संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः २०९ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः २०९ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः २०९ Translation - भाषांतर सावित्र्युपाख्यानम् ।सत्यवानुवाच ।वनेऽस्मिन् शाद्वलाकीर्णे सहकारं मनोहरम् ।नेत्रघ्राणसुखं पश्य वसन्तं रतिवर्धनम् ॥१॥वनेऽप्यशोकं दृष्ट्वैनं रागवन्तं सुपुष्पितम् ।वसन्तो हसतीवायं मामेवायतलोचने!॥२॥दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ।पुष्पितैः किंशुकैर्युक्तां ज्वलितानलसप्रभैः ॥३॥सुगन्धिकुसुमामोदो वनराजिविनिर्गतः ।करोति वायुर्दाक्षिण्यमावयोः कल्मनाशनम् ॥४॥पश्चिमेन विशालाक्षि! कणिकारैः सुपुष्पितैः ।काञ्चनेन विभात्येषा वनराजी मनोरमा ॥५॥अतिमुक्तलताजालरुद्धमार्गा वनस्थली ।रम्या सा चारुसर्वाङ्गी कुसुमोत्करभूषणा ॥६॥मधुमत्तालि झङ्कार व्याजेन वरवर्णिनी ।चापाकृष्टिं करोतीव कामः पार्श्वे जिघांसया ॥७॥फलास्वादलसद्वक्त्र पुस्कोकिल विनादिता ।विभाति चारुतिलका त्वमिवैषा वनस्थली ॥८॥कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ।गदितैर्व्यक्ततां याति कुलीनश्चेष्टितैरिव ॥९॥पुष्परेणुविलिप्ताङ्गी प्रियामनु सरिद्वने ।कुसुमं कुसुमं याति कूजन् कामी शिलीमुखः॥१० ॥मञ्जरी सहकारस्य कान्तावच्चाग्रपीडिताम् ।स्वदते बहुपुष्पेऽपि पुंस्कोकिलयुवा वने ॥११॥काकः प्रसूतां वृक्षाग्रे स्वामेकाग्रेण चञ्चुना ।काकीं सम्भावयत्येष पक्षाच्छादितपुत्रिकाम् ॥१२॥शुभाङ्गनिम्नमासाद्य दयिता सहितो युवा ।नाहारमपि चादत्ते कामाक्रान्तः कपिञ्जल ॥१३॥कलविङ्कस्तु रमयन् प्रियोत्सङ्गं समास्थितः ।मुहुर्मुहुर्विशालाक्षि! उत्कण्ठयति कामिनः ॥१४॥वृक्षशाखां समारूढः शुकोऽयं सह भार्यया ।करेण लम्बयन् शाखां करोति सफलं शिरः ॥१५॥वनेऽत्र पिशितास्वाद तृप्तो निद्रामुपागतः ।शेते सिंहयुवा कान्ता चरणान्तरगामिनी ॥१६॥व्याघ्रयोर्मिथुनं पश्य शैलकन्दर संस्थितम् ।ययोर्नेत्र प्रभालोके गुहाभिन्नेव लक्ष्यते ॥१७॥अयं द्वीपी प्रियां लेढि जिह्वाग्रेण पुनः पुनः ।प्रीतिमायाति च तया लिह्यमानः स्वकान्तया ॥१८॥उत्सङ्गकृतमूर्धानं निद्रापहृतचेतसम् ।जन्तूद्धरणतः कान्तं सुखयत्येव वानरी ॥१९॥भूमौ निपतितां रामां मार्जारो दर्शितोदरीम् ।नखैर्दन्तैर्दशत्येष न च पीडयते तथा ॥२०॥शशकः शशकी चोभे संसुप्ते पीडिते इमे ।संलोनगात्रचरणे कर्णैर्व्यक्तिमुपागते ॥२१॥स्नात्वा सरसि पद्माढ्ये नागस्तु मदनप्रियः ।सम्भावयति तन्वङ्गीमृणालकबलैः प्रियाम् ॥२२॥कान्त प्रोथसमुत्थानैः कान्तमार्गानुगामिनी ।करोति कवलं मस्तैर्वराही पोतकानुगा ॥२३॥दृढाङ्गसन्धिर्महिषः कर्दमाक्ततनुर्वने ।अनुव्रजति धावन्तीं प्रियबद्धचतुष्करः ॥२४॥पश्य चार्वङ्गि! सारङ्गं त्वं कटाक्षविभावनैः ।सभार्यं मां हि पश्यन्तं कौतूहल समन्वितम् ॥२५॥पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ।स्नेहार्द्रभावात्कर्षन्ती भर्त्तारं श्रृङ्गकोटिना ॥२६॥द्रागिमाञ्चमरीं पश्य सितबालामगच्छतीम् ।अन्वास्ते चमरः कामी माञ्च पश्यति गर्वितः ॥२७॥आतपे गवयं पश्य प्रकृष्टं भार्यया सह ।रोमन्थनं प्रकुर्वाणं काकङ्ककुदि वारयन् ॥२८॥पश्येमं भार्यया सार्द्धं न्यस्ताग्र चरणद्वयम् ।विपुले बदरीस्कन्धे बदराशनकाम्यया ॥२९॥हंसं सभार्यं सरसि विचरन्तं सुनिर्मलम् ।सुमुक्तस्येन्दुबिम्बस्य पश्य वै श्रियमुद्वहन् ॥३०॥सभार्यश्चक्रवाकोऽयं कमलाकरमध्यगः ।करोति पद्मिनीं कान्तां सुपष्पामिव सुन्दरी ॥३१॥मया फलोच्चयः सुभ्रु! त्वया पुष्पोच्चयः कृतः ।इन्धनं न कृतं सुभ्रु! तत्करिष्यामि सांप्रतम् ॥३२॥त्वमस्य सरसस्तीरे द्रुमच्छायां समाश्रिता ।क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥३३॥सावित्र्युवाच ।एवमेतत्करिष्यामि मम दृष्टिपथस्त्वया ।दूरं कान्त!न कर्तव्यो बिभेमि गहने वने ॥३४॥मत्स्य उवाच ।ततः स काष्ठानि चकार तस्मिन्वने तदा राजसुता समक्षम् ।तस्या ह्यदूरे सरसस्तदानीं मेने च सा तं मृतमेव राजन् ॥३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP