संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ६५

मत्स्यपुराणम् - अध्यायः ६५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अक्षयतृतीयाव्रतकथनं सरस्वतीव्रतकथनञ्च ।

ईश्वर उवाच ।
अथान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम् ।
यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥१॥

वैशाखशुक्लपक्षे तु तृतीया यै रुपोषिता ।
अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य च ॥२॥

सा तथा कृत्तिकोपेता विशेषेण सुपूजिता ।
तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते ॥३॥

अक्षयासन्ततिस्तस्यास्तस्यां सुकृतमक्षयम् ।
अक्षतैस्तु नराः स्नाता विष्णोर्दत्त्वा तथाक्षतान् ॥४॥

विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंस्कृतान् ।
यथान्नभुक् महाभागः फलमक्षयमश्नुते ॥५॥

एकामप्युक्तवत् कृत्त्वा तृतीयां विधिवन्नरः ।
एतासामपि सर्वासां तृतीयानां फलं भवेत् ॥६॥

तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम् ।
राजसूयफलं प्राप्य गतिमग्र्याञ्च विन्दति ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP