TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१८

मत्स्यपुराणम् - अध्यायः २१८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः २१८
मनुमत्स्यसंवादे राजधर्मवर्णनम् ।
मनुरुवाच ।
रक्षोघ्नानि विषघ्नानि यानि धार्याणि भूभुजा ।
अगदानि समाचक्ष्व तानि धर्मभृताम्वर! ॥१॥

मत्स्य उवाच ।
विल्वाटकी यवक्षारं पाटलावाह्लिकोषणाः ।
श्रीपर्णी शल्लकी-युक्तो निक्वाथः प्रोक्षणं परम् ॥२॥

सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम् ।
यवसैन्धवपानीय वस्त्रशय्यासनोदकम् ॥३॥

कवचाभरणं छत्रं बालव्यजनवेश्मनाम् ।
शेलुः पाठलातिविषा शिग्रुमूर्वा पुनर्नवा ॥४॥

समङ्गावृषमूलञ्च कपित्थवृषशोणितम् ।
महादन्तशठन्तद्वत् प्रोक्षणं विषनाशनम् ॥५॥

लाक्षाप्रियंगु मञ्जिष्ठा सममेला हरेणुका ।
यष्ट्याह्वा मधुरा चैव बभ्रुपित्तेन कल्पिताः ॥६॥

निखनेद् गोविषाणस्थं सप्तरात्रं महीतले ।
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥७॥

संसृष्टं सविषन्तेन सद्यो भवति निर्विषम् ।
मनोह्वया शमीपत्रं तुम्बिका श्वेतसर्षपाः ॥८॥

कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्पिताः ।
शुनो गोः कपिलाश्च सौम्याक्षिप्तोऽपरोगदः ॥९॥

विषजित् परमं कार्यं मणिरत्नञ्च पूर्ववत् ।
मूषिका जतुका चापि हस्ते बद्धा विषापहा ॥१०॥

हरेणु मांसी मञ्जिष्ठा रजनी मधुकामधु ।
अक्षत्वक् सुरसं लाक्षा श्वपित्तं पूर्ववद् भुवि ॥११॥

वादित्राणि पताकाश्च पिष्टैरेताः प्रलोपिताः ।
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः ॥१२॥

त्र्युषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् ।
सूक्ष्मैला त्रिवृतापत्रं विडङ्गानीन्द्रवारुणी ॥१३॥

मधुकं वेतसं क्षौद्रं विषाणे च निधापयेत् ।
तस्मादुष्णाम्बुना मात्रं प्रागुक्तं योजयेत्ततः ॥१४॥

शुक्लं सर्जरसोपेत सर्षपा एलवालुकैः ॥१५॥

सुवोगा तस्करसुरौ कुसुमैरर्जुनस्य तु ।
धूपो वासगृहे हन्ति विषं स्यावरजङ्गमम् ॥१६॥

न तत्र कीटा न विषन्दर्दुरा न सरीसृपाः ।
न कृत्या कर्मणाञ्चापि धूपोऽयं यत्र दह्यते ॥१७॥

कल्पितैश्चन्दनक्षीर पलाश द्रुमवल्कलैः ।
मूर्वैला वालु सरसा नाकुली तण्डुलीयकैः ॥१८॥

क्वाथः सर्वोदकार्येषु काकमाचीयुतो हितः ।
रोचनापत्रनेपाली कुङ्कुमै स्तिलकान् वहन् ॥१९॥

विषैर्न बाध्यते स्याच्च नरनारी नृपप्रियः ।
चूर्णै र्हरिद्रा मञ्जिष्ठा किणिही कणनिम्बजैः ॥२०॥

दिग्धं निर्विषतामेति गात्रं सर्वविषार्दितम् ।
शिरीषस्य फलं पत्रं पुष्पं त्वं मूलमेव च ॥२१॥

गोमूत्रघृष्टो ह्यगदः सर्वकर्मकरः स्मृतः ।
एकवीर! महौषध्यः श्रृणु चातः परं नृप! ॥२२॥

वन्ध्या कर्कोटकी राजन्! विष्णुक्रान्ता तथोत्कटा ।
शतमूली सितानन्दा बला मोचा पटोलिका ॥२३॥

सोमा पिण्डा निशा चैव तथा दग्धरुहा च या ।
स्थले कमलिनी या च विशाली शङ्कमूलिका ॥२४॥

चण्डाली हस्तिमगधा गोऽजापर्णो करम्भिका ।
रक्ता चैव महारक्ता तथा बर्हिशिखा च या ॥२५॥

कोशातकी नक्तमालं प्रियालञ्च सुलोचनी ।
वारुणी वसुगन्धा च तथा वै गन्धनाकुली ॥२६॥

ईश्वरी शिवगन्धा च श्यामला वंशनालिका ।
जतुकाली महाश्वेता श्वेता च मधुयष्टिका ॥२७॥

वज्रकः पारिभद्रश्च तथा वै सिन्धुवारकाः ।
जीवानन्दा वसुच्छिद्रा नतनागरकण्टका ॥२८॥

नालश्च जाली जाती च तथा च वटपत्रिका ।
कार्तस्वरं महानीला कुन्दुरुर्हं सपादिका ॥२९॥

मण्डूकपर्णी वारही द्वे तथा तण्डुलीयके ।
सर्पाक्षी लवली ब्राह्मी विश्वरूपा सुखाकरा ॥३०॥

रुजापहो वृद्धिकरी तथा चैव तु शल्यदा ।
पत्रिका रोहिणी चैव रक्तमाला महौषधी ॥३१॥

तथामलकवन्दाकं श्यामचित्र फला च या ।
काकोली क्षीरकाकोली पीलुपर्णी तथैव च ॥३२॥

केशिनी वृश्चिकालीच महानागा शतावरी ।
गरुडीच तथा वेगा जले कुमुदिनी तथा ॥३३॥

स्थले चोत्पलिनी या च महाभूमिलता च या ।
उन्मादिनी सोमराजी सर्वरत्नानि पार्थिव ॥३४॥

विशेषान्मरकतादीनि कीटपक्षं विशेषतः ।
जीवजाताश्च मणयः सर्वे धार्याः प्रयत्नतः ॥३५॥

रक्षोघ्नाश्च विषघ्नाश्च कृत्या वैतालनाशनाः ।
विशेषान्नरनागाश्च गोखरोष्ट्रसमुद्भवाः ॥३६॥

सर्पतित्तिरगोमायु वस्त्र(क)मण्डकजाश्च ये ।
सिंहव्याघ्रर्क्षमार्जार द्वीपिवानरसंभवाः ॥
कपिञ्जला गजा वाजिमहिषैण भवाश्च ये ॥३७॥

इत्येवमेतैः सकलैरुपेतन्द्रव्यैश्च सर्वैः स्वपुरं सुरक्षितम् ।
राजा वसेत्तत्र गृहं सुशुभ्रं गुणान्वितं लक्षण संप्रयुक्तम् ॥३८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:56.3670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

स्वमूर्धन्

  • n. एक देव, जो भृगुऋषि का पुत्र था । 
RANDOM WORD

Did you know?

स्त्रिया पायात चांदीचे दागिने वापरतात, मग सोन्याचे कां नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.