संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २

मत्स्यपुराणम् - अध्यायः २

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मत्स्य-मनुसंवादवर्णनम् ।

सूत उवाच ।
एवमुक्तो मनुस्तेन पप्रच्छ मधुसूदनम् ।
भगवन्! कियद्भिर्वर्षैर्भविष्यत्यन्तरक्षयः ॥१॥

सत्वानि च कथं नाथ! रक्षिष्ये मधुसूदन! ।
त्वया सह पुनर्योगः कथं वा भविता मम ॥२॥

मत्स्य उवाच ।
अद्य प्रभृत्यनावृष्टिर्भविष्यति महीतले ।
यावद्वर्षशतं साग्रं दुर्भिक्षमशुभावहम् ॥३॥

ततोऽल्पसत्वक्षयदा रश्मयः सप्तदारुणाः ।
सतसतेर्भविष्यन्ति प्रतप्ताङ्गारवर्णिनः ॥४॥

(१) सुषुम्ण, (२) हरिकेश, (३) विश्वकर्मा, (४) विश्वव्यचा, (५) सम्यग्वसु, (६) उदग्वलुः (७) सुराहः

और्वानलोऽपि विकृतिङ्गमिष्यति युगक्षये ।
विषाग्निश्चापि पातालात् सङ्कर्षणमुखच्युतः ॥
भवस्यापि ललाटोत्थ तृतीयनयनानलः ॥५॥

त्रिजगन्निर्दहन् क्षोभं समेष्यति महामुने! ।
एवं दग्धा मही सर्वा यदास्याद् भस्मसन्निभा ॥६॥

आकाशमूष्मणा तप्तं भविष्यति परन्तप! ।
ततः सदेवनक्षत्रं जगद्यास्यति संक्षयम्‌ ॥७॥

सम्वर्तो भीमनादश्च द्रोणश्चण्डो बलाहकः ।
विद्युत्पताकः शोणस्तु सप्तैते लयवारिदाः ॥८॥

अग्निप्रस्वेदसम्भूतां प्लावयिष्यन्ति मेदिनीम् ।
समुद्राः क्षोभमागत्य चैकत्वेन व्यवस्थिताः ॥९॥

एतदेकार्णवं सर्वं करिष्यन्ति जगत्त्रयम् ।
वेदनावमिमां गृह्य सत्वबीजानि सर्वशः ॥१०॥

आरोप्य रज्जुयोगेन मत्‌प्रदत्तेन सुव्रत ।
संयम्य नावं मच्छृङ्गे मत्प्रभावाभिरक्षितः ॥११॥

एकः स्थास्यसि देवेषु दग्धेष्वपि परन्तप! ।
सोमसूर्यावहं ब्रह्मा चतुर्लोक समन्वितः ॥१२॥

नर्मदा च नदीपुण्या मार्कण्डेयो महान् ऋषिः ।
भवो वेदाः पुराणाश्च विद्याभिः सर्वतोवृतम् ॥१३॥

त्वया सार्द्धमिदं विश्वं स्थास्यत्यन्तरसंक्षये ।
एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये ॥१४॥

वेदान् प्रवर्तयिष्यामि त्वत्सर्गादौ महीपते ।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥१५॥

मनुरप्यास्थितो योगं वासुदेवप्रसादजम् ।
अभ्यसन् यावदाभूत संप्लवं पूर्वसूचितम् ॥१६॥

काले यथोक्ते संजाते वासुदेवमुखोद्गते ।
श्रृङ्गी प्रादुर्बबूवाथ मत्स्यरूपी जनार्दनः ॥१७॥

भुजङ्गोरज्जुरूपेण मनोः पार्श्वमुपागमत् ।
भूतान्‌ सर्वान्‌ समाकृष्य योगेनारोप्य धर्म्मवित् ॥१८॥

भुजङ्गरज्वा मत्स्यस्य श्रृङ्गे नावमयोजयत् ।
उपर्य्युपस्थितस्तस्याः प्रणिपत्य जनार्दनम् ॥१९॥

आभूतसंप्लवे तस्मिन्नतीते योगशायिना ।
पृष्टेन मनुना प्रोक्तं पुराणं मत्स्यरूपिणा ॥२०॥

तदिदानीं प्रवक्ष्यामि श्रृणुध्वमृषिसत्तमाः ॥
यद्भवद्भिः पुरा पृष्टः सृष्ट्यादिकमहँ द्विजाः ॥२१॥

मनुरुवाच ।
उत्पत्ति प्रलयञ्चैव वंशान्मन्वन्तराणि च ।
वंश्यानुचरितञ्चैव भुवनस्य च विस्तरम् ॥२२॥

दानधर्म्मविधिञ्चैव श्राद्धकल्पञ्च शाश्वतम् ।
वर्णाश्रमविभागञ्च तथेष्टापूर्त्तसंज्ञितम् ॥२३॥

देवतानां प्रतिष्ठादि यच्चान्यद्विद्यते भुवि ।
तत्सर्वं विस्तरेण त्वं धर्म्मव्याख्यातुमर्हसि ॥२४॥

महाप्रलयकालान्त एतदासीत्तमोमयम् ।
प्रसुप्तमिव चातर्क्यमप्रज्ञातमलक्षणम् ॥२५॥

अविज्ञेयमविज्ञातं जगत् स्थास्नु चरिष्णु च ।
ततः स्वयम्भूरव्यक्तः प्रभवः पुण्यकर्म्मणाम् ॥२६॥

यः शरीरादभिध्याय सिसृक्षुर्विविधं जगत् ।
नारायण इति ख्यातः स एकः स्वयमुद्‌बभौ ॥२७॥

अथ एव ससर्जादौ तासु बीजमवासृजत् ॥२८॥

तदेवाण्डं् समभवद् हेमरूप्यमयं महत् ।
संवत्सरसहस्रेण सूर्य्यायुतसमप्रभम् ॥२९॥

प्रविश्यान्तर्महातेजाः स्वयमेवात्मसम्भवः ।
प्रभावादपि तद्‌व्याप्त्या विष्णुत्वमगमत्पुनः ॥३०॥

तदन्तर्भगवानेष सूर्य्यः समभवत् पुरा ।
आदित्यश्चादिभूतत्वात् ब्रह्माब्रह्मपठन्नभूत् ॥३१॥

दिवं भूमिं समकरोत्तदण्डशकलद्वयम् ।
सचाकरोद्दिशः सर्व्वा मध्ये व्योम च शाश्वतम् ॥३२॥

जरायुर्मेरुमुख्याश्च शैलास्तस्याभवंस्तदा ।
यदुल्बं तदभून्मेघस्तडित्‌सङ्घातमण्डलम् ॥३३॥

नद्योऽण्डनाम्नः सम्भूताः पितरो मनवस्तथा ।
सप्त येऽमी समुद्राश्च तेऽपि चान्तर्जलोद्भवाः ॥३४॥

लवणेक्षुसुराद्याश्च नानारत्नसमन्विताः ॥३५॥

स सिसृक्षुरभूद्देवः प्रजापतिररिन्दम ।
तत्तेजसश्च तत्रैष मार्तण्डःि समजायत ॥३६॥

मृतेऽण्डेच जायते यस्मान्मार्तण्डस्तेन संस्मृतः ।
रजोगुणमयं यत्तद्रूपं तस्य महात्मनः ॥३७॥

चतुर्मुखः स भगवानभूल्लोकपितामहः ॥३८॥

येन सृष्टं जगत्सर्वं सदेवासुरमानुषम् ।
तमवेहि रजोरूपं महत्‌ सत्वमुदाहृतम् ॥३९॥

इति श्रीमत्स्यपुराणे मत्स्यमनु संवादवर्णनं नाम द्वितीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP