संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९५

मत्स्यपुराणम् - अध्यायः ९५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


शिवचतुर्दशीव्रतकथनम् ।

नारद उवाच ।
भगवन्! भूतभव्येश! तथान्यदपि यच्छ्रुतम् ।
भुक्तिमुक्तिफलायालं तत्पुनर्वक्तुमर्हसि ॥१॥

एवमुक्तोऽब्रवीच्छम्भुरयं वाङ्‌मयपारगः ।
मत्समस्तपसा ब्रह्मन्! पुराणश्रुतिविस्तरै ॥२॥

धर्मोऽयं वृषरूपेण नन्दी नाम गणाधिपः ।
धर्मान् माहेश्वरान् वक्ष्यत्यतः प्रभृति नारद? ॥३॥

मत्स्य उवाच ।
श्रृणुष्वावहितो ब्रह्मन्! वक्ष्ये माहेश्वरं व्रतम् ।
त्रिषुलोकेषु विख्यातं नाम्ना शिवचतुर्दशी ॥४॥

मार्गंशीर्षं त्रयोदश्यां सितायामेकभेजनः ।
प्रार्थयेद्देवदेवेश! त्वामहं शरणं गतः ॥५॥

चतुर्दश्यां निराहारः सम्यगभ्यर्च्य शङ्करम् ।
सुवर्णवृषभं दत्त्वा भोक्ष्यामि च परेऽहनिः ॥६॥

एवं नियमकृत्स्तुत्वा प्रातरुत्थाय मानवः ।
कृतस्नानजपः पश्चादुमया सह शङ्करम् ।
पूजयेत्कमलैः शुभ्रैर्गन्धमाल्यानुलेपनैः ॥७॥

पादौ नमः शिवायेति शिरः सर्वात्मने नमः ।
त्रिनेत्रायेति नेत्राणि ललाटं हरये नमः ॥८॥

मुखमिन्दुमुखायेति श्रीकण्ठायेति कन्धराम् ।
सद्योजाताय कर्णौतु वामदेवाय वै भुजौ ॥९॥

अघोरहृदयायेति हृदयञ्चाभिपूजयेत् ।
स्तनौ तत्पुरुषायेति तथेशानाय चोदरम् ॥१०॥

पार्श्वे चानन्तधर्माय ज्ञानभूताय वै कटिम् ।
ऊरू चानन्तवैराग्य सिंहायेत्यभिपूजयेत् ॥११॥

अनन्तैश्वर्य्यनाथाय जानुनी चार्चयेद्‌बुधः ।
प्रधानाय नमो जङ्घे गुल्‌फौ व्योमात्मने नमः ॥१२॥

व्योमकेशात्मरूपाय केशान् पृष्ठञ्च पूजयेत् ।
नमः पुष्ट्यै नमस्तुष्ट्यै पार्वतीञ्चापि पूजयेत् ॥१३॥

ततस्तुवृषभं हैममुदकुम्भसमन्वितम् ।
शुक्लमाल्याम्बरधरं पञ्चरत्नसमन्वितम् ।
भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ॥१४॥

ततो विप्रान् समाहूय तर्पयेद्भक्तितः शुभान् ।
शुक्लमाल्याम्बरधरं पञ्चरत्नसमन्वितम् ॥१५॥

पञ्चदश्यां ततः पूज्य विप्रान् भुञ्जीत वाग्यतः ।
तद्वत् कृष्णचतुर्दश्यामेतत् सर्वंसमाचरेत् ॥१६॥

चतुर्दशीषु सर्वासु कुर्य्यात् पूर्ववदर्चनम् ।
ये तु मासे विशेषाः स्युस्तान्निबोध क्रमादिह ॥१७॥

मार्गशीर्षादिमासेषु क्रमादेतदुदीरयेत् ।
शङ्कराय नमस्तेऽस्तु नमस्ते करवीरक! ॥१८॥

त्र्यम्बकाय नमस्तेऽस्तु महेश्वरमतः परम्  ।
नमस्तेऽस्तु महादेव! स्थाणवे च ततः परम् ॥१९॥

नमः पशुपते नाथ! नमस्ते शम्भवे पुनः ।
नमस्ते परमानन्द! नमः सोमार्द्धधारिणे ॥२०॥

नमो भीमाय इत्येवं त्वामहं शरणं गतः ।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ॥२१॥

पञ्चगव्यं ततो बिल्वं कर्पूरञ्चागुरुं यवाः ।
तिलाः कृष्णाश्च विधिवत्प्राशनं क्रमशः स्मृतम् ॥
प्रतिमासं चतुर्दश्योरेकैकं प्राशनं स्मृतम् ॥२२॥

मन्दारमालतीभिश्च तथा धत्तूरकैरपि ।
सिन्दुवारैरशोकैश्च मल्लिकाभिश्च पाटलैः ॥२३॥

अर्कपुष्पैः कदम्बैश्च शतपत्र्या तथोत्पलैः ।
एकैकेन चतुर्दश्योरर्चयेत्पार्वतीपतिम् ॥२४॥

पुनश्च कार्तिके मासे प्राप्ते सन्तर्पयेद्‌द्विजान् ।
अन्नैर्नानाविधैर्भक्ष्यैर्वस्त्रमाल्यविभूषणैः ॥२५॥

कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः ।
उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥२६॥

मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम् ।
सर्वोपस्करसंयुक्तां शय्यां दद्यात् सकुम्भकाम् ॥२७॥

ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम् ।
स्थाप्य विप्राय शान्ताय वेदव्रतपराय च ॥२८॥

ज्येष्ठसामविदे देयं न वकव्रतिने क्वचित् ।
गुणज्ञे श्रोत्रिये दद्यादाचार्ये तत्त्ववेदिनि ॥२९॥

अव्यङ्गाङ्गाय सौम्याय सदाकल्याणकारिणे ।
सपत्नीकाय संपूज्य वस्त्रमाल्यविभूषणैः ॥३०॥

गुरौ सति गुरोर्देयं तदभावे द्विजातये ।
न वित्तशाठ्यं कुर्वीत कुर्वन् दोषात्पतत्यधः ॥३१॥

अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम् ।
सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥३२॥

ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।
पितृभिर्भ्रातृभिर्वापि तत्सर्वां नाशमाप्नुयात् ॥३३॥

दीर्घायुरारोग्यकुलान्नवृद्धिरत्राक्षयामुत्र चतुर्भुजत्वम् ।
गणाधिपत्यं दिवि कल्पकोटिशतान्युषित्वा पदमेति शम्भोः ॥३४॥

न बृहस्पतिरप्यनन्तमस्याः फलमिन्द्रो न पितामहोऽपि वक्तुम् ॥
न च सिद्धगणोऽप्यलं न चाहं यदि जिह्वायुतकोटयोऽपि वक्त्रे ॥३५॥

भवत्यमरवल्लभः पठति यः स्मरेद्वासदा ।
श्रृणोत्यपि विमत्सरः सकलपापनिर्मोचनम् ।
इमां शिव चतुर्दशी ममरकामिनी कोटयः ।
स्तुवन्ति तमनिन्दितं किमुसमाचरेद्यः सदा ॥३६॥

या वाथ नारी कुरुतेति भक्त्या भर्तारमापृच्छ्य सुतान् गुरून् वा ।
सापि प्रसादात्परमेश्वरस्य परम्पदं याति पिनाकपाणेः ॥३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP