संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७८

मत्स्यपुराणम् - अध्यायः ७८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कमलसप्तमीव्रतकथनम् ।

ईश्वर उवाच ।
अतः परं प्रवक्ष्यामि तद्वत् कमलसप्तमीम् ।
यस्याः सङ्कीर्तनादेव तुष्यतीह दिवाकरः ॥१॥

वसन्तामलसप्तम्यां स्नातः सन् गौरसर्षपैः ।
तिलपात्रे च सौवर्णे विधाय कमलं शुभम् ॥२॥

वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैः समर्चयेत् ।
नमः कमलहस्ताय नमस्ते विश्वधारिणे ॥३॥

दिवाकर! नमस्तुभ्यं प्रभाकर! नमोऽस्तुते ।
ततो द्विकालवेलायामुदकुम्भसमन्विताम् ॥४॥

विप्राय दद्यात् संपूज्य वस्त्रमाल्यविभूषणैः ।
शक्त्या च कपिलां दद्यादलङ्कृत्य विधानतः ॥५॥

अहोरात्रे गते पश्चादष्टम्यां भोजयेद्‌द्विजान् ।
यथाशक्याऽथ भुञ्जीत मांसतैलविवर्जितम् ॥६॥

अनेन विधिना शुक्लसप्तम्यां मासि मासि च ।
सर्वं समाचरेद् भक्त्या वित्तशाठ्यविवर्जितः ॥७॥

व्रतान्ते शयनं दद्यात् सुवर्णं कमलान्वितम् ।
गाञ्च दद्यात् स्वशक्या तु सुवर्णाढ्यां पयस्विनीम् ॥८॥

भाजनासनदीपादीन् दद्यादिष्ठानुपस्करान् ।
अनेन विधिना यस्तु कुर्यात् कमलसप्तमीम् ।
लक्ष्मीमनन्तामभ्येति सूर्य्यलोके महीयते ॥९॥

कल्पे कल्पे ततो लोकान्सप्त गत्वा पृथक् पृथक् ।
अप्सरोभिः परिवृतस्ततो याति पराङ्गतिम् ॥१०॥

यः पश्यतीदं श्रृणुयाच्च मर्त्यः पठेच्च भक्त्याऽथ मतिं ददाति ।
सोऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकभाक् स्यात् ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP