संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०३

मत्स्यपुराणम् - अध्यायः २०३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मनुमत्स्यसंवादे धर्मवंशवर्णनम् ।
मत्स्य उवाच ।
अस्मिन् वैवस्वते प्राप्ते श्रुणु धर्मस्य पार्थिव! ।
दाक्षायणीभ्यः सकलं वंशं दैवतमुत्तमम् ॥१॥

पर्वतादिमहादुर्ग शरीराणि नराधिप! ।
अरुन्धत्याः प्रसूतानि धर्माद्वैवस्वतेऽन्तरे ॥२॥

अष्टौ च वसवः पुत्रा सोमपाश्च विभोस्तथा ।
धरोध्रुवश्च सोमश्च पश्चैवानिलानलौ ॥३॥

प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ।
धरस्य पुत्रो द्रविणः कालः पुत्रो ध्रुवस्य तु ॥४॥

कालस्यावयवानान्तु शरीराणि नराधिप! ।
मूर्तिमन्ति च कालाद्धि संप्रसूतान्यशेषतः ॥५॥

सोमस्य भगवान् वर्चाः श्रीमांश्चापस्य कीर्त्यते ।
अनेकजन्मजननः कुमारस्त्वनलस्य तु ॥६॥

पुरोजवाश्चानिलस्य प्रत्यूषस्य तु देवलः ।
विश्वकर्मा प्रभासस्य त्रिदशानां स वर्धकिः ॥७॥

समीहितकराः प्रोक्ता नागवीथ्यादयो नव ।
लम्बापुत्रः स्मृतो घोषो भानोः पुत्राश्च भानवः ॥८॥

ग्रहर्क्षाणाञ्च सर्वेषामन्येषां चामितौजसाम् ।
मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः ॥९॥

सङ्कल्पायाश्च सङ्कल्पस्तथा पुत्रः प्रकीर्तितः ।
मुहूर्ताश्च मुहूर्तायाः साध्याः साध्यासुताः स्मृताः ॥१०॥

मनोर्मनुश्च प्राणश्च नरोषानौ च वीर्यवान् ।
चित्तहार्योऽयनश्चैव हंसो नारायणस्तथा ॥११॥

विभुश्चापि प्रभुश्चैव साध्या द्वादशकीर्तिताः ।
विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥१२॥

क्रतुर्दक्षोवसुः सत्यः कालकामो मुनिस्तथा ।
कुरजो मनुजो बीजो रोचमानश्च ते दश ॥१३॥

एतावदुक्तस्तव धर्मवंशः संक्षेपतः पार्थिववंशमुख्य! ।
व्यासेन वक्तुं न हि शक्यमस्ति राजन् विना वर्षशतैरनेकैः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP