संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०५

मत्स्यपुराणम् - अध्यायः २०५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


धेनुदानविधिवर्णनम् ।
मनुरुवाच ।
प्रसूयमाना दातव्या धेनुर्ब्राह्मणपुङ्गवे ।
विधिना केन धर्मज्ञ! दानं दद्याच्च किं फलम् ॥१॥

मत्स्य उवाच ।
स्वर्णश्रृङ्गी रौप्यखुरां मुक्तालाड्गूलभूषिताम् ।
कांस्योपदोहनां राजन् सवत्सां द्विजपुङ्गवे ॥२॥

प्रसूयमानां गां दत्वा महत्पुण्यफलं लभेत् ।
यावद् वत्सो योनिगतो यावद् गर्भं न मुञ्चति ॥३॥

तावद्वै पृथिवी ज्ञेया सशैलवनकानना ।
प्रसूयमानां यो दद्याद्धेनुं द्रविणसंयुताम् ॥४॥

ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥५॥

यावन्ति धेनुरोमाणि वत्स्यस्य च नराधिप ।
तावत्सङ्ख्यं युगगणं देवलोके महीयते ॥६॥

पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ।
उद्धरिष्यत्यसंदेहान्नरकाद् भूरिदक्षिणः ॥७॥

घृतक्षीरवहाः कुल्या दधिपायसकर्दमाः ।
यत्र तत्र गतिस्तस्य द्रुमाश्चेप्सितकामदाः  ।
गोलकः सुलभस्तस्य ब्रह्मलोकश्च पार्थिव ॥८॥

स्त्रियश्च तं चन्द्रसमानवक्त्राः प्रतप्तजाम्बूनदतुल्यरूपाः ।
महानितम्बास्तनुवृत्तमध्या भजन्त्यजस्रं नलिनाभनेत्राः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP