संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८५

मत्स्यपुराणम् - अध्यायः ८५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


गुडपर्वतदानवर्णनम् ।

ईश्वर उवाच ।
अतः परं प्रवक्ष्यामि गुड़पर्वतमुत्तमम् ।
यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपुजितम् ॥१॥

उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः ।
त्रिभिर्भारैः कनिष्ठः स्यात्तदर्धेनाल्पवित्तवान् ॥२॥

तद्वदामन्त्रणं पूजां हेमवृक्षसुरार्चनम् ।
विष्कम्भपर्वतास्तद्वत्सरांसि वनदेवताः ॥३॥

होमजागरणं तद्वल्लोकपालाधिवासनम् ।
धान्यपर्वतवत् कुर्यादिमं मन्त्रमुदीरयेत् ॥४॥

यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः ।
सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥५॥

प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा ।
तथा रसानां प्रवरः सदैवेक्षुरसोमतः ॥६॥

मम तस्मात्‌ परां लक्ष्मी गुडपर्वत! देहि वै ।
यस्मात्‌ सौभाग्यदायिन्या भ्राता त्वं गुडपर्वता ॥
निवासश्चापि पार्वत्यास्तस्माच्छान्तिं प्रयच्छ मे ॥७॥

अनेन विधिना यस्तु दद्याद्‌गुडमयं गिरिम् ।
पूज्यमानः सगन्धर्वै गौरीलोके महीयते ॥८॥

ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ।
आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP