संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ४५

मत्स्यपुराणम् - अध्यायः ४५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


स्यमन्तकमणिसंक्षिप्तचरित्रम्  ।

सूत उवाच  ।
गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः  ।
गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ॥१॥

माद्री युधाजितं पुत्रं ततो वै देवमीढुषम्  ।
अनमित्रं शिबिं चैव पञ्चमं कृतलक्षणम् ॥२॥

अनमित्रसुतो निघ्नो निघ्नस्यापि तु द्वौ सुतौ  ।
प्रसेनश्चमहावीर्यः शक्तिसेनश्च तावुभौ ॥३॥

स्यमन्तकः प्रसेनस्य मणिरत्नमनुत्तमम्  ।
पृथिव्यां सर्वरत्नानां राजा वै सोऽभवन्मणिः ॥४॥

हृदि कृत्वा तु बहुशो मणिन्तमभियाचितम्  ।
गोविन्दोऽपि न तं लेभे शक्तोऽपि न जहार सः ॥५॥

कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः  ।
यथाशब्दं स शुश्राव बिले सत्वेन पूरिते ॥६॥

ततः प्रविश्य स बिलं प्रसेनो ऋक्षमैक्षत  ।
ऋक्षः प्रसेनञ्च तथा ऋक्षं चैव प्रसेनजित् ॥७॥

हत्वा ऋक्षः प्रसेनन्तु ततस्तं मणिमाददात्  ।
अदृष्टस्तु हतस्तेन अन्तर्बिलगतस्तदा ॥८॥

प्रसेनन्तु हतं ज्ञात्वा गोविन्दः परिशङ्कितः  ।
गोविन्देन हतो व्यक्तं प्रसेनो मणिकारणात् ॥९॥

प्रसेनस्तु गतोऽरण्यं मणिरत्नेन भूषितः  ।
तं द्रृष्ट्वा स हतस्तेन गोविन्दः प्रत्युवाच ह ॥
हन्मि चैनं दुराचारं शत्रुभूतं हि वृष्णिषु ॥१०॥

अथ दीर्घेण कालेन मृगयां निर्गतः पुनः  ।
यद्रृच्छया च गोविन्दो बिलस्याभ्यासमागमत् ॥११॥

तं दृष्ट्वा तु महाशब्दं स चक्रे ऋक्षराट् बली  ।
शब्दं श्रुत्वा तु गोविन्दः खङ्गपाणिः प्रविश्य सः ॥
अपश्यज्जाम्बवन्तं तं ऋक्षराजं महाबलम् ॥१२॥

ततस्तूर्णं हृषीकेशस्तमृक्षपतिमञ्जसा  ।
जाम्बवन्तं स जग्राह क्रोध संरक्त लोचनः ॥१३॥

तुष्टावैनं तदा ऋक्षः कर्मभिः वैष्णवैः प्रभुम्  ।
देवाहस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः ॥१४॥

इच्छेच्चक्र प्रहारेण त्वत्तोऽहं मरणं प्रभो!  ।
कन्याचेयं मम शुभा भर्त्तारं त्वामवाप्नुयात् ॥
योऽयं मणिः प्रसेनन्तु हत्वा प्राप्तो मया प्रभो ॥१५॥

ततः सजाम्बवन्तं तं हत्वा चक्रेण वै प्रभुः  ।
कृतकर्मा महाबाहुः सकन्यं मणिमाहरत् ॥१६॥

ददौ सत्राजितायैनं सर्वं सात्वतसंसदि  ।
तेन मिथ्यापवादेन सन्तप्ता ये जनार्दने ॥१७॥

ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्  ।
अस्माकन्तु मतिर्ह्यासीत् प्रसेनस्तु त्वया हतः ॥१८॥

कैकेयस्य सुता भार्या दश सत्राजितः शुभाः  ।
तासूत्पन्नाः सुतास्तस्य सर्वलोकेषु विश्रुताः ॥
ख्यातिमन्ते महावीर्य्या भङ्गकारस्तु पूर्वजः ॥१९॥

अथ व्रतवती तस्मात् भङ्गकारात्तु पूर्वजात्  ।
सुषुवे सुकुमारीस्तु तिस्रः कमललोचनाः ॥२०॥

सत्यभामा वरास्त्रीणां व्रतिनी च दृढव्रता  ।
तथा पद्मावती चैव ताश्च कृष्णायसोऽददात् ॥२१॥

अनमित्रात् शनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात्  ।
सत्यवांस्तस्य पुत्रस्तु सात्यकिस्तस्य चात्मजः ॥२२॥

सत्यवान्युयुधानस्तु शिनेर्नप्ता प्रतापवान्  ।
असङ्गोयुयुधानस्य द्युम्निस्तस्यात्मजोऽभवत् ॥२३॥

द्युम्नेर्युगन्धरः पुत्र इति शैन्याः प्रकीर्त्तिताः  ।
अनमित्रान्वयो ह्येष व्याख्यातो वृष्णिवंशजः ॥२४॥

अनमित्रस्य संज्ञज्ञे पृथ्व्यां वीरो युधाजितः  ।
अन्यौ तु तनयो वीरौ बृषभः क्षत्र एव च ॥२५॥

वृषभः काशिराजस्य सुतां बार्यामविन्दत  ।
जयन्तस्तु जयन्त्यान्तु पुत्रः समभवच्छुभः ॥२६॥

सदा यज्ञोऽति वीरश्च श्रुतवानतिथिप्रियः  ।
अक्रूरः सुषुवे तस्मात्सदा यज्ञोऽतिदक्षिणः ॥२७॥

रत्ना कन्या च शौर्यस्य अक्रूरस्तामवाप्तवान्  ।
पुत्रानुत्पादयामास एकादशमहाबलान् ॥२८॥

उपलम्भः सदालम्भो वृकलो वीर्य्य एव च  ।
सिरी ततो महापक्षः शत्रुध्नो वारिमेजयः ॥२९॥

धर्म्मभृद्धर्म्मवर्माणौ धृष्टमानस्तथैव च  ।
सर्वे च प्रतिहोतारो रत्नायां जज्ञिरे च ते ॥३०॥

अक्रूरादुग्रसेनायां सुतौ द्वौ कुलवर्द्धनौ  ।
देववानुपदेवश्च जज्ञाते देवसन्निभौ ॥३१॥

अश्विन्यां च ततः पुत्राः पृथुर्विपृथुरेव च  ।
अश्वत्थामा सुबाहुश्च सुपार्श्वकगवेषणौ ॥३२॥

वृष्टिनेमिः सुधर्मा च तथा शर्यातिरेव च  ।
अभूमिर्वर्जभूमिश्च श्रमिष्ठः श्रवणस्तथा ॥३३॥

इमां मिथ्याभिशस्तिं यो वेदकृष्णादपोहिताम्  ।
न स मिथ्याभिशापेन अभिशाप्योऽथ केनचित् ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP