संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| त्रयस्त्रिंशदधिकशततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - त्रयस्त्रिंशदधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रयस्त्रिंशदधिकशततमोऽध्यायः Translation - भाषांतर त्रिपुरवधस्य कथाजनमेजय उवाचत्र्यक्षाद् वधमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।त्रयाणां पुरसंज्ञानां खेचराणां समासतः ॥१॥वैशम्पायन उवाचशृणु विस्तरतः सर्वं यन्मां पृच्छसि नैधनम् ।दैत्यानां बाहुबलिनां सर्वप्राणिविरोधिनाम् ॥२॥शंकरेण वधं राजञ्शूलैस्त्रिभिरजिह्मगैः ।कृतं पुरासुरेन्द्राणां सर्वभूतवधैषिणाम् ॥३॥त्रिपुरं पुरुषव्याघ्र वृहद्धातुसमीरितम् ।विक्रामति नभोमध्ये मेघवृन्दमिवोत्थितम् ॥४॥प्राकारेण प्रवृद्धेन काञ्चनेन विराजता ।मणिभिश्च प्रकाशद्भिः सर्वरत्नैश्च तोरणैः ॥५॥बभासे नभसो मध्ये श्रिया परमया ज्वलत् ।गन्धर्वाणामिवोदग्रं कर्मणा साधितं पुरम् ॥६॥वाजिनः पक्षसंयुक्ता वहन्ति बलदर्पिताः ।पुरं प्रभाकरश्रेष्ठं मनोभिः कामबृंहणैः ॥७॥धावन्ति ह्रेषमाणास्ते विक्रमैः प्राणसम्भृतैः ।आहूयत इवाकाशं खुरैः श्यामदलप्रभैः ॥८॥वायुवेगसमैर्वेगैः कालयन्त इवाम्बरम् ।असुराः समदृश्यन्त चक्षुर्भिर्विदितात्मभिः ॥९॥ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्बिषैः ।गीतवादित्रबहुलं गन्धर्वनगरोपमम् ॥१०॥चित्रायुधसमाकीर्णैः प्रतप्तकनकप्रभैः ।भवनैर्बहुभिश्चैव प्रांशुभिः समलंकृतैः ॥११॥देवेन्द्रभवनाकारैः शुशुभे तन्महाद्युति ।प्रासादाग्रैः प्रवृद्धैश्च कैलासशिखरप्रभैः ॥१२॥शुशुभे दैत्यनगरं बहुसूर्यमिवाम्बरम् ।वराट्टालकसम्पन्नं तप्तकाञ्चनसप्रभम् ॥१३॥प्रदीप्तमिव तेजोभी रराजाथ महाप्रभो ।क्ष्वेडितोत्क्रुष्टबहुलं सिंहनादविनादितम् ॥१४॥बभौ वल्गुजनाकीर्ण वनं चैत्ररथं यथा ।समुच्छ्रितपताकं तदसिभिश्च विराजितम् ॥१५॥रराज त्रिपुरं राजन् महाविद्युदिवाम्बरे ।सूर्यनाभश्च दैत्येन्द्रश्चन्द्रनाभश्च भारत ॥१६॥तथान्ये च महावीर्या दानवा बलदर्पिताः ।ममृदुश्च बभञ्जुश्च मोहिताः परमेष्ठिना ॥१७॥पन्थानं देवगमनं पितृयानं च भारत ।तैरेवमसुराग्रैश्च प्रगृहीतशरासनैः ॥१८॥दानवैर्नरशार्दूल देवयाने महापथे ।पितृवह्नियलोपेते हृते भरतसत्तम ॥१९॥ब्रह्माणमभ्यधावन्त सर्वे सुरगणास्तथा ।विवर्णवदना दीनाश्छिन्ने वै गतिकर्मणि ॥२०॥अब्रुवंश्च गताः स्थित्वा स्वरेणार्तनिनादिना ।हन्यामहे शत्रुगणैर्भागोच्छेदेन भागद ॥२१॥तेषां चैव वधोपायं वदस्व वदतां वर ।यं ज्ञात्वा बाहुबलिनो बाधेम समरे परान् ॥२२॥सान्त्वयित्वा तु वरदो ब्रह्मा प्रोवाच देवताः ।शृणुध्वं देवताः सर्वाः शत्रुप्रतिकृतिं पराम् ॥२३॥अवध्या दानवाः सर्वे ऋते शंकरमव्ययम् ।प्रतिगृह्य च तद् वाक्यं मनोभिर्वाग्भिरेव च ॥२४॥भूमौ प्रपेदिरे सर्वे सह रुद्रैश्च भारत ।विन्ध्यपादे च मेरौ च मध्ये च पृथिवीतले ॥२५॥तपसोग्रेण योगज्ञा सर्वे ते मुनयोऽभवन् ।काश्यपेयं हरं प्राप्ता जपन्तो ब्रह्मसंहिताम् ॥२६॥तेषां च परदाराणामभवद् वन्ध्यता जने ।विन्यस्तदर्भनिचये ताम्रलोहं च भूषणम् ॥२७॥परिधानानि चर्माणि मृदूनि च शुभानि च ।स्वयं मृतानां कृष्णानां मृगाणां कुरुसत्तम ॥२८॥गृहीतानि विमुक्तानि देहेभ्यो वनचारिणाम् ।अन्तरिक्षमथोपेत्य विविशुर्माययाऽऽवृताः ॥२९॥हरालयं सुराः सर्वे व्याघ्रचर्भनिवासिनः ।प्रणिपत्याथ ते दीना भगवन्तं जगत्पतिम् ॥३०॥सुव्यक्तेनाभिधानेन प्रभाषन्त हरं ततः ।हविर्दत्तमविज्ञानाद् भस्मच्छन्नेषु वह्निषु ॥३१॥वरदानं वृथास्मासु भगवन् विमुखे त्वयि ।यथादेशं यथाकालं क्रियतां ब्रह्मणो वचः ॥३२॥यदुक्तं देवदेवेन खेचराणां समीपतः ।एवं देववचोभिश्च भाविनोऽर्थस्य वैभवात् ॥३३॥समनह्यन्महादेवो देवैः सह सवासवैः ।आदित्यपथमास्थाय संनद्धाः समलंकृताः ॥३४॥सर्वे काञ्चनवर्णाभा बभुर्दीप्ता इवाग्नयः ।रुद्रेण सहिता रुद्रा दहन्त इव तेजसा ॥३५॥संनद्धाः कुशलाः सर्वे प्रांशवः पर्वता इव ।विश्वे विश्वेन वपुषा बलिनः कामरूपिणः ॥३६॥समनह्यन्महात्मानो दानवान्तं विधित्सवः ।एभिः सहधनाध्यक्षैः समन्तात् परिवारितः ॥३७॥त्रिपुरं योधयत् त्र्यक्षः प्रगृह्य सशरं धनुः ।अथ दैत्या भिन्नदेहाः पुराट्टालं गता इव ॥३८॥न्यपतन्त विदेहास्ते विशीर्णा इव पर्वताः ।अ तिविद्धाः सुविद्धाश्च रणमध्यगता नृप ॥३९॥न्यपतन् दैत्यसंघाता वज्रेणेव हता नगाः ।असिभिश्च हता देवैः शक्तिचक्रपरश्वधैः ॥४०॥बाणैश्च भिन्नमर्माणो दैत्येन्द्रा युद्धगोचरे ।प्रपेतुः सहिता उर्व्यां छिन्नपक्षा इवाचलाः ॥४१॥तत्र संज्ञां विमुञ्चन्ति दीप्यमानेन तेजसा ।एवं तेऽन्योन्यसम्बाधे क्षीयन्ते क्षयकर्मणा ॥४२॥नोपालभ्यन्त चक्षुर्भ्यामपि दिव्येन चक्षुषा ।अस्तं प्राप्ते दिनकरे सुरेन्द्रास्ते निशामुखे ।छिन्नभिन्नक्षतमुखा निपेतुर्वसुधातले ॥४३॥अथ दैत्या जयं प्राप्ता निशायां निशितैः शरैः ।विनेदुर्विपुलैर्नादैर्मेघा इव महारवाः ॥४४॥जयप्राप्त्यासुराश्चैव तेऽन्योन्यमभिजल्पिरे ।त्रासितास्त्रिदशाः सर्वे संग्रामजयकाङ्क्षिणः ॥४५॥अस्माभिर्बलसम्पन्नैः सह प्रासासितोमरैः ।विरेजुश्च जयं प्राप्ता उशनोहव्यबोधिताः ॥४६॥समरे ब लसम्पन्नाः सायुधा दैत्यसत्तमाः ।सुरैश्च सहितः सर्वै रथमास्थाय शंकरः ॥४७॥दर्पितान् निनदन् दैत्यान् प्रदहन्निव तेजसा ।युगान्तकाले वितते रश्मिवानिव निर्दहन् ॥४८॥सर्वभूतानि भूताग्र्यः प्रलये समुपस्थिते ।स रथो वाजिभिः शीघ्रैरुह्यमानो मनोजवैः ॥४९॥विबभौ नभसो मध्यं सविद्युदिव तोयदः ।वृषभेण .ध्वजाग्रेण गर्जमानेन भारत ॥५०॥भाति स्म स रथो राजन्सेन्द्रायुध इवाम्बुदः ।ततोऽम्बरगताः सिद्धास्तुष्टुवुर्वृषभध्वजम् ॥५१॥कर्मभिः पूर्वजं पूर्वैः शुचिभिस्त्र्यम्बकं तदा ।ऋषयश्च तपःशान्ताः सत्यव्रतपरायणाः ॥५२॥अमृतप्राशिनश्चैव सुरसंघास्तथैव च ।गन्धर्वाप्सरसश्चैव गान्धर्वेण स्वरेण वै ॥५३॥प्रहृष्टवदनाः सौम्याः पैत्र्ये स्थानान्तरे नृप ।चयाट्टालकसम्पन्ने शतघ्नीशतसंकुले ॥५४॥तस्मिंस्तु दैत्यनगरे सर्वभूतभयावहे ।ततस्तु शरवर्षाणि मुमुचुर्दैत्यदानवाः ॥५५॥सुराणामरयो मध्ये तीक्ष्णाग्राणि समन्ततः ।शतघ्नीभिश्च निघ्नन्तो भल्लैः शूलैश्च भारत ॥५६॥ते चक्रिरे महत्कर्म दानवा युद्धकोविदाः ।गदाभिश्च गदा जघ्नुर्भल्लैर्भल्लांश्च चिच्छिदुः ॥५७॥अस्त्रैरस्त्राण्यबाधन्त माया मायाभिरेव च ।ततोऽपरे समुद्यम्य शरशक्तिपरश्वधान् ॥५८॥अशनींश्च महाघोरानमुञ्चन्त सहस्रशः ।असिभिर्मायाविहितैर्मृत्योर्विषयगोचरे ॥५९॥ते वध्यमाना विबुधाः शरवर्षैरवस्थिताः ।गन्धर्वनगराकारः सोऽसीदत् सहरो रथः ॥६०॥हन्यमानोऽसुरगणैः प्रासासिशरतोमरैः ।तैश्च दैत्यप्रहरणैर्गुरुभिर्भारसाहिभिः ।चित्रैश्च बहुभिः शस्त्रैरतिष्ठत शचीपतिः ॥६१॥ततो मध्ये दिव्यशब्दः प्रादुरासीन्महीपते ।ऋषीणां ब्रह्मपुत्राणां महतामपि भारत ॥६२॥स एष शंकरस्याग्रे रथो भूमिं प्रतिष्ठितः ।अजेयो जय्यतां प्राप्तः सर्वलोकस्य पश्यतः ॥६३॥तस्मिन्निपतिते राजन् रथानां प्रवरे रथे ।निपेतुः सर्वभूतानि भूतले वसुधाधिप ॥६४॥विचेलुः पर्वताग्राणि चेलुश्चैव महाद्रुमाः ।विचुक्षुभुः समुद्राश्च न रेजुश्च दिशो दश ॥६५॥वृद्धाश्च ब्राह्मणास्तत्र जेपुश्च परमं जपम् ।यत्तद् ब्रह्ममयं तेजः सर्वत्र विजयैषिणाम् ॥६६॥शान्त्यर्थं सर्वभूतानामिह लोके परत्र च ।समाधायात्मनाऽऽत्मानं योगप्राप्तेन हेतुना ॥६७॥रथन्तरेण साम्नाथ ब्रह्मभूतेन भारत ।तेजसा ज्वलयन्विष्णोस्त्र्यक्षस्य च महात्मनः ॥६८॥सर्वेषां चैव देवानां बलिनां कामरूपिणाम् ।ऋषीणां तपसाऽऽढ्यानां वसतां विजने वने ॥६९॥अथ विष्णुर्महायोगी सर्वतोदृश्य तत्त्वतः ।वृषरूपं समास्थाय प्रोज्जहार रथोत्तमम् ॥७०॥समाक्रान्तं देवगणैः समग्रबलपौरुषैः ।बलवांस्तोलयित्वा तु विषाणाभ्यां महाबलः ।ननाद प्राणयोगेन मथ्यमान इवार्णवः ॥७१॥तृतीयं वायुविषयं समाक्रम्य विषाणवान् ।ननाद बलवान् नादं समुद्र इव पर्वणि ॥७२॥ततो नादेन वित्रस्ता दैतेया युद्धदुर्मदाः ।पुनस्ते कृतसन्नाहा युयुधुः सुमहाबलाः ॥७३॥सर्वे वै बाहुबलिनः समर्थबलपौरुषाः ।सुरसैन्यं प्रमर्दन्तः प्रगृहीतशरासनाः ॥७४॥अग्निं संधाय धनुषि शितं बाणं सुपत्रिणम् ।ब्रह्मास्त्रेणाभिसंयोज्य ब्रह्मदण्डं शिवोऽव्ययः ।मुमोच दैत्यनगरे त्रिधाशब्देन संज्ञितम् ॥७५॥तं बाणं त्रिविधं वीर्यात् संधाय मनसा प्रभुः ।सत्येन ब्रह्मयोगेन तपसोग्रेण भारत ॥७६॥मुमोच दैत्यनगरे सर्वप्राणहराञ्छरान् ।दीप्तान्कनकवर्णाभान् सुवर्णांश्च सुनिर्मलान् ॥७७॥मुक्त्वा वरशरान् घोरान् सविषानिव पन्नगान् ।सुप्रदीप्तैस्त्रिभिर्बाणैर्वेगिभिस्तद्विदारितम् ॥७८॥शरघातप्रदीप्तानि विन्ध्याग्राणीव भारत ।गोपुराणि पुरैः सार्धं व्यशीर्यन्त नराधिप ॥७९॥अग्निना सम्प्रदीप्तानि वह्निगर्भाणि भारत ।धरणीं सम्प्रपद्यन्त पुराणि वसुधाधिप ॥८०॥तानि वैदूर्यवर्णानि शिखराणि गिरेरिव ।शंकरेण प्रदग्धानि ब्रह्मास्त्रेणापतन्नृप ॥८१॥हते च त्रिपुरे देवैर्वाचो हर्षात् किलेरिताः ।सर्वाञ्जहीति शत्रूंस्त्वं प्रवृद्धान् पुरुषोत्तम ॥८२॥विष्णुरेव महायोगी योगेन प्रस्मयन्निव ।स्तूयते ब्रह्मसदृशैर्ऋषिभिः शंकरेण च ।ब्रह्मणा सहितैर्देवैः सम्पन्नबलपौरुषैः ॥८३॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि त्रिपुरवधे त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥१३३॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP