संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ४३

मत्स्यपुराणम् - अध्यायः ४३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


यदुवंशवर्णनम्  ।

सूत उवाच  ।
इत्येतच्छौनकाद्राजा शतानीको निशम्य तु  ।
विस्मितः परया प्रीत्या पूर्णचन्द्र इवा बभौ ॥१॥

पूजयामास नृपति र्विधिवच्चाथ शौनकम्  ।
रत्नैर्गोभिः सुवर्णैश्च वासोभिर्विविधैस्तथा ॥२॥

प्रतिगृह्य ततः सर्वं यद्राज्ञा प्रहितं धनम्  ।
दत्वा च ब्राह्मणेभ्यश्च शौनकोऽन्तरधीयत ॥३॥

ऋषय ऊचुः  ।
ययाति र्वशमिच्छामः श्रोतुं विस्तरतो वद  ।
यदु प्रभृतिभिः पुत्रै र्यदालोके प्रतिष्ठितः ॥४॥

सूत उवाच  ।
यदोर्वंशं प्रवक्ष्यामि ज्वेष्ठस्योत्तमतेजसः  ।
विस्तरेणानुपूर्व्या च गदतो मे निबोधत  ॥५॥

यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः  ।
महारथा महेष्वासा नमतस्तान्निबोधत ॥६॥

सहस्रजिरथो ज्येष्ठः क्रोष्टु र्नीलोऽन्तिकोलघुः  ।
सहस्रजेस्तु दायादो शतजिर्नामपार्थिवः ॥७॥

शतजेरपि दायादास्त्रयः परमकीर्त्तयः  ।
हैहयश्च हयश्चैव तथा वेणुहयश्च यः ॥८॥

हैहयस्य तु दायादौ धर्मनेत्रः प्रतिश्रुतः  ।
धर्म्मनेत्रस्य कुन्तिस्तु संहतस्तस्य चात्मजः ॥९॥

संहतस्य तु दायादो महिष्मान्नामपार्थिवः  ।
आसीन्महिष्मतः पुत्रो रुद्रश्रेण्यः प्रतापवान् ॥१०॥

वाराणस्यामभूद्राजा कथितं पूर्वमेव तु  ।
रुद्रश्रेणस्य पुत्रोऽभूद् दुर्दमो नाम पार्थिवः ॥११॥

दुर्द्दमस्य सुतो धीमान् कनको नाम वीर्य्यवान्  ।
कनकस्य तु दायदा श्चत्वारो लोकविश्रुताः ॥१२॥

कृतवीर्य्यः कृताग्निश्च कृतवर्मा तथैव च  ।
कृतोजाश्च चतुर्थोऽभूत् कृतवीर्य्यात्तु सोर्जुनः ॥१३॥

जातः करसहस्रेण सप्तद्वीपेश्वरो नृपः  ।
वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः ॥१४॥

दत्तमाराधयामास कार्तवीर्य्योऽत्रिसम्भवम्  ।
तस्मै दत्तावरास्तेन चत्वारः पुरुषोत्तम ॥१५॥

पूर्वं बाहुसहस्रन्तु स वव्रे राजसत्तमः  ।
अधर्मं चरमाणस्य सद्भिश्चापि निवारणम् ॥१६॥

युद्धेन पृथिवीं जित्वा धर्मेणैवानुपालनम्  ।
संग्रामे वर्तमानस्य वधश्चैवाधिकाद् भवेत् ॥१७॥

तेनेयं पृथिवी सर्वा सप्तद्वीपा सपर्वता  ।
समोदधिपरिक्षिप्ता क्षात्रेण विधिना जिता ॥१८॥

जज्ञे बाहुसहस्रं वै इच्छत स्तस्य धीमतः  ।
रथो ध्वजश्च संजज्ञे इत्येवमनुशुश्रुमः ॥१९॥

दशयज्ञसहस्राणि राज्ञा द्वीपेषु वै तदा  ।
निरर्गला निवृत्तानि श्रूयन्ते तस्य धीमतः ॥२०॥

सर्वे यज्ञा महाराज्ञस्तस्यासन् भूरिदक्षिणाः  ।
सर्वेकाञ्चनयूपास्ते सर्वाः काञ्चनवेदिकाः ॥२१॥

सर्वे देवैः समं प्राप्तै र्विमानस्थैरलङ्कृताः  ।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥२२॥

तस्य यो जगौ गाथां गन्धर्वो नारदस्तथा  ।
कार्तवीर्य्यस्य राजर्षेर्महिमानं निरीक्ष्य सः ॥२३॥

न नूनं कार्तवीर्य्यस्य गतिं यास्यन्ति क्षत्रियाः  ।
यज्ञैर्दानै स्तपोभिश्च विक्रमेण श्रुतेन च ॥२४॥

स हि सप्तसु द्वीपेषु, खड्गी चक्री शरासनी  ।
रथीद्वीपान्यनुचरन् योगी पश्यति तस्करान् ॥२५॥

पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः  ।
स सर्वरत्नसम्पूर्ण श्चक्रवर्त्ती बभूव ह ॥२६॥

स एव पशुपालोऽभूत् क्षेत्रपालः स एव हि  ।
स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत् ॥२७॥

योऽसौ बाहु सहस्रेण ज्याघात कठिनत्वचा  ।
भाति रश्मिसहस्रेण शारदेनैव भास्करः ॥२८॥

एष नागं मनुष्येषु माहिष्मत्यां महाद्युतिः  ।
कर्कोटकसुतं जित्वा पुर्य्यां तत्र न्यवेशयत् ॥२९॥

एष वेगं समुद्रस्य प्रावृट्काले भजेत वै  ।
क्रीड़न्नेव सुखोद्भिन्नः प्रतिस्रोतो महीपतिः ॥३०॥

ललता क्रीड़ता तेन प्रतिस्रग्दाममालिनी  ।
ऊर्मि भ्रुकुटिसन्त्रा सा चकिताभ्येति नर्म्मदा ॥३१॥

एको बाहुसहस्रेण वगाहे स महार्णवः  ।
करोत्युह्यतवेगान्तु नर्मदां प्रावृडुह्यताम् ॥३२॥

तस्य बाहुसहस्रेणा क्षोभ्यमाने महोदधौ  ।
भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः ॥३३॥

चूर्णीकृतमहावीचि लीन मीन महातिमिम्  ।
मारुता विद्धफेनौघ्ज्ञ मावर्त्ताक्षिप्त दुःसहम् ॥३४॥

करोत्यालोडयन्नेव दोः सहस्रेण सागरम्  ।
मन्दारक्षोभचकिता ह्यमृतोत्पादशङ्किताः ॥३५॥

तदा निश्चलमूर्द्धानो भवन्ति च महोरगाः  ।
सायाह्ने कदलीखण्डा निर्वात स्तिमिता इव ॥३६॥

एवं बध्वा धनुर्ज्यायामुत्सिक्तं पञ्चभिः शरैः  ।
लङ्कायां मोहयित्वा तु सबलं रावणं बलात् ॥३७॥

निर्जित्य बध्वा चानीय माहिष्मत्यां बबन्ध च  ।
ततो गत्वा पुलस्त्यस्तु अर्जुनं संप्रसादयत् ॥३८॥

मुमोच रक्षः पौलस्त्यं पुलस्त्येनेह सान्त्वितम्  ।
तस्य बाहुसहस्रेण बभूव ज्यातलस्वनः ॥३९॥

युगान्ताभ्र सहस्रस्य आस्फोट स्वशनेरिव  ।
अहोबत विधे र्वीर्यं भार्गवोऽयं यदाच्छिनत् ॥४०॥

तद्वै सहस्रं बाहूनां हेमतालवनं यथा  ।
यत्रापवस्तु संक्रुद्धो ह्यर्जुनं शप्तवान् प्रभुः ॥४१॥

यस्माद्वनं प्रदग्धं वै विश्रुतं मम हैहय  ।
तस्मात्ते दुष्करं कर्म्म कृतमन्यो हरिष्यति ॥४२॥

छित्वा बाहुसहस्रन्ते प्रथमन्तरसा बली  ।
तपस्वी ब्राह्मणश्च त्वां सवधिष्यति भार्गवः ॥४३॥

सूत उवाच  ।
तस्य रामस्तदा त्वासीन् मृत्युः शापेन धीमता  ।
वरश्चैवन्तु राजर्षेः स्वयमेव वृतः पुरा ॥४४॥

तस्य पुत्रशतं त्वासीत् पञ्च पत्र महारथाः  ।
कृतास्त्रा बलिनः शूरा धर्म्मात्मानो महाबलाः ॥४५॥

शूरसेनश्च शूरश्च धृष्टः क्रोष्टुस्तथैव च  ।
जयध्वजश्च वैकर्ता अवन्तिश्च विशाम्पते ॥४६॥

जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः  ।
तस्य पुत्रशतान्येव तालजङ्घा इति श्रुताः ॥४७॥

तेषां पञ्च कुलाख्याताः हैहयानां माहत्मनाम्  ।
वीतिहोत्राश्च शार्याता भोजाश्च वन्तयस्तथा ॥४८॥

कुण्डिकेराश्च विक्रान्ता स्तालजङ्घा स्तथैव च  ।
वीतिहोत्रसुतश्चापि आनर्तो नाम वीर्य्यवान् ॥
दुर्जेयस्तस्य पुत्रस्तु बभूवामित्रकर्शनः ॥४९॥

सद्भावेन महाराज! प्रजा धर्मेण पालयन्  ।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ॥५०॥

येन सागरपर्यन्ता धनुषा निर्जिता मही  ।
यस्तस्य कीर्तयेन्नाम कल्यमुत्थाय मानवः ॥५१॥

न तस्य वित्तनाशः स्यान्नष्टञ्च लभते पुनः  ।
कार्त्तवीर्यस्य यो जन्म कथयेदिह धीमतः ॥
यथावत् स्विष्टपूतात्मा स्वर्गलोके महीयते ॥५२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP