संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०५

मत्स्यपुराणम् - अध्यायः १०५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मार्कण्डेय उवाच ।
श्रृणु राजन्! प्रयागस्य माहात्म्यं पुनरेव तु ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः ॥१॥

आर्तानां हि दरिद्राणां निश्चितव्यवसायिनाम् ।
स्थानमुक्तं प्रयागन्तु नाख्येयन्तु कदाचन ॥२॥

व्याधितो यदि वा दीनो वृद्धो वापि भवेन्नरः ।
गङ्गायमुनयोर्मध्ये यस्तु प्राणान्परित्यजेत् ॥३॥

दीप्तकाञ्चनवर्णाभैर्विमानैः सूर्य्यसन्निभैः ।
गन्धर्वाप्सरसां मध्ये स्वर्गे क्रीडति मानवः
ईप्सितान् लभते कामान् वदन्ति ऋषिपुङ्गवाः ॥४॥

सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ।
वराङ्गनासमाकीर्णै र्मोदते शुभलक्षणैः ॥५॥

गीतवाद्यविनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।
यावन्न स्मरते जन्म तावत् स्वर्गे महीयते ॥६॥

ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ।
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ।
तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ॥७॥

देशस्थो यदि वाऽरण्ये विदेशस्थोऽथ वा गृहे ।
प्रयागं स्मरमाणोऽपि यस्तु प्राणान् परित्यजेत् ।
ब्रह्मलोकमवाप्नोति वदन्ति ऋषिपुङ्गवाः ॥८॥

सर्वकामफला वृक्षा मही यत्र हिरण्मयी ।
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥९॥

स्त्रीसहस्रावृते रम्ये मन्दाकिन्यास्तटे शुभे ।
मोदते ऋषिभिः सार्द्धं सुकृतेनेह कर्म्मणा ॥१०॥

सिद्धचारणगन्धर्वैः पूज्यते सिद्धि दैवतैः ।
ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥११॥

ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः ।
गुणवान् वित्तसम्पन्नो भवतीह न संशयः ॥१२॥

कर्म्मणा मनसा वाचा धर्मसत्यप्रतिष्ठितः ।
गङ्गायमुनयोर्मध्ये यस्तु गां सम्प्रयच्छति ॥१३॥

सुवर्णमणिमुक्ताश्च यदि वान्यत् परिग्रहम् ।
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा ।
सफलं तस्य तत्तीर्थं यथावत् पुण्यमाप्नुयात् ॥१४॥

एवं तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ।
निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेद्द्विजः ॥१५॥

कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति ।
स्वर्णश्रृङ्गीं रौप्यखुरां कांस्यदोहां पयस्विनीम् ॥१६॥

प्रयागे श्रोत्रियं सन्तं ग्राहयित्वा यथाविधि ।
शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगम् ॥१७॥

सा गौस्तस्मै प्रदातव्या गङ्गायमुनसङ्गमे ।
वासांसि च महार्हाणि रत्नानि विविधानि च ॥१८॥

यावद्रोमाणि तस्यागोः सन्तिगात्रेषु सत्तम! ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥१९॥

यत्राऽसौ लभते जन्म सा गौस्तस्याभिजायते ।
नच पश्यति तं घोरं नरकं ते न कर्मणा
उत्तरान् स कुरून् प्राप्य मोदते कालमक्षयम् ॥२०॥

गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् ।
पुत्रान् दारांस्तथा भृत्यान् गौरेका प्रतितारयेत् ॥२१॥

तस्मात् सर्वेषु दानेषु गोदानन्तु विशिष्यते ।
दुर्गमे विषमे घोरे महापातकसम्भवे ॥
गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP