TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१५

मत्स्यपुराणम् - अध्यायः २१५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


अध्यायः २१५
अभिषिक्तस्यराज्ञः कृत्यवर्णनम् ।
मनुरुवाच ।
राज्ञोऽभिषिक्तमात्रस्य किं नु कृत्यतमं भवेत् ।
एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥१॥

मत्स्य उवाच ।
अभिषेकार्द्र शिरसा राज्ञा राज्यावलोकिना ।
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥२॥

यदप्यल्पतरं कर्म तदप्येकेन दुश्चरम् ।
पुरुषेणासहायेन किमु राज्यं महोदयम् ॥३॥

तस्मात्सहायान् वरयेत् कुलीनान्नृपतिः स्वयम् ।
शूरान् कुलीनजातीयान् बलयुक्तान् श्रियान्वितान् ॥४॥

रूपसत्वगुणोपेतान् सज्जनान् क्षमयान्वितान् ।
क्लेशक्षमान् महोत्साहान् धर्मज्ञांश्च प्रियं वदान् ॥५॥

हितोपदेशकान्राज्ञः स्वामिभक्तान्यशोऽर्थिनः ।
एवं विधान् सहायांश्च शुभकर्मस्तु योजयेत् ॥६॥

गुणहीना अपि तथा विज्ञाय नृपतिः स्वयम् ।
कर्मस्वेव नियुञ्जीत यथा योग्येषु भागशः ॥७॥

कुलीनः शीलसम्पन्नो धनुर्वेदविशारदः ।
हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषिता ॥८॥

निमित्ते शकुने ज्ञाने वेत्ता चैव चिकित्सिते ।
कृतज्ञः कर्मणां शूरस्तथा क्लेशसहो ऋजुः ॥९॥

व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् ।
राज्ञासेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथवा ॥१०॥

प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ।
चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते ॥११॥

यथोक्तवादी दूतः स्याद्देशभाषा विशारदः ।
शक्तुः क्लेशसहो वाग्मी देशकालविभागवित् ॥१२॥

विज्ञाता देशकालश्च दूतः स स्यान् महीक्षितः ।
वक्ता न यस्य यः काले स दूतो नृपतेर्भवेत् ॥१३॥

प्रांशवो व्यायताः शूराः दृढभक्ता निराकुलाः ।
राज्ञा तु रक्षिण कार्याः सदा क्लेशसहा हिताः ॥१४॥

अनाहार्यो नृशंसश्च दृढभक्तिश्च पार्थिवे ।
ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा ॥१५॥

षाड्गुण्यविधितत्त्वज्ञो देशभाषा विशारदः ।
सन्धिविग्रहकः कार्यो राज्ञा नयविशारदः ॥१६॥

कृताकृतज्ञो भृत्यानां ज्ञेयः स्याद्देशरक्षिता ।
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ॥१७॥

सुरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः ।
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥१८॥

शूरश्च बलयुक्तश्च गजाश्वरथकोविदः ।
धनुर्धारी भवेद्राज्ञः सर्वक्लेशसहः शुचिः ॥१९॥

निमित्तशकुनज्ञानी हयशिक्षाविशारदः ।
हयायुर्वेदतत्त्वज्ञो भुवो भागविचक्षणः ॥२०॥

बलावलज्ञो रथिनः स्थिरदृष्टिः प्रियम्वदः ।
शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ॥२१॥

अनाहार्यः रुचिर्दक्षश्चिकित्सित विदाम्वरः ।
सूपशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते ॥२२॥

सूदशस्त्रविधानज्ञाः परभेद्या कुलोद्गताः ।
सर्वे महानसे धार्याः कृत्तकेशनखा नराः ॥२३॥

समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः ।
विप्रमुख्यः कुलीनश्च धर्माधिकरणी भवेत् ॥२४॥

कार्यास्तथा विधास्तत्र द्विजमुख्याः सभासदः ।
सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः ॥२५॥

लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै ।
शीर्षोपेतान् सुसम्पूर्णान् समश्रेणिगतान् समान् ॥२६॥
 
आन्तरान्वै लिखेद्यस्तु लेखकः स वरः स्मृतः ।
उपायवाक्यकुशलः सर्वशास्त्रविशारदः ॥२७॥
 
बह्वर्थवक्ता चाल्पेन लेखकः स्यान्नृपोत्तम! ।
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ॥२८॥

धर्माधिकारिणः कार्याः जना दानकरा नराः ।
एवम्विधास्तथा कार्या राज्ञा दौवारिका जनाः ॥२९॥

लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित् ।
विज्ञाता फल्गुसाराणामनाहार्यः शुचिः सदा ॥३०॥

निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः ।
आयद्वारेषु सर्वेषु धनाध्यक्ष समा नराः ॥३१॥

व्यवहारेषु च तथा कर्तव्याः पृथिवीक्षिता ।
परम्परागतो यः स्यादष्टाङ्गे सुचिकित्सिते ॥३२॥

अनाहार्यः स वैद्यः स्यात् धर्मात्मा च कुलोद्गतः ।
प्राणाचार्यः स विज्ञेयो वरुणात्तस्य भूभुजा ॥३३॥

राजन्! राज्ञा सदा कार्यं यथाकार्यं पृथक् जनैः ।
हस्तिशिक्षा-विधानज्ञो वनजातिविशारदः ॥३४॥

क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ।
एतैरेव गुणैर्युक्तः स्वासनश्च विशेषतः ॥३५॥

गजारोही नरेन्द्रस्य सर्वकर्मसु शस्यते ।
हयशिक्षाविधानज्ञश्चिकित्सित विशारदः ॥३६॥

अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते ।
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ॥३७॥

दुर्गाध्यक्षः स्मृतो राज्ञ उद्युक्तः सर्वकर्मसु ।
वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः ॥३८॥

दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ।
यन्त्रमुक्ते पाणिमुक्ते विमुक्ते मुक्तधारिते ॥३९॥

अस्त्राचार्यो निरुद्वेगः कुशलश्च विशिष्यते ।
वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचि ॥४०॥

राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ।
एवं सप्ताधिकारेषु पुरुषाः सप्त ते पुरे ॥४१॥
 
परीक्ष्य चाधिकार्याः स्युः राज्ञा सर्वेषु कर्मसु ।
स्थापना जाति तत्त्वज्ञः सततं प्रतिजाग्रता ॥४२॥
 
राज्ञः स्यादायुधागारे दक्षः कर्मसु चोद्यतः ।
कर्माण्यपरिमेयानि राज्ञो नृपकुलोद्वह! ॥४३॥
 
उत्तमाधम मध्यानि बुद्ध्वा कर्माणि पार्थिवः ।
उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥४४॥
 
नरकर्मविपर्यासाद्राजा नाशमवाप्नुयात् ।
नियोगं पौरुषं भक्ति श्रुतं शौर्यं कुलं नयम् ॥४५॥

ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता ।
पुरुषान्तरविज्ञान तत्त्वसारनिबन्धनात् ॥४६॥

बहुभिर्मन्त्रयेत् कामं राजा मन्त्रं पृथक् पृथक् ।
मन्त्रिणामपि नो कुर्यान्मन्त्रिमन्त्र प्रकाशनम् ॥४७॥

क्वचिन्न कस्य विश्वासो भवतीह सदा नृणाम् ।
निश्चयस्तु सदा मन्त्रे कार्य एकेन सूरिणा ॥४८॥

भवेद्वा निश्चयावाप्तिः परबुध्युपजीवनात् ।
एकस्यैव महीभर्तुर्भूयः कार्यो विनिश्चयः ॥४९॥

ब्राह्मणान् पर्युपासीत त्रयी शास्त्रसु निश्चितान् ।
नासच्छास्त्रवतो मूढास्ते हि लोकस्य कण्टकाः ॥५०॥

वृद्धान् हि नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
तेम्यः शिक्षेत विनयं विनीतात्मा च नित्यशः ॥५१॥

समग्रां वशगां कुर्य्यात् पृथिवीं नात्र संशयः ।
बहवो विनयाद्भ्रष्टा राजानः सपरिच्छदाः ॥५२॥

वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे ।
त्रैविद्येभ्यस्त्रयीविद्यां दण्डनीतिं च शाश्वतीम् ॥५३॥
 
आन्वीक्षिकीं त्वात्मविद्याम्वार्तारम्भाश्च लोकतः ।
इन्द्रियाणां जये योगं समातिष्ठेद्दिवा निशम् ॥५४॥
 
जितेन्द्रियोहि शक्नोति वशे स्थापयितुं प्रजाः ।
यजेत राजा बहुभिः क्रतुभिश्च सदक्षिणैः ॥५५॥
 
धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान्धनानि च ।
साम्वत्सरिकमाप्तैश्च राष्ट्रादाहारयेद् बलिम् ॥५६॥
 
स्यात् स्वाध्याय-परो-लोके वर्तेत पितृबन्धुवत् ।
आवृत्तानां गुरुकुलात्द्विजानां पूजको भवेत् ॥५७॥
 
नृपाणामक्षयो ह्येष विधिर्ब्राह्मोऽभिधीयते ।
ततस्तेनानवा मित्रा हरन्ति न विनश्यति ॥५८॥
 
तस्माद्राज्ञा विधातव्यो ब्राह्मो वै ह्यक्षयो विधिः ।
समोत्तमाधमै राजा ह्याहूय पालयेत्प्रजाः ॥५९॥
 
न निवर्तेत संग्रामात् क्षात्रं व्रतमनुस्मरन् ।
संग्रामेश्वनिवर्तित्वं प्रजानां परिपालनम् ॥६०॥
 
शुश्रूषा ब्राह्मणानाञ्च राज्ञां निश्रेयसम्परम् ।
कृपणा नाथवृद्धानां विधवानाञ्च पालनम् ॥६१॥

योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ।
वर्णाश्रमव्यवस्थानं तथा कार्यं विशेषतः ॥६२॥
 
स्वधर्मप्रच्युतान् राजा स्वधर्मे स्थापयेत्तथा ।
आश्रमेषु तथा कार्यमन्नं तैलञ्च भाजनम् ॥६३॥
 
स्वयमेवानयेद्राजा सत्कृतान्नावमानयेत् ।
तापसे सर्वकार्यापि राज्यमात्मानमेव च ॥६४॥
 
निवेदयेत्प्रयत्नेन देववच्चिरमर्चयेत् ।
द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः ॥६५॥
 
वक्रां ज्ञात्वा न सेवेत प्रतिबाधेत चागताम् ।
नास्य च्छिद्रं परो विन्द्याद्विन्द्याच्छिद्रं परस्य तु ॥६६॥

गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ।
न विश्वसेदविश्वस्ते विश्वस्तेनातिविश्वसेत् ॥६७॥

विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ।
विश्वासयेच्चाप्यपरन्तत्त्वभूतेन हेतुना ॥६८॥

बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमे ।
वृकवच्चापि लुम्पेन शशवच्च विनिक्षिपेत् ॥६९॥

दृढप्रहारी च भवेत् तथा सूकरवन्नृपः ।
चित्राकारश्च शिखिवद्दृढभक्तस्तथाश्ववत् ॥७०॥

तथा च मधुरा भाषी भवेत्कोकिलवन्नृपः ।
काकशङ्की भवेन्नित्यमज्ञातवसतिं वसेत् ॥७१॥

नापरीक्षितपूर्वञ्च भोजनं शयनं व्रजेत् ।
वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम! ॥७२॥

न गाहेज्जनसम्बाधं न चाज्ञातजलाशयम् ।
अपरीक्षितपूर्वञ्च पुरुषैराप्तकारिभिः ॥७३॥

नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा ।
नाविज्ञातां स्त्रियं गच्छेन्नैव देवोत्सवे वसेत् ॥७४॥

नरेन्द्रलक्ष्म्या धर्मज्ञ त्राता यत्तो भवेन्नृपः ।
सद्भृत्याश्च तथा पुष्टाः सततं प्रतिमानिताः ॥७५॥

राज्ञा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता ।
यथार्हञ्चाप्यसुभृतो राजा कर्मसु योजयेत् ॥७६॥

धर्मिष्ठान् धर्मकार्येषु शूरान् संग्रामकर्मसु ।
निपुणानर्थकृत्येषु सर्वत्रैव तथा शुचीन् ॥७७॥

स्त्रीषु षण्ढं नियुञ्जीत तीक्ष्णं दारुणकर्मसु ।
धर्मे चार्थे च कामे च नये च रविनन्दन! ॥७८॥

राजा यथार्हङ्कुर्याच्च उपधाभिः परीक्षणम् ।
समतीतोपदान् भृत्यान् कुर्याच्छस्तवने चरान् ॥७९॥

तत्पादान्वेषणो यत्तांस्तदध्यक्षांस्तु कारयेत् ।
एवमादीनि कर्माणि नृपैः कार्याणि पार्थिव ॥८०॥

सर्वथा नेष्यते राज्ञस्तीक्ष्णोपकरक्रमः ।
कर्माणि पापसाध्यानि यानि राज्ञो नराधिप! ॥८१॥

सन्तस्तानि न कुर्वन्ति तस्मात्तानि त्यजेन्नृपः ।
नेष्यते पृथिवीशानान् तीक्ष्णोपकरणक्रिया ॥८२॥

यस्मिन् कर्मणि यस्य स्याद्विशेषेण च कौशलम् ।
तस्मिन् कर्मणि तं राज्ञा परीक्ष्य विनिवेशयेत् ॥८३॥

पितृपैतामहान् भृत्यान् सर्वकर्मसु योजयेत् ।
विना दायाद कृत्येषु परीक्षां स्वकृतान्तरान् ॥८५॥

नियुञ्जीत महाभाग! तस्य ते हितकारिणः ।
परराज गृहात् प्राप्तान् जनसंग्रहकाम्यया ॥८६॥
 
दुष्टान् वाप्यथवा दुष्टान् आश्रयीत प्रयत्नतः ।
दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः ॥८७॥

मामयं देशसम्प्राप्तो बहुमानेन चिन्तयेत् ।
कामं भृत्यार्जनं राजा नैव कुर्यान्नराधिप ॥८८॥
 
न च वा संविभक्तांस्तान् भृत्यान् कुर्यात् कथञ्चन ।
शत्रवोऽग्निर्विषं सर्पो निस्त्रिंश इति चिन्तयेत् ॥८९॥

भृत्या मनुजशार्दूल! रुषिताश्च तथैकतः ।
तेषां चारेण चारित्रं राजा विज्ञाय नित्यशः ॥९०॥

गुणिनां पूजनं कुर्यात् निर्गुणानाञ्च शासनम् ।
कथिताः सततं राजन्! राजानश्चारचक्षुषः ॥९१॥
 
स्वके देशे परे देशे ज्ञानशीलान् विचक्षणान् ।
अनाहार्यान् क्लेशसहान्नियुञ्जीत तथाचरान् ॥९२॥

जनस्याविदितान् सौम्यान् तथा ज्ञातान् परस्परम् ।
वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ॥९३॥

तथा प्रवाजिताकारान् चारान् राजा नियोजयेत् ।
नैकस्य राजा श्रद्दध्यात् चारस्यापि सुभाषितम् ॥९४॥

द्वयोः सम्बन्धमाज्ञाय श्रद्दध्यान्नृपतिस्तदा ।
परस्परस्याविदितौ यदि स्याताञ्च तावुभौ ॥९५॥

तस्माद्राजा प्रयत्नेन गूढांश्चारान्नियोजयेत् ।
रागापरागौ भृत्यानां जनस्य च गुणागुणान् ॥९६॥

सर्वं राज्ञां चरायत्तन्तेषु यत्नपरो भवेत् ।
कर्मणा केन मे लोके जनः सर्वोऽनुरज्यते ॥९७॥

विरज्यते केन तथा विज्ञेयं तन्महीक्षिता ।
विरागजनकं लोके वर्जनीयं विशेषतः ॥९८॥

तथा च रागप्रभवा हि लक्ष्म्यो राज्ञां मता भास्करवंशचन्द्र! ।
तस्मात्प्रयत्नेन नरेन्द्रमुख्यैः कार्योऽनुरागो भुवि मानवेषु ॥९९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:56.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चिंचोरडें

  • न. चिंचुरटीचे फळ . चिंचुरटयांची भाजी करा . 
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.