संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ६६

मत्स्यपुराणम् - अध्यायः ६६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मनुरुवाच ।

मधुरा भारती केन व्रतेन मधुसूदन! ।
तथैव जनसौभाग्यं मतिं विद्यासु कौशलम् ॥१॥

अभेदश्चापि दम्पत्योस्तथा बन्दुजनेन च ।
आयुश्च विपुलं पुंसां तन्मे कथय माधव! ॥२॥

मत्स्य उवाच ।
सम्यक् पृष्टं त्वया राजन्! श्रृणु सारस्वतं व्रतम् ।
यस्य संकीर्तनादेव तुष्यतीह सरस्वती ॥३॥

यो यद्‌भक्तः पुमान् कुर्य्यात्‌ एतद्‌ व्रतमनुत्तमम् ।
तद्वासरादौ सम्पूज्य विप्रानेतान्‌ समाचरेत् ॥४॥

अथवादित्यवारेण ग्रहताराबलेन च ।
पायसं भोजयेद्विप्रान् कृत्वा ब्राह्मणवाचनम् ॥५॥

शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः ।
गायत्रीं पूजयेद् भक्त्या शुक्लमाल्यानुलेपनैः ॥६॥

यथा न देवि! । भगवान् ब्रह्मलोके पितामहः ।
त्वां परित्यज्य सन्तिष्ठेत् तथा भव वरप्रदा ॥७॥

वेदाः शास्त्राणि सर्वाणि गीतनृत्यादिकञ्च यत् ।
न विहीनं त्वया देवि! तथा मे सन्तु सिद्धयः ॥८॥

लक्ष्मीर्मेधा धरापुष्टिर्गौरी तुष्टा प्रभा मतिः ।
एताभिः पाहि अष्टाभि स्तनूभिर्मां सरस्वती ॥९॥

एवं सम्पूज्य गायत्रीं वाणीं क्षयनिवारिणीम् ।
शुक्लपुष्पाक्षतैर्भक्त्या सकमण्डलुपुस्तकाम् ।
मौनव्रतेन भुञ्जीत सायं प्रातस्तु धर्म्मवित् ॥१०॥

पञ्चम्यां प्रतिपक्षञ्च पूजयेद्‌ ब्रह्मवासिनीम् ।
तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम् ॥
क्षीरं दद्याद्धिरण्यञ्च गायत्री प्रीयतामिति ॥११॥

सन्ध्यायाञ्च तथा मौनमेतत्कुर्वन्‌ समाचरेत् ।
नान्तरा भोजनं कुर्याद्यावन्मासास्त्रयोदश ॥१२॥

समाप्ते तु व्रते कुर्याद् भोजनं शुक्लतण्डुलैः ।
पूर्वं सवस्त्रयुग्मञ्च दद्याद्विप्राय भोजनम् ॥१३॥

देव्या वितानं घण्टाञ्च सितनेत्रे पयस्विनीम् ।
चन्दनं वस्त्रयुग्मञ्च दद्याच्च शिखरं पुनः ॥१४॥

तथोपदेष्टारमपि भक्त्या संपूजयेत् गुरुम् ।
वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ॥१५॥

अनेन विधिना यस्तु कुर्यात् सारस्वतं व्रतम् ।
विद्यावानर्थसंयुक्तो रक्तकण्ठश्च जायते ॥१६॥

सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते ।
नारी वा कुरुते या तु सापि तत्फलगामिनी ।
ब्रह्मलोके वसेद्राजन्! यावत्कल्पायुतत्रयम् ॥१७॥

सारस्वतं व्रतं यस्तु श्रृणुयादपि यः पठेत् ।
विद्याधरपुरे सोऽपि वसेत् कल्पायुतत्रयम् ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP