संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ८२

मत्स्यपुराणम् - अध्यायः ८२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


गुड़धेनुदानविधिवर्णनम् ।

मनुरुवाच ।
गुड़धेनुविधानं मे समाचक्ष्व जगत्पते! ।
किं रूपं केन मन्त्रेण दातव्यं तदिहोच्यताम् ॥१॥

गुड़धेनुविधानस्य यद्रूपमिह यत्फलम् ।
तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम् ॥२॥

कृष्णाजिनं चतुर्हस्तं प्रागग्रं विन्यसेद्‌ भुवि ।
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ॥३॥

लघ्वेणकाजिनं तद्वद्वत्सश्च पिरकल्पयेत् ।
प्राङ्‌मुखीं कल्पयेद्धेनुमुदक्‌पादां सवत्सकाम् ॥४॥

उत्तमा गुड़धेनुः स्यात्‌ सदाभारचतुष्टयम् ।
वत्सं भारेणकुर्वीत द्वाभ्यां वै मध्यमा स्मृता ॥५॥

अर्द्धभारेण वत्सः स्यात् कनिष्ठाभारकेण तु ।
चतुर्थाशेन वत्सः स्याद्‌गृहवित्तानुसारतः ॥६॥

धेनुवत्‌ सौघृतास्यौ च सितसूक्ष्माम्वरावृतौ ।
शुक्तिकर्णाविक्षुपादौ शुक्तिमुक्ताफले क्षणौ ॥७॥

सितसूत्रशिरालौ तौ सितकम्बल कम्बलौ ।
ताम्रगण्डक पृष्ठौ तौ सितचामररोमकौ ॥८॥

विद्रुमभ्रूयुगोपेतौ नवनीतस्तनावुभौ ।
क्षौमपुच्छौ कांश्यदोहाविन्द्रनीलकतारकौ ॥९॥

सुवर्णश्रृङ्गाभरणौ राजतैः खुरसंयुतौ ।
नानाफलसमायुक्तौ घ्राणगन्धकरण्डकौ ॥
इत्येवं रचयित्वा तौ दीपधूपैरथाऽर्चयेत् ॥१०॥

या लक्ष्मीः सर्वभूतानां याच देवेष्ववस्थिता ।
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु  ॥११॥

देहस्था याच रुद्राणी शङ्करस्य सदा प्रिया ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥१२॥

विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ।
चन्द्रार्कशक्रशक्तिर्य्या धेनुरूपास्तु मा श्रिये ॥१३॥

चतुर्मुखस्य या लक्ष्मीर्यालक्ष्मीर्धनदस्य च  ।
लक्ष्मीर्या लोकपालानां सा धेनुर्वरदाऽस्तु मे ॥१४॥

स्वधा या पितृमुख्यानां स्वाहा यज्ञभुजाञ्चया ।
सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छमे ॥१५॥

एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ।
विधानमेतद्धेनूनां सर्वासामपि पठ्यते ॥१६॥

यास्ताः पापविनाशिन्यः पठ्यन्ते दशधेनवः ।
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप! ॥१७॥

प्रथमा गुडधेनुः स्यात् घृतधेनुस्तथापरा ।
तिलधेनुस्तृतीयातु चतुर्थी जलसंज्ञिता ॥१८॥

क्षीरधेनुश्च विख्याता मधुधेनुस्तथापरा ।
सप्तमी शर्कराधेनुर्दधिधेनुस्तथाष्टमी ॥
रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः ॥१९॥

कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः ।
सुवर्णधेनुमप्यत्र केचिदिच्छन्ति मानवाः ॥२०॥

नवनीतेन रत्नैश्च तथान्ये तु महर्षयः ॥
एतदेव विधानं स्यात्तएवोपस्कराः स्मृताः ।
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि  ॥२१॥

यथा श्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥२२॥

गुडधेनुप्रसङ्गेन सर्वास्तावन्मयोदिताः ।
अशेषयज्ञफलदाः सर्वाः पापहराः शुभाः  ॥२३॥

व्रतानामुत्तमं यस्माद्विशोकद्वादशीव्रतम् ।
तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते ॥२४॥

अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः ।
गुडधेन्वादयो देयास्तूपरागादि पर्वसु ॥२५॥

विशोकद्वादशीचैषा पुण्या पापहराशुभा ।
यामुपोष्य नरो याति तद्विष्णोः परमम्पदम् ॥२६॥

इह लोके च सौभाग्यमायुरारोग्यमेव च ।
वैष्णवं पुरमाप्नोति मरणे च स्मरन् हरिम् ॥२७॥

नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित् ।
न शोकदुःखदौर्गत्यं तस्य सञ्जायते नृप! ॥२८॥

नारी वा कुरुते या तु विशोकद्वादशीव्रतम् ।
नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात् ॥२९॥

तस्मादग्रे हरेर्नित्यमनन्तं गीतवादनम् ।
कर्त्तव्यं भूतिकामेन भक्त्या तु परया नृप! ॥३०॥

इति पठति य इत्थं यः श्रृणेतीह सम्यक् मधुमुरनरकारेरर्चनं यश्च पश्येत् ।
मतिमपि च जनानां यो ददातीन्द्रलोके वसति विबुधौघैः पूज्यते कल्पमेकम् ॥३१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP