TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ६९

मत्स्यपुराणम् - अध्यायः ६९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः ६९
भीमद्वादशीव्रतकथनम् ।

मत्स्य उवाच ।
पुरा रथन्तरे कल्पे परिपृष्टो महात्मनः ।
मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम् ॥१॥

ब्रह्मोवाच ।
कथमारोग्यमैश्वर्यमनन्तममरेश्वर! ।
स्वल्पेन तपसा देव! भवेत् मोक्षोऽथवा नृणाम् ॥२॥

किमज्ञातं महादेव!त्वत्प्रसादादधोक्षज!
स्वल्पकेनाथ तपसा महत्फलमिहोच्यताम् ॥३॥

मत्स्य उवाच ।
एवं पृष्टः स विश्वात्मा ब्रह्मणो लोकभावनः ।
उमापतिरुवाचेदं मनसः प्रीतिकारकम् ॥४॥

ईश्वर उवाच ।
अस्माद्रथन्तरात्कल्पात् त्रयोविंशात् पुनर्यदा ।
वाराहो भविता कल्पस्तस्य मन्वन्तरे शुभे ॥५॥

वैवस्वताख्ये सञ्जाते सप्तमे सप्तलोककृत् ।
द्वापराख्यं युगं तद्वदष्टाविंशतिमञ्जगुः ॥६॥

तस्यान्ते स महादेवो वासुदेवो जनार्दनः ।
भारावतारणार्थाय त्रिधा विष्णुर्भविष्यति ॥७॥

द्वैपायन ऋषिस्तद्वद्रौहिणेयोऽथ केशवः ।
कंसादिदर्पमथनः केशवः क्लेशनाशनः ॥८॥

पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली ।
दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः
त्वष्टा ममाज्ञया तद्वत् करिष्यति जागत्पतेः ॥९॥

तस्यां कदाचिदासीनः सभायाममितद्युतिः ।
भार्याभिर्वृष्णिभिश्चैव भूभृद्भिर्भूरिदक्षिणैः ॥१०॥

कुरुभिर्देवगन्धर्वैरभितः कैटभार्दनः ।
प्रवृत्तासु पुराणासु ध्रर्म्मसम्बन्धिनीषु च ॥११॥

कथान्ते भीमसेनेन परिपृष्टः प्रतापवान् ।
त्वया पृष्टस्य धर्म्मस्य रहस्यस्यास्य भेदकृत् ॥१२॥

भविता स तदा ब्रह्मन्! कर्त्ता चैव वृकोदरः ।
प्रवर्तकोऽस्य धर्म्मस्य पाण्डुपुत्रो महाबलः ॥१३॥

यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः ।
मया दत्तः स धर्म्मात्मा तेन चासौ वृकोदरः ॥१४॥

मतिमान् दानशीलश्च नागायुतबलो महान् ।
भविष्यत्यरजाः श्रीमान् कन्दर्प इव रूपवान् ॥१५॥

धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे ।
इदं व्रतमशेषाणां व्रतानामधिकं यतः ॥१६॥

कथयिष्यति विश्वात्मा वासुदेवो जगद्‌गुरुः ।
अशेषयज्ञफलदमशेषाघविनाशनम् ॥१७॥

अशेषदुष्टशमनमशेषसुरपूजितम् ।
पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् ॥
भविष्यञ्च भविष्याणां पुराणानां पुरातनम् ॥१८॥

यद्यष्टमी चतुर्दश्यो र्द्वादशीष्वथ भारत! ।
अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् ॥१९॥

ततः पुण्यान्तिथिमिमां सर्वपापप्रणाशिनीम् ।
उपोष्यविधिनानेन गच्छ विष्णोः परम्पदम् ॥२०॥

माघमासस्य दशमी यदा शुक्ला भवेत् तदा ।
घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् ॥२१॥

तथैव विष्णुमभ्यर्च्य नमो नारायणेति च ।
कृष्णाय पादौ संपूज्य शिरः सर्वात्मने नमः ॥२२॥

वैकुण्ठायेति वैकुण्ठमुरः श्रीवत्सधारिणे ।
शङ्खिने चक्रिणे तद्वद् गदिने वरदाय वै ॥
सर्वे नारायणस्यैव संपूज्याः बहवः क्रमात् ॥२३॥

दामोदरायेत्युदरं मेढ्रं पञ्च शराय वै ।
ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे ॥२४॥

नमो नीलाय वैजङ्घे पादौ विश्वसृजे नमः ।
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै ॥२५॥

नमः पुष्ट्‌यै नमस्तुष्ट्‌यै धृष्ट्यै हृष्ट्यैः नमो नमः ।
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे ॥
विषप्रमाथिने नित्यं गरुड़ञ्चाभिपूजयेत् ॥२६॥

एवं संपूज्य गोविन्दं उमापतिविनायकौ ।
गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि ॥२७॥

गव्येन पयसा सिद्धङ्कृसरामथ वाग्यतः ।
सर्पिषा सह भुक्त्वा च गत्वा शतपदं बुधः ॥२८॥

न्यग्रोधं दन्तकाष्ठमथवा खादिरं बुधः ।
गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्‌मुखः ॥२९॥

ब्रूयात् सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ ।
नमो नारायणायेति त्वामहं शरणङ्गतः ॥३०॥

एकादश्यां निराहारः समभ्यर्च्य च केशवम् ।
रात्रिञ्च शकलां स्थित्वा स्नानञ्च पयसा तथा ॥३१॥

सर्पिषा चापि दहनं हुत्वा ब्राह्मणपुङ्गवैः ।
सहैव पुण्डरीकाक्ष! द्वादश्यां क्षीरभोजनम् ॥३२॥

करिष्यामि यतात्माऽहं निर्विघ्नेनास्तु तच्च मे ।
एवमुक्त्वा स्वपेद्‌ भूमावितिहास कथां पुनः ॥३३॥

श्रुत्वा प्रभाते सञ्जाते नदीं गत्वा विशाम्पते!
स्नानं कृत्वा मृदा तद्वत् पाखण्डानभिवर्जयेत् ॥३४॥

उपास्य सन्ध्यां विधिवत् कृत्वा च पितृतर्पणम् ।
प्रणम्य च हृषीकेशं सप्तलोकैकमीश्वरम् ॥३५॥

गृहस्य पुरतो भक्त्या मण्डपं कारयेद्‌ बुधः ।
दशहस्तमथाष्टौ वा करान् कुर्याद्विशाम्पते! ॥३६॥

चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिषूदन! ।
चतुर्हस्तप्रमाणञ्च विन्यसेत् तत्र तोरणम् ॥३७॥

प्रणम्य कलशं तत्र माघ(ष) मात्रेण संयुतम् ।
छिद्रेण जलसम्पूर्णमथकृष्णाजिनस्थितः ॥३८॥

तस्य धारां च शिरसा धारयेत् सकलान्निशम् ।
तथैव विष्णोः शिरसि क्षीरधारां प्रपातयेत् ॥३९।॥

अरत्निमात्रं कुण्डञ्च कुर्यात् तत्र त्रिमेखलम् ।
योनिवक्त्रञ्च तत् कृत्वा ब्राह्मणैः पयसर्पिषी ॥४०॥

तिलांश्च विष्णुदैवत्यैर्मन्त्रैरेकाग्निवत् तदा ।
हुत्वा च वैष्णवं सम्यक्‌ चरुं गोक्षीरसंयुतम् ॥४१॥

निष्पावार्द्धप्रमाणां वै धारामाज्यस्य पातयेत् ।
जलकुम्भान् महावीर्य्य! स्थापयित्वा त्रयोदश ॥४२॥

भक्ष्यैर्नानाविधैर्युक्तान् सितवस्त्रैरलङ्कृतान् ।
युक्तानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितान् ॥४३॥

चतुर्भिर्बह्वचैर्होमस्तत्र कार्य्य उदङ्‌मुखैः ।
रुद्रजापश्चतुर्भिश्च यजुर्वेदपरायणैः ॥४४॥

वैष्णवानि तु सामानि चतुरः सामवेदिनः ।
अरिष्टवर्गसहितान्यभितः परिपाठयेत् ॥४५॥

एवं द्वादश तान् विप्रान् वस्त्रमाल्यानुलेपनैः ।
पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः ॥४६॥

वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः ।
एवं क्षपातिवाह्या च गीतमङ्गल निस्वनैः ॥४७॥

उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु ।
ततः प्रभाते विमले समुत्थाय त्रयोदश ॥४८॥

गावो दद्यात्‌ कुरुश्रेष्ठ! सौवर्णमुखसंयुताः ।
पयस्विन्यः शीलवत्यः कांस्य दोहसमन्विताः ॥४९॥

रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः ।
तास्तु तेषां ततो भक्त्या भक्ष्यभोज्यान्नतर्पितान् ॥५०॥

कृत्वा वै ब्राह्मणान् सर्वानन्नैर्नानाविधैस्तथा ।
भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत् ॥५१॥

अनुगम्य पदान्नष्टौ पुत्रभार्यासमन्वितः ।
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः ॥५२॥

शिवस्य हृदये विष्णुर्विष्णोश्च हृदये शिवः ।
यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः ॥५३॥

एवमुच्चार्य तान् कुम्भान् गाश्चैव शयनानि च ।
वासां दद्याद्‌ द्विजातेश्च सर्वोपस्करसंयुताम् ॥५४॥

अभावे बहुशय्यानामेकामपि सुसंस्कृताम् ।
शय्यां दद्याद्‌ द्विजातेश्च सर्वोपस्करसंयुताम् ॥५५॥

इतिहासपुराणानि वाचयित्वातिवाहयेत् ।
तद्दिनं नरशार्दूल! य इच्छेद्विपुलां श्रियम् ॥५६॥

तस्मात्त्वं सत्वमालम्ब्य भीमसेन! विमत्सरः ।
कुरु व्रतमिदं सम्यक्‌ स्नेहात् तव मयेरितम् ॥५७॥

त्वया कृतमिदं वीर! त्वन्नामाख्यं भविष्यति ।
सा भीमद्वादशीह्येषा सर्वपापहरा शुभा ॥५८॥

या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते ।
त्वमादिकर्ता भव सौकरेऽस्मिन् कल्पे महावीर वरप्रधान ॥५९॥

यस्याः स्मरन् कीर्तनमप्यशेषं विनष्टपापस्त्रिदशाधिपः स्यात् ॥६०॥

कृत्वा च यामप्सरसामधीशा वेश्याकृता ह्यन्यभवान्तरेषु ।
आभीरकन्यातिकुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे ॥६१॥

जाताथवा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी ।
तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यकामा ॥६२॥

स्नातः पुरा मण्डलमेष तद्वत् तेजोमयं वेदशरीरमाप ।
अस्याञ्च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः ॥६३॥

इदमेव कृतं महेन्द्रमुख्यैर्वसुभिर्देवसुरारिभिस्तथा तु ।
फलमस्य न शक्यतेऽभिवक्तुं यदि जिह्वायुतकोटयो मुखे स्युः ॥६४॥

कलिकलुषविदारिणीमनन्तामिति कथयिष्यति यादवेन्द्रसूनुः ॥
अपि नरकगतान् पितॄनशेषानलमुद्धर्तुमिहैव यः करोति ॥६५॥

य इदमघविदारणं श्रृणोति भक्त्या परिपठतीह परोपकारहेतोः ।
तिथिमिहसकलार्थभाङ् नरेन्द्रस्तव चतुरानन! साम्यतामुपैति ॥६६॥

कल्याणिनी नाम पूरा बभूव या द्वादशी माघदिनेषु पूज्या ।
सा पाण्डुपुत्रेण कृता भविष्यत्यनन्तपुण्यानघ! भीमपूर्वा ॥६७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:47.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

residual body

  • अवशिष्ट पिंड 
  • अवशिष्ट पिंड 
RANDOM WORD

Did you know?

महावाक्य पंचीकरण हे पुस्तक कुठे मिळेल ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site