संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ७६

मत्स्यपुराणम् - अध्यायः ७६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


फलसप्तमीव्रतकथनम् ।

ईश्वर उवाच ।
अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम् ।
यामुपोष्य नरः पापाद्विमुक्तः स्वर्गभाग्भवेत् ॥१॥

मार्गशीर्षे शुभे मासि सप्तम्यां नियतव्रतः ।
तामुपोष्याथ कमलं कारयित्वा तु काञ्चनम् ।
शर्करासंयुतं दद्याद्‌ ब्राह्मणाय कुटुम्बिने ॥२॥

रविं कांञ्चनकं कृत्वा पलस्यैकस्य धर्म्मवित् ।
दद्यात् द्विकालवेलायां भानुर्मे प्रीयतामिति ॥३॥

भक्त्या तु विप्रान् संपूज्य चाष्टम्यां क्षीरभोजनम् ।
दत्त्वा कुर्यात् फलयुतं यावत् स्यात् कृष्णसप्तमी ॥४॥

तामप्युपोष्य विधिवदनेनैव क्रमेण तु ।
तद्वद् हेमफलं दत्त्वा सुवर्णकमलान्वितम् ॥५॥

शर्करा पात्रसंयुक्तं वस्त्रमाल्यसमन्वितम् ।
सम्वत्सरञ्च तेनैव विधिनोभयसप्तमीम् ॥६॥

उपोष्य दत्त्वा क्रमशः सूर्यमन्त्रमुदीरयेत् ।
भानुरर्कोरविर्ब्रह्मा सूर्यः शक्रो हरिः शिवः ॥
श्रीमान् विभावसुस्त्वष्टा वरुणः प्रीयतामिति ॥७॥

प्रतिमासञ्च सप्तम्यामेकैकं नाम कीर्त्तयेत् ।
प्रतिपक्षं फलत्यागमेतत् कुर्वन् समाचरेत् ॥८॥

व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः ।
शर्कराकलशं दद्याद् हेमपद्मदलान्वितम् ॥९॥

यथा न विफला कामास्त्वद्भक्तानां सदा रवे ।
तथाऽनन्तफलावाप्तिरस्तु मे सप्तजन्मसु ॥१०॥

इमामनन्तफलदां यः कुर्य्यात् फलसप्तमीम् ।
सर्वपापविशुद्धात्मा सूर्य्यलोके महीयते ॥११॥

सुरापानादिकं किञ्चिद् यदत्रामुत्र वा कृतम् ।
तत्सर्वं नाशमायाति यः कुर्य्यात्‌ फलसप्तमीम् ॥१२॥

कुर्वाणः सप्तमीञ्चैमां सततं रोगवर्जितः ।
भूतान् भव्यांश्च पुरुषांस्तारयेदेकविंशतिम् ॥
यः श्रृणोति पठेद्वापि सोऽपि कल्याणभाग्भवेत् ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP