संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १७५ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १७५ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १७५ Translation - भाषांतर देवासुरसंग्रामवर्णनम् । मत्स्य उवाच । ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा । सुराणामसुराणाञ्च परस्पर जयैषिणाम् ॥१॥दानवा दैवतैः सार्द्धं नाना प्रहरणोद्यताः । समीयुर्युध्यमाना वै पर्वता इव पर्वतैः ॥२॥तत् सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ । धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥३॥ततो रथैर्विप्रयुक्तैर्वारणैश्च प्रचोदितैः । उत्पतद्भिश्च गगनमसिहस्तैः समन्ततः ॥४॥क्षिप्यमाणैश्च मुसलैः सम्पतद्भिश्च सायकैः । चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥५॥तद्युद्धमभवद् घोरं देवदानव सङ्कुलम् । जगतस्त्रास जननं युगसंवर्तकोपमम् ॥६॥हस्तमुक्तैश्च परिघैर्विप्रयुक्तैश्च पर्वतैः । दानवाः समरे जघ्नुर्देवानिन्द्र पुरोगमान् ॥७॥ते बध्यमाना बलिभिर्दानवैर्जयकाशिभिः । विषण्णवदना देवा जग्मुरार्तिं परामृधे ॥८॥तेऽस्त्र शूल प्रमथिताः परिघैर्भिन्नमस्तकाः । भिन्नोरस्का दितिसुतैर्वेमूरक्तं व्रणैर्बहु ॥९॥वेष्टिताः शरजालैश्च निर्यत्नाश्चासुरैः कृताः । प्रविष्टा दानवीं मायान्न शेकुस्ते विचेष्टितुम् ॥१०॥अस्तं गतमिवाभाति निष्प्राण सदृशाकृति । बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ॥११॥दैत्यचापच्युतान् घोरां श्छित्वा वज्रेण तांश्छरान् । शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥१२॥स दैत्यप्रमुखान् हत्वा तद्दानव बलं महत् । तामसेनास्त्रजालेन तमो भूतमथाकरोत् ॥१३॥तेऽन्योन्यं नावबुध्यन्त देवानां वाहनानि च । घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ॥१४॥मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः । वपूंषि दैत्यसिंहानाम् तमोभूतान्यपातयन् ॥१५॥अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा । पेतुस्ते दानवगणाश्छिन्नपक्षा इवाद्रयः ॥१६॥तद्घनीभूतदैत्येन्द्रमन्धकार इवार्णवे । दानवन्देवकदनन्तमोभूतमिवाभवत् ॥१७॥तदासृजन्महामायां मयस्तां तामसीन्दहन् । युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना ॥१८॥सा ददाह ततः सर्वान् मायामयविकल्पिता । दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे ॥१९॥मायामौर्वीं समासाद्य दह्यमाना दिवौकसः । भेजिरे चेन्द्रविषयं शीतांशुं सलिलप्रदम् ॥२०॥ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः । शशंसुर्वज्रिणं देवाः सन्तप्ताः शरणैषिणः ॥२१॥सन्तप्ते मायया सैन्ये हन्यमाने च दानवैः । चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥२२॥और्वो ब्रह्मर्षिजः शक्र! तपस्तेपे सुदारुणम् । और्वः स पूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः ॥२३॥तं तपन्तमिवादित्यं तपसा जगदव्ययम् । उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सहः ॥२४॥हिरण्यकशिपुञ्चैव दानवो दानवेश्वरः । ऋषिं विज्ञापयामासुः पुरा परम तेजसम् ॥२५॥ऊचुर्ब्रह्मर्षयस्तं तु वचनं धर्मसंहितम् । ऋषिवंशेषु भगवं श्छिन्नमूलमिदं पदम् ॥२६॥एकस्त्वमनपत्यश्च गोत्रायान्यो न वर्तते । कौमारं व्रतमास्थाय क्लेशमेवानुवर्त्तसे ॥१७५.२७॥बहूनि विप्र! गोत्राणि मुनीनां भावितात्मनाम् । एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः ॥२८॥एवमुच्छिन्नमूलैश्च पुत्रैर्नो नास्ति कारणम्भवांस्तु तपसा श्रेष्ठो प्रजापतिसमद्युतिः ॥२९॥तत्र वर्तस्व वंशाय वर्द्धयात्मानमात्मना । त्वया धर्मोऽर्जितस्तेन द्वितीयाङ्कुरु वै तनुम् ॥३०॥स एवमुक्तो मुनिभिर्ह्यौर्वो मर्मसु ताडितः । जगर्हे तान् ऋषिगणान् वचनं चेदमब्रवीत् ॥३१॥यथायं विहितो धर्मो मुनीनां शाश्वतस्तु सः । आर्षं वै सेवतः कर्म वन्यमूल फलाशिनः ॥३२॥ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मदर्शिनः । ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥३३॥जनानां वृत्तयस्तिस्रो यद् गृहाश्रम वासिनाम् । अस्माकन्तु वरं वृत्तिर्वनाश्रम निवासिनाम् ॥३४॥अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा । अश्मकुट्टा दश तथा पञ्चातपसहाश्च ये ॥३५॥एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः । ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति पराङ्गतिम् ॥३६॥ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते । एवमाहुः परे लोके ब्रह्मचर्य विदो जनाः ॥३७॥ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्येषु ब्राह्मणा दिवि संस्थिता ॥३८॥नास्ति योगं विना सिद्धिर्न वा सिद्धिं विना यशः । नास्ति लोके यशो मूलं ब्रह्मचर्यात् परन्तपः ॥३९॥यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम् । ब्रह्मचर्यं समाधत्ते किमतः परमं तपः ॥४०॥अयोगे केशधरणमसङ्कल्प व्रतक्रिया । अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञकम् ॥४१॥क्व दाराः क्व च संयोगः क्व च भाव विपर्ययः । नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥४२॥यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम् । सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥४३॥मनसा निर्मिता योनिराधातव्या तपस्विभिः । न दारयोगे बीजं वा व्रतमुक्तं तपस्विनाम् ॥४४॥यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः । व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतम् ॥४५॥वपुर्दीप्तान्तरात्मानमेतत् कृत्वा मनोमयम् । दारयोगं विना स्रक्ष्ये पुत्रमात्म तनूरुहम् ॥४६॥एवमात्मानमात्मा मे द्वितीयं जनयिष्यति । वन्येनानेन विधिना दिधिक्षन्तमिव प्रजाः ॥४७॥और्वस्तु तपसाविष्टो निवेश्योरुं हुताशने । ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम् ॥४८॥तस्योरुं सहसा भित्वा ज्वालामाली ह्यनिन्धनः । जगतो दहनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ॥४९॥ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः । दिघक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ॥५०॥उत्पन्नमात्रश्चोवाच पितरं श्लक्ष्णया गिरा । क्षुधामे बाधते तात! जगद् भक्ष्ये त्यजस्व माम् ॥५१॥त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश । निर्दयन् सर्वभूतानि ववृधे सोऽन्तकोऽनलः ॥५२॥एतस्मिन्नन्तरे ब्रह्मा मुनिपूर्वं सभाजयन् । उवाच वार्यतां पुत्रो जगतश्च दयाङ्कुरु ॥५३॥अस्यापत्यस्य ते विप्र! करिष्ये स्थानमुत्तमम् । तथ्यमेतद्वचः पुत्र! श्रुणु त्वं वदताम्वरः ॥५४॥ऊर्व उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवांच्छिशोः । मतिमेतां ददातीह परमानुग्रहाय वै ॥५५॥प्रभातकाले संप्राप्ते काङ्क्षितव्ये समागमे । भगवन्! तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥५६॥कुत्र चास्य निवासः स्याद् भोजनं वा किमात्मकम् । विधास्यतीह भगवान् वीर्य तुल्यं महौजसः ॥५७॥ब्रह्मोवाच । वडवामुखेऽस्य वसतिः समुद्रे वै भविष्यति । मम योनिर्जलं विप्र!तस्य पीतवतः सुखम् ॥५८॥यत्राहमास नियतं पिबन् वारिमयं हविः । तद्धविस्तव पुत्रस्य विसृजाम्यालयञ्च तत् ॥५९॥ततो युगान्ते भूतानामेष चाहञ्च पुत्रक! । सहितौ विचरिष्यावो निष्पुत्राणामृणापहः ॥१७५.६०॥एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः । दहनः सर्वभूतानां सदेवासुर रक्षसाम् ॥६१॥एवमस्त्वितितं सोऽग्निः संवृतज्वाल मण्डलः । प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम् ॥६२॥प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः । ऊर्वस्याग्ने प्रभां ज्ञात्वा स्वां स्वाङ्गतिमुपाश्रिताः ॥६३॥हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम् । ऊच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह ॥६४॥भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम् । तपसा ते मुनिश्रेष्ठ! परितुष्टः पितामहः ॥६५॥अहन्तु तव पुत्रस्य तव चैव महाव्रत! । भृत्य इत्यवगन्तव्यः साध्यो यदिह कर्मणा ॥६६॥तन्मां पश्य समापन्नं तवैवाराधने रतम् । यदि सीदे मुनिश्रेष्ठ! तवैव स्यात् पराजयः ॥६७॥ऊर्व उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि यस्यतेऽहं गुरुःस्थितः । नास्ति मे तपसानेन भयमद्येह सुव्रत! ॥६८॥तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम् । निरिन्धनामग्निमयीन्दुर्धर्षां पावकैरपि ॥६९॥एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे । संरक्षत्यात्मपक्षञ्च विपक्षञ्च प्रधर्षति ॥७०॥एवमस्त्विति तां प्रणम्य मुनिपुङ्गवम् । जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥७१॥एषा दुर्विषहा माया देवैरपि दुरासदा । और्वेण निर्मिता पूर्वं पावकेनोर्व सूनुना ॥७२॥तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः । शापोह्यस्याः पुरा दत्तो सृष्टा येनैव तेजसा ॥७३॥यद्येषा प्रतिहन्तव्या कर्त्तव्यो भगवान् सुखी । दीयतां मे सखा शक्र! तोय योनिर्निशाकरः ॥७४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP