संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १२८ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १२८ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १२८ Translation - भाषांतर ग्रहाणांगतिवर्णनम् ।ऋषय ऊचुः ।वदतद्भवता प्रोक्तं श्रुतं सर्वमशेषतः ।कथं देवगृहाणि स्युः पुनर्ज्योतींषि वर्णय ॥१॥सूत उवाच ।एतत्सर्वं प्रवक्ष्यामि सूर्य्याचन्द्रमसोर्गतिम् ।यथा देवगृहाणिस्युः सूर्याचन्द्रमसोस्तथा ॥२॥अग्नेर्व्युष्टौ रजन्यां वै ब्रह्मणा व्यक्तयोनिना ।अव्याकृतमिदं त्वासीन्नैशेन तमसावृतम् ॥३॥चतुर्भूतावशिष्टेऽस्मिन् ब्रह्मणा समधिष्ठिते ।स्वयंभूर्भगवांस्तत्र लोकतत्त्वार्थसाधकः ॥४॥खद्योतरूपी विचरन्नाविर्भावं व्यचिन्तयत् ।ज्ञात्वाग्निं कल्पकालादावपः पृथ्वीञ्च संश्रिताः ॥५॥स सम्भृत्य प्रकाशार्थन्त्रिधा तुल्योऽभवत् पुनः ।पाचको यस्तु लोकेऽस्मिन् पार्थिवः सोऽग्निरुच्यते ॥६॥यत्रासौ तपवे सूर्ये शुचिरग्निश्च स स्मृतः ।वैद्युतो जठरः सौम्यो वैद्युतश्चाप्यनिन्धनः ॥७॥तेजोभिश्चाध्यते कश्चित् कश्चिदेवाप्यनिन्धनः ।काष्ठेन्धनस्तुनिर्मथ्यः सोऽद्भिः शाम्यति पावकः ॥८॥अर्चिष्मान् पचनोऽग्निस्तु निष्प्रभः सौम्यलक्षणः ।यश्चासौ मण्डले शुक्ले निरूष्मा न प्रकाशते ॥९॥प्रभा सौरी तु पादेन अस्तं याति दिवाकरे ।अग्निमाविशते रात्रौ तस्मादग्निः प्रकाशते ॥१०॥उदिते तु पुनः सूर्य्ये ऊष्माग्नेस्तु समाविशत् ।पादेन तेजसश्चाग्नेस्तस्मात् सन्तपते दिवा ॥११॥प्राकाश्यञ्च तथोष्णञ्च सौर्याग्नेये तु तेजसी ।परस्परानुप्रवेशादाप्याये ते दिवा निशम् ॥१२॥उत्तरे चैव भूम्यर्द्धे तथा ह्यस्मिंस्तु दक्षिणे ।उत्तिष्ठति पुनः सूर्य्ये रात्रिमाविशते ह्यपः ॥१३॥तस्मात्ताम्रा भवन्त्यापो दिवा रात्रि प्रवेशनात् ।अस्तङ्गते पुनः सूर्य्ये अहो वै प्रविशत्यपः ॥१४॥तस्मान्नक्तुं पुनः शुक्ला ह्यापो द्रृश्यन्ति भासुराः ।एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ॥१५॥उदयास्तमये ह्यत्र अहोरात्रं विशत्यपः ।यश्चासौ तपते सूर्य्यः सोऽपः पिबति रश्मिभिः ॥१६॥सहस्रपाद स्त्वेषोऽग्नी रक्तकुम्भनिभस्तु सः ।आदत्ते स तु नाडीनां सहस्रेणसमन्ततः ॥१७॥आपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च ।तस्य रश्मिसहस्रेण शीतवर्षोष्ण निः स्रवः ॥१८॥तासाञ्चतुः शतं नाड्यो वर्षन्ते चित्रमूर्तयः ।चन्दनाश्चैव मेध्याश्च केतनाश्चेतनास्तथा ॥१९॥अमृता जीवनाः सर्वा रश्मयो वृष्टिसर्जनाः ।हिमोद्भवाश्चतान्योन्यं रश्मयस्त्रिंशतः स्मृताः ॥२०॥चन्द्रताराग्रहैः सर्वैः पीता भानोर्गभस्तयः ॥२१॥एता मध्यास्तथान्याश्च ह्रादिन्यो हिमसर्जनाः ।शुक्लाश्च ककुभश्चैव गावो विश्वसृतश्च याः ॥२२॥शुक्लास्ता नामतः सर्वास्त्रिंशत्या धर्म्मसर्जनाः ।सम्बिभ्रति हि ताः सर्वाः मनुष्यान्देवताः पितॄन् ॥२३॥मनुष्यानौषधीभिश्च स्वधया च पितॄनपि ।अमृतेन सुरान् सर्वान् सन्ततम्परि तर्पयन् ॥२४॥वसन्ते चैव ग्रीष्मे वा शनैः सन्तपते त्रिभिः ।वर्षासु च शरद्येवं चतुर्भिः संप्रवर्षति ॥२५॥हेमन्ते शिशिरे चैव हिमोत्सर्गस्त्रिभिः पुनः ।औषधीषु बलन्धत्ते सुधाञ्च स्वधया पुनः ॥२६॥सूर्योऽमरत्वममृते त्रयस्त्रिषु नियच्छति ।एवं रश्मिसहस्रन्तु सौरं लोकार्द्धसाधनम् ॥२७॥भिद्यते ऋतुमासाद्य सहस्रं बहुधा पुनः ।इत्येवं मण्डलं शुक्लं भास्वरं लोकसंज्ञितम् ॥२८॥नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च ।चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः ॥२९॥सुषुग्ना सूर्यरश्मिर्या क्षीणां शशिनमेधते ।हरिकेशः पुरस्तात्तु यो वै नक्षत्रयोनिकृत् ॥३०॥दक्षिणे विश्वकर्मा तु रश्मिराप्याययद् बुधम् ।विश्वावसुश्च यः पश्चच्छुक्रयोनिश्च स स्मृतः ॥३१॥सम्वर्द्धनस्तु यो रश्मिः सयोनिर्लोहितस्य च ।षष्ठस्तु ह्यश्वभूरश्मिर्योनिः स हि बृहस्पतेः ॥३२॥शनैश्चरं पुनश्चापि रश्मिराप्यायते सुराट् ।न क्षीयते यतस्तानि तस्मान्नक्षत्रतास्मृता ॥३३॥क्षेत्राण्येतानि वै सूर्यमापतन्ति गभस्तिभिः ।क्षेत्राणि तेषामादत्ते सूर्योनक्षत्रता ततः ॥३४॥अस्माल्लोकादमुं लोकं तीर्णानां सुकृतात्मनाम् ।तारणात्तारका ह्येताः शुक्लत्वाच्चैव शुक्लिकाः ॥३५॥दिव्यानां पार्थिवानाञ्च वंशानाञ्चैव सर्वशः ।तपसस्तेजसो योगादादित्य इति गद्यते ॥३६॥स्रवतिः स्यन्दनार्थे धातुरेष निगद्यते ।स्रवणात्तेजसश्चैव तेनासौ सविता स्मृतः ॥३७॥बह्वर्थश्चन्द इत्येष प्रधानो धातुरुच्यते ।शुक्लत्वे ह्यमृतत्वे च शीतत्वे ह्लादनेऽपि च ॥३८॥सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे ।जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥३९॥वसन्ति कर्म्मदेवास्तु स्थानान्येतानि सर्वशः ।मन्वन्तरेषु सर्वेषु ऋषिसूर्यग्रहादयः ॥४०॥तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि ।सौरं सूर्योऽविशत् स्थानं सौम्यं सोमस्तथैव च ॥४१॥शौक्रं शुक्रोऽविशत् स्थानं षोडशारं प्रभास्वरम् ।बृहस्पतिर्बृहत्वञ्च लोहितञ्चापि लोहितः ॥४२॥शनैश्चरोऽविशत् स्थानमेवं शानैश्चरं तथा ।बुधोऽपि वै बुधस्थानं भानुस्वर्भानुरेव च ॥४३॥नक्षत्राणि च सर्वाणि नाक्षत्राण्यविशन्ति च ।ज्योतींषि सुकृतामेते ज्ञेया देवगृहास्तु वै ॥४४॥स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् ।मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै ॥४५॥अभिमानेन तिष्ठन्ति तानि देवाः पुनः पुनः ।अतीतास्तु सहातीतैर्भाव्याभाव्यैः सुरैः सह ॥४६॥वर्तन्ते वर्तमानैश्च सुरैः सार्द्धन्तु स्थानिनः ।सूर्यो देवो विवस्वांश्च अष्टमस्त्वदितेः सुतः ॥४७॥द्युतिमान् धर्म्मयुक्तश्च सोमो देवो वसुः स्मृतः ।शुक्रो दैत्यस्तु विज्ञेयो भार्गवो सुरयाजकः ॥४८॥बृहस्पतिर्बृहत्तेजा देवाचार्योऽङ्गिरः सुतः ।बुधोमनोहरश्चैव शशिपुत्रस्तु स स्मृतः ॥४९॥शनैश्चरो विरूपश्च संज्ञापुत्रो विवस्वतः ।अग्निर्विकेश्यां जज्ञे तु युवाऽसौ लोहिताधिपः ॥५०॥नक्षत्रनाम्न्यः क्षेत्रेषु दाक्षायण्यः सुताः स्मृताः ।स्वर्भानुः सिंहिकापुत्रो भूतसंसाधनो सुरः ॥५१॥चन्द्रार्कग्रहनक्षत्रेष्वभिमानी प्रकीर्त्तितः ।स्थानान्येतानि चोक्तानि स्थानिन्यश्चैव देवताः ॥५२॥शुक्लमग्निसमं दिव्यं सहस्रांशोर्विवस्वतः ।सहस्रांशुत्विषः स्थानमन्मयन्तेजसं तथा ॥५३॥आशास्थानं मनोज्ञस्य रविरश्मिगृहे स्थितम् ।शुक्रः षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः ॥५४॥लोहितो नवरश्मिस्तु स्थानमापन्तु तस्य वै ।बृहद्द्वादशरश्मीकं हरिद्राभन्तु वेधसः ॥५५॥अष्टरश्मिशनेस्तत्तु कृष्णं वृद्धमयस्मयम् ।स्वर्भानोस्त्वायसं स्थानं भूतसन्तापनालयम् ॥५६॥सुकृतामाश्रयास्तारा रश्मयस्तु हिरण्मयाः ।तारणात्तारकाह्येताः शुक्लत्वाच्चैव तारकाः ॥५७॥नवयोजनसाहस्रोविष्कम्भः सवितुः स्मृतः ।मण्डलं द्विगुणं चास्य विस्तारो भास्करस्य तु ॥५८॥द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ।त्रिगुणं मण्डलं चास्य वैपुल्याच्छशिनः स्मृतम् ॥५९॥सर्वोपरिनिविष्टानि मण्डलानि तु तारकाः ।योजनार्द्धप्रमाणानि ताभ्योऽन्यानि गणानि तु ॥६०॥तल्पो भूत्वा तु स्वर्भानुस्तदधस्तात् प्रसर्पति ।उद्धृत्य पार्थिवीं च्छायां निर्मितां मण्डलाकृतिम् ॥६१॥ब्रह्मणा निर्मितं स्थानं तृतीयन्तु तमोमयम् ।आदित्यात् स तु निष्कम्य सोमं गच्छति पर्वसु ॥६२॥आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ।स्वभासा तुदते यस्मात् स्वर्भानुरितिसस्मृतः ॥६३॥चन्द्रतः षोडशो भागो भार्गवस्य विधीयते ।विष्कम्भान् मण्डलाच्चैव योजनानान्तु सस्मृतः ॥६४॥भार्गवात्पादहीनश्च विज्ञेयो वै बृहस्पतिः ।बृहस्पतेः पादहीनौ केतुवक्रावुभौ स्मृतौ ॥६५॥विस्तारमण्डलाभ्यान्तु पादहीनस्तयोर्बुधः ।तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ॥६६॥बुधेन समरूपाणि विस्तारान् मण्डलात्तु वै ।तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥६७॥शतानि पञ्चचत्वारि त्रीणि द्वे चैकमेव च ।सर्वोपरिनिसृष्टानि मण्डलानि तु तारकाः ॥६८॥योजनार्द्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते ।उपरिष्टात्तु ये तेषां गृहा ये क्रूरसात्विकाः ॥६९॥सौरश्चाङ्गिरसो वक्रो विज्ञेयामन्दचारिणः ॥तेभ्योऽधस्तात्तु चत्वारः पुनश्चान्ये महाग्रहाः ॥७०॥सोमः सूर्य्यो बुधश्चैव भार्गवश्चेति शीघ्रगाः ।यावन्ति चैव ऋक्षाणि कोट्यस्तावन्ति तारकाः ॥७१॥सर्वेषान्तु ग्रहाणां वै सूर्य्योऽधस्तात् प्रसर्पति ।विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ॥७२॥नक्षत्रमण्डलञ्चापि सोमाद् ऊर्ध्वं प्रसर्पति ।नक्षत्रेभ्यो बुधश्चोद्र्ध्वं बुधाच्चोद्र्ध्वन्तु भार्गवः ॥७३॥वक्रस्तु भार्गवादूद्र्ध्वं वक्रादूर्ध्वं बृहस्पतिः ।तस्माच्छनैश्चरश्चोर्ध्वं देवाचार्योपरिस्थितः ॥७४॥शनैश्चरात्तथा चोर्ध्वं ज्ञेयं सप्तर्षिमण्डलम् ।सप्तर्षिभ्यो ध्रुवश्चोर्ध्वं समस्तं त्रिदिवं ध्रुवे ॥७५॥द्विगुणेषु सहस्रेषु योजनानां शतेषु च ।गृहान्तरमथैकैकमूर्ध्वं नक्षत्रमण्डलात् ॥७६॥ताराग्रहान्तराणिस्युरुपर्युपर्य्यधिष्ठितम् ।ग्रहाश्चन्द्रसूर्य्यौ च दिवि दिव्येन तेजसा ॥७७॥नक्षत्रेषु च युज्यन्ते गच्छन्तो नियतक्रमात् ।चन्द्रार्कग्रहनक्षत्रा नीचोच्चगृहमाश्रिताः ॥७८॥समागमे च भेदे च पश्यन्ति युगपत्प्रजाः ।परस्परं स्थिता ह्योवं युज्यन्तेच परस्परम् ॥७९॥असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः ।इत्येवं सन्निवेशो वै पृथिव्या ज्योतिषाञ्चयः ॥८०॥द्वीपानामुदधीनाञ्च पर्वतानां तथैव च ।वर्षाणाञ्च नदीनाञ्च ये च तेषु वसन्ति वै ॥८१॥इत्येषोऽर्कवशेनैव सन्निवेशस्तु ज्योतिषाम् ।आवर्तः सान्तरोमद्ये संक्षिप्तश्च ध्रुवात्तु सः ॥८२॥सर्वतस्तेषु विस्तीर्णो वृत्ताकार इवोच्छ्रितः ।लोकसम्व्यवहारार्थमीश्वरेण विनिर्मितः ॥८३॥कल्पादौ बुद्धिपूर्वन्तु स्थापितोऽसौ स्वयम्भुवा ।इत्येष सन्निवेशो वै सर्वस्य ज्योतिरात्मकः ॥८४॥वैश्वरूपं प्रधानस्य परिणाहोऽस्य यः स्मृतः ।तेषां शक्यं न संख्यातुं याथातथ्येन केनचित् ॥गतागतं मनुष्येण ज्योतिषां मांस चक्षुषा ॥८५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP