संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७५

मत्स्यपुराणम् - अध्यायः ७५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


विशोकसप्तमीव्रतकथनम् ।

ईश्वर उवाच ।
विशोकसप्तमीं तद्वद्वक्ष्यामि मुनिपुङ्गव! ।
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते ॥१॥

माघे कृष्णतिलैः स्नात्वा षष्ठ्यां वै शुक्लपक्षतः ।
कृताहारः कृसरया दन्तधावनपूर्वकम् ॥
उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि ॥२॥

ततः प्रभाते उत्थाय कृतस्नानजपः शुचिः ।
कृत्वा तु काञ्चनं पद्ममर्कायेति च पूजयेत् ॥३॥

करवीरेण रक्तेन रक्तवस्त्रयुगेन च ।
यथा विशोकं भुवनं त्वयैवादित्य! सर्वदा ॥
तथा विशोकता मेऽस्तु त्वद्भक्तिः प्रतिजन्म च ॥४॥

एवं संपूज्य षष्ठ्यान्तु भक्त्या संपूजयेद्‌ द्विजान् ।
सुप्त्वा संप्राश्य गोमूत्रमुत्थाय कृतनैत्यकः ॥५॥

संपूज्य विप्रानन्नेन गुडपात्रसमन्वितम् ।
तद्वस्त्रयुग्मं पद्मञ्च ब्राह्मणाय निवेदयेत् ॥६॥

अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः ।
ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता ॥७॥

अनेन विधिना सर्वमुभयोरपि पक्षयोः ।
कृत्वा यावत् पुनर्माघशुक्लपक्षस्य सप्तमी ॥८॥

व्रतान्ते कलशन्दद्यात् सुवर्णकमलान्वितम् ।
शय्यां सोपस्करान्दद्यात् कपिलाञ्च पयस्विनीम् ॥९॥

अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः ।
विशोकसप्तमीं कुर्यात्‌ स याति परमाङ्गतिम् ॥१०॥

यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत् ।
तावन्नशोकमभ्येति रोगदौर्गत्यवर्जितः ॥११॥

यं यं प्रार्थयते कामं तन्तमाप्नोति पुष्कलम् ।
निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति ॥१२॥

यः पठेच्छृणुयाद्वापि विशोकाख्याञ्च सप्तमीम् ।
सोऽपीन्द्रलोकमाप्नोति न दुःखी जायते क्वचित् ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP