TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०१

मत्स्यपुराणम् - अध्यायः २०१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः २०१
ऋषीणामाख्याने निमेराख्यानवर्णनम् ।
मत्स्य उवाच ।
वसिष्ठस्तु महातेजा निमे पूर्वपुरोहितः ।
बभूव पार्थिवश्रेष्ठ! यज्ञास्तस्य समन्ततः ॥१॥

श्रान्तात्मा पार्थिवश्रेष्ठ! विशश्राम तदा गुरुः ।
तं गत्वा पार्थिवश्रेष्ठो निमिर्वचनमब्रवीत् ॥२॥

भगवन्यष्टुमिच्छामि तन्मां याजयमाचिरम् ।
तमुवाच महातेजा वसिष्ठः पार्थिवोत्तमम् ॥३॥

कञ्चित्कालं प्रतीक्षस्व तव यज्ञैः सुसत्तमैः ।
श्रान्तोऽस्मि राजन्! विश्रम्य याजयिष्यामि ते नृपः ॥४॥

एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तम! ।
पारलौकिककार्ये तु कः प्रतीक्षितुमुत्सहेत् ॥५॥

न च मे सौहृदं ब्रह्मन्! कृतान्तेन बलीयसा ।
धर्मकार्ये त्वरा कार्या चलं यस्माद्धि जीवितम् ॥६॥

धर्मपथ्यौदनो जन्तुर्मृतोऽपि सुखमश्नुते ।
श्वः कार्य्यमद्य कुर्वीत पूर्वाह्णे चापराह्निकम् ॥७॥

न हि प्रतीक्षते मृत्युः कृतञ्चास्य न वा कृतम् ।
क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् ॥८॥

वृकश्चोरणमासाद्य मृत्युरादाय गच्छति ।
नैकान्तेन प्रियः कश्चित्द्वेष्य चास्य न विद्यते ॥९॥

आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ।
प्राणवायोश्चलत्वञ्च त्वया विदितमेव च ॥१०॥

यदत्र जीव्यते ब्रह्मन्! क्षणमात्रन्तदद्भुतम् ।
शरीरं शाश्वतं मन्ये विद्याभ्यासे धनार्जने ॥११॥

अशाश्वतं धर्मकार्ये ऋणवानस्मि सङ्कटे ।
सोऽहं संभृत सम्भारो भवन्मूलमुपागतः ॥१२॥

नचेद्याजयसे मां त्वं अन्यं यास्यामि याजकम् ।
एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः ॥१३॥

शशाप तं निमिं क्रोधाद्विदेहस्त्वं भविष्यसि ।
श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् ॥१४॥

धर्मज्ञस्तु नरेन्द्र! त्वं याजकं कर्तुमिच्छसि ।
निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ॥१५॥

विघ्नङ्करोषि नान्येन याजनं च तथेच्छसि ।
शापं ददासि यस्मात्वं विदेहोऽथ भविष्यसि ॥१६॥

एवमुक्ते तु तौ जातौ विदेहौ द्विजपार्थिवौ ।
देहहीनौ तयोर्जीवौ ब्रह्मणमुपजग्मतुः ॥१७॥

तावागतौ समीक्ष्याथ ब्रह्मा वचनमब्रवीत् ।
अद्य प्रभृति ते स्थानं निमि जीव ददाम्यहम् ॥१८॥

नेत्र पक्ष्मसु सर्वेषां त्वं वसिष्यसि पार्थिव ।
त्वत् सम्बन्धात्तथा तेषां निमेषः सम्भविष्यति ॥१९॥

चालयिष्यन्ति तु तदा नेत्र पक्ष्माणि मानवाः ।
एवमुक्ते मनुष्याणां नेत्र पक्ष्मसु सर्वशः ॥२०॥

जगाम निमिजीवस्तु वरदानात् स्वयम्भुवः ।
वसिष्ठ जीवं भगवान् ब्रह्मा वचनमब्रवीत् ॥२१॥

मित्रावरुणयोः पुत्रो वसिष्ठ! त्वं भविष्यसि ।
वसिष्ठेति च ते नाम तत्रापि च भविष्यति ॥२२॥

जन्मद्वयमतीतञ्च तत्रापि त्वं स्मरिष्यसि ।
एतस्मिन्नेव काले तु मित्रश्च वरुणस्तथा ॥२३॥

बदर्याश्रममासाद्य तपस्तेपतुरव्ययम् ।
तपस्यतोस्तयोरेवं कदाचिन्माधवे ऋतौ ॥२४॥

पुष्पितद्रुमसंस्थाने शुभे द्वयितमारुते ।
उर्वशी तु वरारोहा कुर्वती कुसुमोच्चयम् ॥२५॥

सुसूक्ष्मरक्तवसना तयोर्दृष्टिपथङ्गता ।
तां दृष्ट्वा सुमुखीं सुभ्रं नीलनीरजलोचनाम् ॥२६॥

उभौ चुक्षुभतुर्धैर्यात्तद्रूपपरिमोहितौ ।
तपस्यतोस्तयो वीर्यमस्खलच्च मृगासने ॥२७॥

स्कन्नं रेतस्ततो दृष्ट्वा शापभीतौ परस्परम् ।
चक्रतुः कलशे शुक्रं तोयपूर्णे मनोरमे ॥२८॥

तस्मादृषिवरौ जातौ तेजसा प्रतिमौ भुवि ।
वसिष्ठश्चाप्यगस्त्यश्च मित्रावरुणयोर्द्वयोः ॥२९॥

वसिष्ठस्तूपयेमेऽथ भगिनीं नारदस्य तु ।
अरुन्धतीं वरारोहां तस्यां शक्तिमजीजनत् ॥३०॥

शक्तेः पराशरः पुत्रस्तस्य वंशं निबोध मे ।
यस्य द्वैपायनः पुत्रः स्वयं विष्णुरजायत ॥३१॥

प्रकाशो जनितो येन लोके भारत चन्द्रमाः ।
पराशरस्य तस्य त्वं श्रृणु वंशमनुत्तमम् ॥३२॥

काण्डषपो वाहनपो जैह्मपो भौमतापनः ।
गोपालिरेषां पञ्चम एते गौराः पराशराः ॥३३॥

प्रपोहयावाह्य मयाः ख्याते याः कौतुजातयः ।
हर्यश्विः पञ्चमो ह्येषां नीलाज्ञेयाः पराशराः ॥३४॥

कार्ष्णायनाः कपि सुखाः काकेयस्था जपातयः ।
पुष्करः पञ्चमश्चैषां कृष्णाज्ञेयाः पराशराः ॥३५॥

आविष्टायन वालेया स्वायष्टाश्चोपयाश्च ये ।
इषीकहस्ताश्चैते वै पञ्चश्वेताः पराशराः ॥३६॥

पाटिको बादरिश्चैवस्तम्बा वै क्रोधनायनाः ।
क्षैमिरेषां पञ्चमस्तु एते श्यामाः पराशराः ॥३७॥

खल्यायनाः वार्ष्णायनास्तैलेयः खलु यूथपाः ।
तन्तिरेषां पञ्चमस्तु एते धूम्राः पराशराः ॥३८॥

उक्तास्तवैते नृप! वंशमुख्याः पराशराः सूर्यसमप्रभावाः ।
येषां तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥३९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:55.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सकतिपुत्र

  • n. एक आचार्य, जो वायु के अनुसार व्यास की सामशिष्यपरंपरा में से लौगाक्षि नामक आचार्य का शिष्य था । ब्रह्मांड में इसे ‘सकोतिपुत्र’ कहा गया है । 
RANDOM WORD

Did you know?

विविध पूजा अथवा होम प्रसंगी स्त्रीने पुरूषाच्या कोणत्या अंगास बसावे आणि हाताला हात कां लावावा?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.