्य तत् ॥५७॥

भूर्भुवःस्वर्महस्तत्र नश्यते चोर्ध्वतो न च ॥
रात्रौ चैकार्णवे ब्रह्म नष्टे स्थावरजंगमे ॥५८॥

सुष्वापांभासि यस्तस्मान्नारायण इति स्मृतः ॥
शर्वर्यंते प्रबुद्धो वै दृष्ट्वा शून्यं चराचरम् ॥५९॥

स्रष्टुं तदा मतिं चक्रे ब्रह्मा ब्रह्मविदां वरः ॥
उदकैराप्लुतां क्ष्मां तां समादाय सनातनः ॥६०॥

पूर्ववत्स्थापयामास वाराहं रूपमास्थितः ॥
नदीनदसमुद्रांश्च पूर्ववच्चाकरोत्प्रभुः ॥६१॥

कृत्वा धरां प्रयत्नेन निम्नोन्नतिविवर्जिताम् ॥
धरायां सोचिनोत्सर्वान् गिरीन् दग्धान् पुराग्निना ॥६२॥

भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥
स्रष्टुं च भगवांश्चक्रे तदा स्रष्टा पुनर्मतिम् ॥६३॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे सृष्टिप्रारंभवर्णनं नाम चतुर्थोऽध्यायः ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:22.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

monetary institutions

  • मौद्रिक संस्थाएं 
RANDOM WORD

Did you know?

मी ह्या साईट साठी काही करू शकते काय
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site