संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०७

मत्स्यपुराणम् - अध्यायः १०७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मार्कण्डेय उवाच ।
श्रृणु राजन्! प्रयागस्य माहात्म्यं पुनरेव तु ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः ॥१॥

मानसं नाम तत्तीर्थं गङ्गाया उत्तरे तटे ।
त्रिरात्रोपोषितो भूत्वा सर्वकामानवाप्नुयात् ॥२॥

गोभूहिरण्यदानेन यत् फलं प्राप्नुयान्नरः ।
स तत् फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥३॥

अकामो वा सकामो वा गङ्गायां योऽभिपद्यते ।
मृतस्तु लभते स्वर्गं नरकञ्च न पश्यति ॥४॥

अप्सरोगणसङ्गीतैः सुप्तोऽसौ प्रतिबुद्ध्यते ।
हंससारसयुक्तेन विमानेन स गच्छति ॥
बहुवर्षसहस्राणि स्वर्गं राजेन्द्र! भुञ्जति ॥५॥

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ।
सुवर्णमणिमुक्ताढ्ये जायते विपुले कुले ॥६॥

षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथापगाः ।
माघमासे गमिष्यन्ति गङ्गयमुनसङ्गमम् ॥७॥

गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् ।
प्रयागे माघमासे तु त्र्यहः स्नानात्तु तत् फलम् ॥८॥

गङ्गायमुनयोर्मध्ये कर्षाग्निं यस्तु साधयेत् ।
अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥९॥

यावन्ति रोमकूपाणि तस्य गात्रेषु देहिनः ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥१०॥

ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ।
सभुक्त्वा विपुलान् भोगांस्तत्तीर्थं स्मरते पुनः ॥११॥

जलप्रवेशं यः कुर्यात् सङ्गमे लोकविश्रुते ।
राहुग्रस्ते तथा सोमे विमुक्तः सर्वकिल्बिषैः ॥१२॥

सोमलोकमवाप्नोति सोमेन सह मोदते ।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥१३॥

स्वर्गे च शक्रलोकेऽस्मिन् ऋषिगन्धर्वसेविते ।
परिभ्रष्टस्तु राजेन्द्र! समृद्धे जायते कुले ॥१४॥

अधः शिरस्तु यो ज्वालामूद्र्ध्वपादः पिबेन्नरः ।
शतवर्षसहस्राणि स्वर्गलोके महीयते ॥१५॥

परिभ्रष्टस्तु राजेन्द्र! सोऽग्निहोत्री भवेन्नरः ।
भुक्तवा तु विपुलान् भोगान् तत्तीर्थं भजते पुनः ॥१६॥

यः स्वदेहन्तुकर्तित्वा शकुनिभ्यः प्रयच्छति ।
विहगैरुपभुक्तस्य श्रृणु तस्यापि यत् फलम् ॥१७॥

शतं वर्षसहस्राणां सोमलोके महीयते ।
तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः ॥१८॥

गुणवान् रूपसम्पन्नो विद्वांश्च प्रियवाचकः ।
भुक्त्वा तु विपुलान् भोगांस्तत्तीर्थं भजते पुनः ॥१९॥

यामुने चोत्तरेकूले प्रयागस्य तु दक्षिणे ।
ऋणप्रमोचनं नाम तत्तीर्थं परमं स्मृतम् ॥२०॥

एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते ।
स्वर्गलोकमवाप्नोति अनृणश्च सदा भवेत् ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP