संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ४४

मत्स्यपुराणम् - अध्यायः ४४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


यदुवंशवर्णने क्रोष्टुवंशवर्णनम्  ।

ऋषय ऊचुः  ।
किमर्थं तद्वनं दग्धमापवस्य महात्मनः  ।
कार्तवीर्येण विक्रम्य सूत! प्रब्रूहि तत्वतः ॥१॥

रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम्  ।
सकथं रक्षिता भूत्वा अदहत्तत्तपोवनम् ॥२॥

सूत उवाच  ।
आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः  ।
तृप्तिमेकां प्रयच्छस्व आदित्योऽहं नरेश्वर ॥३॥

राजोवाच  ।
भगवन्! केन तृप्तिस्ते भवत्येव दिवाकर  ।
कीद्रृशं भोजनं दद्मि श्रुत्वा तु विदधाम्यहम् ॥४॥

आदित्य उवाच  ।
स्थावरन्देहि मे सर्वमाहारं ददतां वर  ।
तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव ॥५॥

कार्तवीर्य उवाच  ।
न शक्याः स्थावराः सर्वे तेजसा च बलेन च  ।
निर्दग्धुं तपतां श्रेष्ठ! तेन त्वां प्रणमाम्यहम् ॥६॥

आदित्य उवाच  ।
तुष्टस्तेऽहं शरान् दद्मि अक्षयान् सर्वतो मुखान्  ।
ये प्रक्षिप्ता ज्वलिष्यन्ति मम तेजः समन् ॥७॥

आविष्टा मम तेजोभिः शेषयिष्यन्ति स्थावरान्  ।
शुष्कान् भस्मीकरिष्यन्ति तेन तृप्तिर्नराधिप ॥८॥

सूत उवाच  ।
ततः शरांस्तदादित्य स्त्वर्जुनाय प्रयच्छत  ।
ततो ददाह संप्राप्तान् स्थावरान् सर्वमेव च ॥९॥

ग्रामां स्तथाश्रमांश्चैव घोषाणि नगराणि च  ।
तथा वनानि रम्याणि वनान्युपवनानि च ॥१०॥

एवं प्राचीं समदहत् ततः सर्वांश्च पक्षिणः  ।
निर्वृक्षा निस्तृणा भूमिर्हता घोरेण तेजसा ॥११॥

एतस्मिन्नेव काले तु आपो वा जलमास्थितः  ।
दश वर्षसहस्राणि तत्रास्ते समहानृषिः ॥१२॥

पूर्णे व्रते महातेजा उदतिष्ठं स्तपोधनः  ।
सोऽपश्यदाश्रमं दग्धमर्जुनेन महामुनिः ॥१३॥

क्रोधाच्छशाप राजर्षि कीर्तितं वो यथा मया  ।
क्रोष्टोः श्रृणुतराजर्षे र्वंशमुत्तमपौरुषम् ॥१४॥

यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः  ।
क्रोष्टोरेवाभवत् पुत्रो वृजिनीवान् महारथः ॥१५॥

वृजनीवतश्च पुत्रोऽभूत् स्वाहो नाम महाबलः  ।
स्वाह पुत्रोऽभवद्राजन्!रुषङ्गर्वदतां वरः ॥१६॥

स तु प्रसूतिमिच्छन् वैरुषङ्गुः सौम्यमात्मजम्  ।
चित्रश्चित्ररथश्चास्य पुत्रः कर्मभिरन्वितः ॥१७॥

अथ चैत्ररथिर्वीरो जज्ञे विपुलदक्षिणः  ।
शशबिन्दुरिति ख्यातश्चक्रवर्त्ती बभूव ह ॥१८॥

अत्रानुवंश श्लोकोऽयं गीतस्तस्मिन् पुराऽभवत्  ।
शशबिन्दोस्तु पुत्राणां शत नामभवच्छतम् ॥१९॥

धीमतां चाभिरूपाणां भूरि द्रविण तेजसाम्  ।
तोषां शतप्रधानानां पृथुसाह्वा महाबलाः ॥२०॥

पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुञ्जयः  ।
पृथुकीर्त्तिः पृथुमना राजानः शशबिन्दवः ॥२१॥

शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम्  ।
अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयोऽभवत् ॥२२॥

उशना तु सुयज्ञस्य यो रक्षन् पृथिवीमिमाम्  ।
आजहाराश्वमेधानां शतमुत्तमधार्मिकः ॥२३॥

तितिक्षुरभवत् पुत्र औशनः शत्रुतापनः  ।
मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः ॥२४॥

आसीन् मरुत्त तनयो वीरः कम्बलबर्हिषः  ।
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलबर्हिषः ॥२५॥

निहत्य रुक्मकवचः परान् कवचधारिणः  ।
धन्विनो विविधै र्बाणै रवाप्य पृथिवीमिमाम् ॥२६॥

अश्वमेधे ददौ राजा ब्राह्मणेभ्यस्तु दक्षिणाम्  ।
यज्ञे तु रुक्मकवचः कदाचित् परवीरहा ॥२७॥

जज्ञिरे पञ्चपुत्रास्तु महावीर्या धनुर्भृतः  ।
रुक्मेषु पृथुरुक्मश्च ज्यामघः परिघो हरिः ॥२८॥

परिधं च हरिं चैव विदेहेऽस्थापयत् पिता  ।
रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः ॥२९॥

तेभ्यः प्रव्राजितो राज्यात् ज्यामघस्तु तदाश्रमे  ।
प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः ॥३०॥

जगाम धनुरादाय देशमन्यं ध्वजी रथी  ।
नर्म्मदां नृप एकाकी केवलं वृत्तिकामतः ॥३१॥

ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरुपाविशत्  ।
ज्यामघस्याभवद् भार्या चैत्रापरिणतासती ॥३२॥

अपुत्रो न्यवसद्राजा भार्यामन्यान्नविन्दत  ।
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः ॥३३॥

भार्यामुवाच सन्त्रासात् स्नुषेयं ते शुचिस्मिते  ।
एव मुक्ताब्रवीदेन कस्य चेयं स्नुषेति च ॥३४॥

राजोवाच  ।
यस्तेजनिष्यते पुत्रस्तस्य भार्या भविष्यति  ।
तस्मात् सा तपसोग्रेण कन्यायाः सम्प्रसूयत ॥३५॥

पुत्रं विदर्भं सुभगा चैत्रा परिणता सती  ।
राजपुत्र्यां च विद्वान् स स्नुषायां क्रथ कैशिकौ ॥
लोमपादं तृतीयन्तु पुत्रं परमधार्मिकम् ॥३६॥

तस्यां विदर्भोऽजनयच्छूरान् रणविशारदान्  ।
लोमपादान्मनुः पुत्रो ज्ञातिस्तस्य तु चात्मजः ॥३७॥

कैशिकस्य चिदिः पुत्रो तस्माच्चैद्या नृपाः स्मृताः  ।
क्रथो विदर्भपुत्रस्तु कुन्ति स्तस्यात्मजोऽभवत् ॥३८॥

कुन्ते र्धृतः सुतो जज्ञे रणधृष्टः प्रतापवान्  ।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ॥३९॥

तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः  ।
दशार्हिस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः ॥
दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते ॥४०॥

जीमूतपुत्रो विमलस्तस्य भीमरथः सुतः  ।
सुतो भीमरथस्यासीत् स्मृतो नवरथः किल ॥४१॥

तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः  ।
तस्मात् करम्भः कारम्भि र्देवरातो बभूव ह ॥४२॥

देवक्षत्रोऽभवद्राजा दैवरातिर्महायशाः  ।
देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः ॥४३॥

मधुर्नाम महातेजा मधोः पुरवसस्तथा  ।
आसीत् पुरवसः पुत्रः पुरुद्वान् पुरुषोत्तमः ॥४४॥

जन्तुर्जज्ञेऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः  ।
ऐक्ष्वाकी चाभवद् भार्या जन्तोस्तस्यामजायत ॥४५॥

सात्वतः सत्वसंयुक्तः सात्वतां कीर्तिवर्द्धनः  ।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ॥
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ॥४६॥

सात्वतान् सत्वसम्पन्नान् कौसल्या सुषुवे सुतान्  ।
भजिनं भजमानन्तु दिव्यं देवावृधं नृप! ॥४७॥

अन्धकञ्च महाभोजं वृष्णिं च यदुनन्दनम्!
तेषां तु सर्गा श्चत्वारो विस्तरेणैव तच्छृणु ॥४८॥

भजमानस्य सृञ्जय्यां बाह्यकायाञ्च बाह्यकाः  ।
सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन् ॥४९॥

तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून् सुतान्  ।
निमिंश्च कृमिलं श्चैव वृष्णिं पर पुरञ्जयम् ॥
ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे ॥५०॥

जज्ञे देवावृधो राजा बन्धूनां मित्रवर्द्धनः  ।
अपुत्रस्त्वभवद्राजा चचार परमन्तपः ॥
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन् ॥५१॥

संयोज्य मन्त्रमेवाथ पर्णाशा जलमस्पृशत्  ।
तदोपस्पशेनात्तस्य चकार प्रियमापगा ॥५२॥

कल्याणत्वान्नरपते स्तस्मै सा निम्नगोत्तमा  ।
चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम् ॥५३॥

नाधिगच्छाम्यहं नारीं यस्यामेवं विधः सुतः  ।
जायेत तस्माद्दद्याहं भवाम्यथ सहस्रशः ॥५४॥

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः  ।
ज्ञापयामास राजानं तामियेष महाव्रतः ॥५५॥

अथ सा नवमे मासि सुषुवे सरितां वरा  ।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात् ॥५६॥

अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम्  ।
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः ॥५७॥

यथैवं श्रृणुमो दूरादपश्यामस्तथान्तिकात्  ।
बभ्रुः श्रेष्ठो मनुष्याणां देवै र्देवावृधः समः ॥५८॥

षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः  ।
एतेऽमृतत्वं संप्राप्ता बभ्रो र्देवावृधान्नृप! ॥५९॥

यज्वा दान पतिर्वीरो ब्रह्मण्यश्च दृढव्रतः  ।
रूपवान् सुमहातेजाः श्रुतवीर्य्य धरस्तथा ॥६०॥

अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान्  ।
कुकुरं भजमानञ्च शशिं कम्बलबर्हिषम् ॥६१॥

कुकुरस्य सुतो वृष्णि वृष्णेस्तु तनयो धृतिः  ।
कपोत रोमा तस्याथ तैत्तिरिस्तस्य चात्मजः ॥६२॥

तस्यासीत्तनुजा पुत्रो सखा विद्वान्नलः किल  ।
ख्यायते तस्य नाम्ना च नन्दनोदरदुन्दुभिः ॥६३॥

तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः  ।
अश्वमेधं च पुत्रार्थमाजहार नरोत्तमः ॥६४॥

तस्य मध्येति रात्रस्य सभा मध्यात् समुत्थितः  ।
अतस्तु विद्वान् कर्मज्ञो यज्वा दाता पुनर्वसु ॥६५॥

तस्यासीत् पुत्रमिथुनं बभूवाविजितं किल  ।
आहुकश्चाहुकी चैव ख्यातं मतिमतां वर! ॥६६॥

इमांश्चोदाहरन्त्यत्र श्लोकान् प्रतितमाहुकम्  ।
सोपासङ्गानुकर्षाणां सध्वजाना वरूथिनाम् ॥६७॥

रथानां मेघघोषाणां सहस्राणि दशैव तु  ।
नासत्यवादी नातेजा नायज्वा नासहस्रदः ॥६८॥

नाशुचिर्नाप्यविद्वान् हि यो भोजेष्वभ्यजायत  ।
आहुकस्य भृतिं प्राप्ता इत्येतद्वै तदुच्यते ॥६९॥

आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ  ।
आहुकात् काश्यदुहिता द्वौ पुत्रौ समसूयत ॥७०॥

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ  ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥७१॥

देवानुपदेवश्च सुदेवो देवरक्षितः  ।
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥७२॥

देवकी श्रुतदेवी च यशोदा च यशोधरा  ।
श्री देवी सत्यदेवी च सुतापी चेति सप्तमी ॥७३॥

नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वज  ।
न्यग्रोधश्च सुनामा च कङ्कः शङ्कश्च भूयसः ॥७४॥

सुतन्तू राष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिदः  ।
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा ॥७५॥

सुतलन्तू राष्ट्रपाली च कङ्का चेति वराङ्गनाः  ।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ॥७६॥

भजमानस्य पुत्रोऽथ रथिमुख्यो विदूरथः  ।
राजाधिदेवः शूरश्च विदूरथ सुतोऽभवत् ॥७७॥

राजाधिदेवस्य सुतौ जज्ञाते देवसंमितौ  ।
नियमव्रतप्रधानौ शोणाश्वः श्वेतवाहनः ॥७८॥

शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः  ।
शमीच वेदशर्मा च निकुन्तः शक्रशत्रुजित् ॥७९॥

शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः  ।
प्रतिक्षेत्रः सुतो भोजो हृदीकस्तस्य चात्मजः ॥८०॥

हृदीकस्याभवन् पुत्रा दश भीमपराक्रमाः  ।
कृतवर्माग्रजस्तेषां शतधन्वा च मध्यमः ॥८१॥

देवार्हश्चैव नाभश्च भीषणश्च महाबलः  ।
अजातो वनजातश्च कनीयक करम्बकौ ॥८२॥

देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः  ।
असमञ्जाः सुतस्तस्य तमोजास्तस्य चात्मजः ॥८३॥

अजातपुत्रा विक्रान्ता स्त्रयः परमकीर्त्तयः  ।
सुदंष्ट्रश्च सुनाभश्च कृष्ण इत्यन्धकामताः ॥८४॥

अन्धकानामिमं वंशं यः कीर्त्तयति नित्यशः  ।
आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः ॥८५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP