संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१७

मत्स्यपुराणम् - अध्यायः २१७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


राजकृत्यवर्णनम् ।
मत्स्य उवाच ।
राजा सहायसंयुक्तः प्रभूत यवसेन्धनम् ।
रम्यमानतसामन्तं मध्यमन्देशमावसेत् ॥१॥

वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ।
किञ्चिद् ब्राह्मणसंयुक्तं बहुकर्मकरन्तथा ॥२॥

अदैवमातृकं रम्यमनुरक्तजनान्वितम् ।
करैरापीडितञ्चापि बहुपुष्पफलं तथा ॥३॥

अगम्यं परचक्राणां तद्वासगृहमापदि ।
समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ॥४॥

सरीसृपविहीनञ्च व्याघ्रतस्करवर्जितम् ।
एवं विधं यथालाभं राजा विषयमावसेत् ॥५॥

तत्र दुर्गं नृपः कुर्यात् षण्णामेकतमं बुधः ।
धनुर्दुर्गं महीदुर्गं नरदुर्गं तथैव च ॥६॥

वार्क्षं चैवाम्बुदुर्गं च गिरिदुर्गं च पार्थिव! ।
सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥७॥

दुर्गंच परिखोपेतं वप्राट्टालकसंयुतम् ।
शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ॥८॥

गोपुरं सकपाटञ्च तत्र स्यात्सुमनोहरम् ।
सपताकं गजारूढो येन राजा विशेत्पुरम् ॥९॥

चतस्रश्च तथा तत्र कार्यस्त्वायतवीथयः ।
एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥१०॥

वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते ।
धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥११॥

चतुर्थेत्वथ वीथ्यग्रे गोपुरञ्च विधीयते ।
आयतञ्चतुरस्रं वा वृत्तं वा कारयेत् पुरम् ॥१२॥

मुक्तिहीनं त्रिकोणञ्च यवमध्यं तथैव च ।
आयतञ्चतुरस्रं वा वृत्तं वा कारयेत्पुरम् ॥१३॥

अर्द्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वसन् ।
अन्यत्तत्र न कर्तव्यं प्रयत्नेन विजानता ॥१४॥

राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः ।
तस्यापि दक्षिणे भागे गजस्थानं विधीयते ॥१५॥

गजानां प्राङ्मुखी शाला कर्तव्या वाप्युदङ्मुखी ।
आग्नेये च तथा भागे आयुधागारमिष्यते ॥१६॥

महानसश्च धर्मज्ञ! कर्मशालास्तथापराः ।
गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥१७॥

मन्त्रिवेदविदाञ्चैव चिकित्साकर्त्तुरेव च ।
तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥१८॥

गवां स्थानं तथैवात्र तुरगाणां तथैव च ।
उत्तराभिमुखा श्रेणी तुरगाणां विधीयते ॥१९॥

दक्षिणाभिमुखा वाथ परिशिष्टस्तु गर्हिताः ।
तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः ॥२०॥

कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः ।
धारयेदश्वशालासु सवत्सां धेनुमेव च ॥२१॥

अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा ।
गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः ॥२२॥

अस्तंगते न कर्तव्यो देवदेवे दिवाकरे ।
तत्र तत्र यथास्थानं राजा विज्ञाय सारथीन् ॥२३॥

दद्यादावसथस्थानं सर्वेषामनुपूर्वशः ।
योधानां शिल्पिनाञ्चैव सर्वेषमविशेषतः ॥२४॥

दद्यादावसथान् दुर्गे कालमन्त्रविदां शुभान् ।
गौर्वैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥२५॥

आहरेत भृशं राजा दुर्गे हि प्रबला रुचः ।
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ॥२६॥

न बहूनामतो दुर्गे विना कार्यं तथा भवेत् ।
दुर्गे च तत्र कर्तव्या नाना प्रहरणान्विताः ॥२७॥

सहस्रघातिनो राजंस्तैस्तु रक्षा विधीयते ।
दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभृजा ॥२८॥

सञ्चयश्चात्र सर्वेषामायुधानां प्रशस्यते ।
धनुषां क्षेपणीयानान्तोमराणां च पार्थिवः ॥२९॥

शरणामथ खड्गानां कवचानां तथैव च ।
लगुडानां गुड़ानाञ्च हुडानां परिघैः सह ॥३०॥

अश्मनाञ्च प्रभूतानां मुद्गराणां तथैव च ।
त्रिशूलानां पट्टिशानां कुठाराणाञ्च पार्थिव ॥३१॥

प्रासानाञ्च सशूलानां शक्तीनाञ्च नरोत्तमः ।
परश्वधानां चक्राणां वर्मणाञ्चर्मभिः सह ॥३२॥

कुद्दालक्षुरवेत्राणां पीठकानान्तथैव च ।
तुषाणाञ्चैव दात्राणामङ्गाराणाञ्च सञ्चयः ॥३३॥

सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र चेष्यते ।
वादित्राणाञ्च सर्वेषामौषधीनान्तथैव च ॥३४॥

यवसानां प्रभूतानामिन्धनस्य च सञ्चयः ।
गुड़स्य सर्वतैलानां गोरसानान्तथैव च ॥३५॥

वसानामथ मज्जानां स्नायूनामस्थिभिः सह ।
गोचर्मपटहानाञ्च धान्यानां सर्वतस्तथा ॥३६॥

तथैवाभ्र पटानाञ्च यव गोधूमयोरपि ।
रत्नानां सर्ववस्त्राणां लोहानामप्यशेषतः ॥३७॥

कलापमुद्गमाषाणाञ्चणकानान्तिलैः सह ।
तथा च सर्वशस्यानां पांशुगोमययोरपि ॥३८॥

शणसर्जरसं भूर्जं जतुलाक्षा च टङ्कणम् ।
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ॥३९॥

कुम्भाश्चाशीविषैः कार्या व्यालसिंहादयस्तथा ।
मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम् ॥४०॥

स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक् ।
कर्तव्यानि महाभाग! यत्नेन पृथिवीक्षिता ॥४१॥

उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः ।
सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया ॥४२॥

जीवकर्षभकाकोलमामलक्याटरूषकान् ।
शालपर्णी पृष्ठिपर्णी मुद्गपर्णी तथैव च ॥४३॥

माषपर्णी च मदद्वैसारि वेद्वेबलात्रयम् ।
वारा श्वसन्ती वृष्या च बृहती कण्टकारिका ॥४४॥

शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्दर्भरेणुका ।
मधुपर्णी विदार्ये द्वे महाक्षीरा महातपाः ॥४५॥

धन्वनः सहदेवाह्वा कटुकैरण्डकं विषः ।
पर्णी शताह्वा मृद्वीका फल्गु खर्जरयष्टिकाः ॥४६॥

शुक्रातिशुक्रकाश्मर्यञ्छत्रातिच्छत्रवीरणाः ।
इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम ॥४७॥

सिंही च सहदेवी च विश्वेदेवाश्वरोधकम् ।
मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका ॥४८॥

शतावरी मधूके च पिप्पलन्तालमेव च ।
आत्मगुप्ता कट्फलाख्या दार्विका राजशीर्षकी ॥४९॥

राजसर्षपधान्याकमृष्यप्रोक्ता तथोत्कटा ।
कालशाकं पद्मबीजं गोवल्ली मधुवल्लिका ॥५०॥

शीतपाकी कुवेराक्षी काकजिह्वोरुपुष्पिका ।
पर्वतत्रपुसौ चोभौ गुञ्जातकपुनर्नवे ॥५१॥

कसेरु कारुकाश्मीरी बल्या शालूक केसरम् ।
तुषधान्यानि सर्वाणि शमी धान्यानि चैव हि ॥५२॥

क्षीरं क्षौद्रन्तथा तक्रं तैलं मज्जा वसा घृतम् ।
नीपश्चारिष्टकाक्षोड़ वाताम सोम बाणकम् ॥५३॥

एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ।
राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः ॥५४॥

दाड़िमाम्रातकौ चैव तिन्तिड़ीकाम्लवेतसम् ।
भव्यकर्कन्धुलकुचकरमर्द्दकरूषकम् ॥५५॥

बीजपूरककण्डूरे मालतीराजबन्धुकम् ।
कोलकद्वयपर्णानि द्वयोराम्नातयोरपि ॥५६॥

पारावतं नागरकं प्राचीनोलकमेव च ।
कपित्थामलकं चुक्र फलन्दन्तशठस्य च ॥५७॥

जाम्बवं नवनीतञ्च सौवीर करुषोदके ।
सुरासवञ्च मद्यानि मण्ड तक्रदधीनि च ॥५८॥

शुक्लानि चैव सर्वाणि ज्ञेयमाम्लगणं द्विज ।
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥५९॥

सैन्धवोद्भिदपाठेय पाक्यसामुद्रलोमकम् ।
कुप्य-सौवर्चलविड़ बालकेयं यवाह्वकम् ॥६०॥

और्वं क्षारं कालभस्म विज्ञेयो लवणोगणः ।
एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ॥६१॥

पिप्पली पिप्पलीमूल चव्यचित्रकनागरम् ।
कुबेरकं मरिचकं शिग्रुभल्लातसर्षपाः ॥६२॥

कुष्ठाज मोदाकिणि-हीहिङ्गु मूलकधान्यकम् ।
कारवी कुञ्जिका याज्या सुमुखा कालमालिका ॥६३॥

फणिज्जकोथ लशुनं भूस्तृणां सुरसन्तथा ।
कायस्था च वयस्था च हरितालं मनः शिला ॥६४॥

अमृता च रुदन्ती च रोहिषं कुङ्कुमन्तथा ।
जया एरण्डकाण्डीरं सल्लकीहञ्जिका तथा ॥६५॥

सर्वपित्तानि मूत्राणि प्रायो हरितकानि च ।
फलानि चैव हि तथा सूक्ष्मैला हिङ्गुपट्टिका ॥६६॥

एवमादीनि चान्यानि गणः कटुकसंज्ञितः ।
राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम! ॥६७॥

मुस्तञ्चन्दन ह्री वेर कृतमालकदारवः ।
दरिद्रानलदोशीर नक्तमालकदम्बकम् ॥६८॥

दूर्वा पटोलकटुका दीर्घत्वक् पत्रकं वचा ।
किराततिक्त भूतुम्वी विषा चातिविषा तथा ॥६९॥

तालीसपत्रतगरं सप्तपर्णविकङ्कताः ।
काकोदुम्वरिका दिव्या तथा चैव सुरोद्भवा ॥७०॥

षड्ग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका ।
रसाञ्जनं भृङ्गराजं पतङ्गी परिपेलवम् ॥७१॥

दुःस्पर्शा गुरुणी कामा श्यामाकं गन्धनाकुली ।
रूपपर्णी व्याघ्रनखं मञ्जिष्ठा चतुरङ्गुला ॥७२॥

रम्भा चैवाङ्कुरास्फोता तालास्फोता हरेणुका ।
वेत्राग्र वेतसस्तुम्बी विषाणी लोध्रपुष्पिणी ॥७३॥

मालतीकरकृष्णाख्या वृश्चिका जीविता तथा ।
पर्णिका च गुड़ूची च सगणस्तिक्त संज्ञकः ॥७४॥

एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे ।
अभयामलके चोभे तथैव च बिभीतकम् ॥७५॥

प्रियङ्गुधातकी पुष्पं मोचाख्या चार्जुनासनाः ।
अनन्ता स्त्रीतुवरिका स्योनाङ्कट् फलन्तथा ॥७६॥

भूर्जपत्रं शिलापत्रं पाटलापत्र-लोमकम् ।
समङ्गात्रिवृतामूलकार्पास-गैरिकाञ्जनम् ॥७७॥

विद्रुमं स मधूच्छिष्टं कुम्भिकाकुमुदोत्पलम् ।
न्यग्रोधोदुम्बराश्वत्थ किंशुकाः शिंशुपा शमी ॥७८॥

प्रियालपीलुकासारि शिरीषाः पद्मकन्तथा ।
बिल्वोऽग्निमन्थः प्लक्षञ्च श्यामाकश्च वको घनम् ॥७९॥

राजादनं करीरञ्च धान्यकं प्रियकस्तथा ।
कङ्कोला-शोक-बदराः कदम्बखदिरद्वयम् ॥८०॥

एषां पत्राणि साराणि मूलानि कुसुमानि च ।
एवमादीनि चान्यानि कषायाख्यो मतो रसः ॥८१॥

प्रयत्नेन नृपश्रेष्ठ! राजा सञ्चिनुयात्पुरे ।
कीटाश्च मारणे योग्या व्यङ्गतायां तथैव च ॥८२॥

वातधूमाश्च मार्गाणां दूषणानि तथैव व ।
धार्याणि पाथिवैर्दुर्गे तानि वक्ष्यामि पार्थिव ॥८३॥

विषाणां धारणं कार्यं प्रयत्नेन महीभुजा ।
विचित्राश्चाङ्गदा धार्या विषस्य शमनास्तथा ॥८४॥

रक्षोभूतः पिशाचघ्नाः पापघ्नाः पुष्टिवर्धनाः ।
कलाविदश्च पुरुषाः पुरे धार्याः प्रयत्नतः ॥८५॥

भीतान् प्रमत्तान् कुपितांस्तथैव च विमानितान् ।
कुभृत्यान् पापशीलांश्च न राजा वासयेत् पुरे ॥८६॥

यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम् ।
वणिग्जनैश्च वृतमावसेत दुर्गं सुगुप्तं नृपतिः सदैव ॥८७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP