संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| एकसप्ततितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - एकसप्ततितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकसप्ततितमोऽध्यायः Translation - भाषांतर वामनेन बलेः यागस्य प्रशंसा, बलिना आदानाय प्रेरितः सन् वामनेन तं त्रिपाद्भूमेः याचना, शुक्राचार्येण प्रह्लादेन च बलेः दानाय वर्जनं, बलिना दानस्य समर्थनं, दानं गृहीतेनैव वामनेन स्वविराड्रूपस्य प्राकट्यम्विष्णुरुवाच॥अहो यज्ञोऽसुरेशस्य बहुभक्षः सुसंस्कृतः॥पितामहस्येव पुरा यजतः परमेष्ठिनः ॥१॥सुरेशस्य च शक्रस्य यमस्य वरुणस्य च॥विशेषितस्त्वया यज्ञो दानवेन्द्र महाबल ॥२॥यजता वाजिमेधेन क्रतूनां प्रवरेण तु॥सर्वपापविनाशाय त्वया स्वर्गप्रदर्शिऽना ॥३॥सर्वकाममयो ह्येष संमतो ब्रह्मवादिनाम्॥क्रतूनां प्रवरः श्रीमानश्वमेध इति श्रुतिः ॥४॥सुवर्णशृङ्गो हि महानुभावो लोहक्षुरो वायुजवो महारयः॥स्वर्गेक्षणः काञ्चनगर्भगौरः स विश्वयोनिः परमो हि मेध्यः ॥५॥आस्थाय वै वाजि- नमश्वमेधमिष्ट्वा नरा दुष्कृतमुत्तरन्ति॥आहुश्च यं वेदविदो द्विजेन्द्रा वैश्वानरं वाजिनमश्वमेधम् ॥६॥यथाश्रमाणां प्रवरो गृहा- श्रमो यथा नराणां प्रवरा द्विजातयः॥यथाऽसुराणां प्रवरो भवानिह तथा क्रतूनां प्रवरोऽश्वमेधः ॥७॥वैशम्पायन उवाच॥एतच्छ्रुत्वा तु वचनं वामनेन समीरितम्॥मुदा परमया युक्तः प्राह दैत्यपतिर्बलिः ॥८॥बलिरुवाच॥कस्यासि ब्राह्मणश्रेष्ठ किमिच्छसि ददामि ते॥वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥९॥वामन उवाच॥न राज्यं न च यानानि न रत्नानि न च स्त्रियः॥कामये यदि तुष्टोऽसि धर्मे च यदि ते मतिः ॥१०॥गुर्वर्थं मे प्रयच्छस्व पदानि त्रीणि दानव॥त्वमग्निशरणार्थाय एष मे प्रवरो वरः॥वामनस्य वचः श्रुत्वा प्राह दैत्यपतिर्बलिः ॥११॥बलिरुवाच॥त्रिभिः किं तवं विप्रेन्द्र पदैः प्रवदतां वर॥शतं शतसहस्राणां पदानां मार्गतां भवान् ॥१२॥शुक्र उवाच॥मा ददस्व महाबाहो न त्वं वेत्सि महासुर॥एष मायाप्रतिच्छन्नो भगवान्प्रवरो हरिः ॥१३॥वामनं रूपमास्थाय शक्रप्रियहितेप्सया॥त्वां वञ्चयितुमायातो बहुरूपधरो विभुः ॥१४॥एवमुक्तः स शुक्रेण चिरं संचिन्त्य वै बलिः॥प्रहर्षेण समायुक्तः किमतः पात्रमिष्यते ॥१५॥प्रगृह्य हस्ते संभ्रान्तो भृङ्गारं कनकोद्भवम्॥बलिरुवाच॥विप्रेन्द्र प्राङ्मुखस्तिष्ठ स्थितोऽस्मि कमलेक्षण ॥१६॥प्रतीच्छ देहि किं भूमिं का ( किं) मात्रा भोः पदत्रयम्॥दत्तं च पातय जलं नैव मिथ्या भवेद्गुरुः ॥१७॥शुक्र उवाच॥भो न देयं कुतो दैत्य विज्ञातोऽयं मया ध्रुवम्॥कोऽयं विष्णुरहो प्रीतिर्वञ्चितस्त्वं न वञ्चितः ॥१८॥बलिरुवाच॥कथं स नाथोऽयं विष्णुर्यज्ञे स्वयमुपस्थितः॥दास्यामि देवदेवाय यद्यदिच्छत्ययं विभुः ॥१९॥को वान्यः पात्रभूतोऽस्माद्विष्णोः परतरो भवेत्॥एवमुक्त्वा बलिः शीघ्रं पातयामास वै जलम् ॥२०॥वामन उवाच॥पदानि त्रीणि दैत्येन्द्र पर्याप्तानि ममानघ॥यन्मया पूर्वमुक्तं हि तत्तथा न तदन्यथा ॥२१॥वैशम्पायन उवाच.॥इत्येतद्वचनं श्रुत्वा वामनस्य महौजसः॥कृष्णाजिनोत्तरीयं स कृत्वा वैरोच- निस्तदा ॥२२॥एवमस्त्विति दैत्येशो वाक्यमुक्त्वारिसूदनः॥ततो वारिसमापूर्णं भृङ्गारं स परामृशत् ॥२३॥वामनो ह्यसु रेन्द्रस्य चिकीर्षुः कदनं महत्॥क्षिप्रं प्रसारयामास दैत्यक्षयकरं करम् ॥२४॥प्राङ्मुखश्चापि देत्येशस्तस्मै सुमनसा जलम्॥दातुकामः करे यावत्तावत्तं प्रत्यषेधयत् ॥२५॥तस्य तद्रूपमालोक्य ह्यचिन्त्यं च महात्मनः॥अभूतपूर्वं च हरेर्जिहीर्षोः श्रियमासुरीम् ॥२६॥इङ्गितज्ञोऽग्रतः स्थित्वा प्रह्रादस्त्वब्रवीद्वचः॥प्रह्लाद उवाच॥मा ददस्व जलं हस्ते बटोर्वामनरूपिणः ॥२७॥स त्वसौ येन ते पूर्वं निहतः प्रपितामहः॥विष्णुरेष महाप्राज्ञस्त्वां वञ्चयितुमा- गतः ॥२८॥बलिरुवाच॥हन्त तस्मै प्रदास्यामि देवायेमं प्रतिग्रहम्॥अनुग्रहकरं देवमीदृशं जगतः प्रभुम् ॥२९॥ब्रह्मणोऽपि गरीयांसं पात्रं लप्स्यामहे वयम्॥अवश्यं चासुरश्रेष्ठ दातव्यं दीक्षितेन वै ॥३०॥इत्युक्त्वासुरसंघानां मध्ये वैरोचनिस्तदा॥देवाय प्रददौ तस्मै पदानि त्रीणि विष्णवे ॥३१॥प्रह्लाद उवाच॥दानवेश्वर मा दास्त्वं विप्रायास्मै प्रतिग्रहम्॥नेमं विप्रशिशुं मन्ये नेदृशो भवति द्विजः ॥३२॥रूपेणानेन दैत्येन्द्र सत्यमेवं ब्रवीमि ते॥नारसिंहमहं मन्ये तमेवं पुनरागतम् ॥३३॥एवमुक्तस्तदा तेन प्रह्लादेनामितौजसा॥प्रह्रादमब्रवीद्वाक्यमिदं निर्भर्त्सयन्निव ॥३४॥बलिरुवाच॥देहीति याचते यो हि प्रत्या- ख्याति च योऽसुर॥उभयोरप्यलक्ष्म्या वे भागस्तं विशते नरम् ॥३५॥प्रतिज्ञाय तु यो विप्रे न ददाति प्रतिग्रहम्॥स याति नरकं पापी मित्रगोत्रसमन्वितः ॥३६॥अलक्ष्मीभयभीतोऽहं ददाम्यस्मै वसुन्धराम्॥प्रतिग्रहीता चाप्यन्यः कश्चिदस्माद्द्विजोऽथ वै ॥३७॥नाधिको विद्यते यस्मात्तद्ददामि वसुंधराम्॥हृदयस्य च मे तुष्टिः परा भवति दानव ॥३८॥दृष्ट्वा वामनरूपेण याचन्तं द्विजपुङ्गवम्॥एष तस्मात्प्रदास्यामि न स्थास्यामि निवारितः ॥३९॥भूयश्च प्राब्रवीदेव वामनं विप्ररूपिणम्॥स्वल्पे स्वल्पमते किं ते पदैस्त्रिभिरनुत्तमम् ॥४०॥कृत्स्नां ददामि ते विप्र पृथिवीं सागरैर्वृताम्॥वामन उवाच॥न पृथ्वीं कामये कृत्स्नां संतुष्टोऽस्मि पदैस्त्रिभिः॥एष एव रुचिष्यो मे वरो दानवसत्तम ॥४१॥वैशम्पायन उवाच॥तथास्त्विति बलिः प्रोच्य स्पर्शयामास दानवः॥पदानि त्रीणि देवाय विष्णवेऽमिततेजसे ॥४२॥तोये तु पतिते हस्ते वामनोऽभूदवामनः॥सर्वदेवमयं रूपं दर्शयामास वै विभुः ॥४३॥भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी॥पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ॥४४॥विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः॥यक्षा नखेषु संभूता लेखाश्चाप्सरसस्तथा ॥४५॥तडिद्वृष्टिः सुविपुला केशाः सूर्यांशवस्तथा॥तारका रोमकूपाणि रोमाणि च महर्षयः ॥४६॥बाहवो विदिशश्चास्य दिशः श्रोत्रे तथैव च॥अश्विनौ श्रवणौ चास्य नासा वायुर्महाबलः ॥४७॥प्रसादश्चन्द्रमाश्चैव मनो धर्मस्तथैव च॥सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ॥४८॥ग्रीवादितिर्महादेवी तालुः सूर्यश्च दीप्तिमान्॥द्वारं स्वर्गस्य नाभिर्वै मित्रस्त्वष्टा च वै भ्रुवौ ॥४९॥मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः॥हदयं भगवान्ब्रह्मा पुंस्त्वं वै विश्वतोमुनिः ॥५०॥पृष्ठेऽस्य वसवो देवा मरुतः पादसंधिषु॥सर्वच्छन्दासि दशना ज्योतींषि विमलाः प्रभाः ॥५१॥ऊरू रुद्रो महादेवो धैर्यं चास्य महार्णवः॥उदरे चास्य गन्धर्वा भुजगाश्च महाबलाः ॥५२॥लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्या च वै कटिः॥ललाटमस्य परमं स्थानं च परमात्मनः ॥५३॥सर्वज्योतींषि यानीह तपः शक्रस्तु देवराट्॥तस्य देवाधिदेवस्य तेजो ह्याहुर्महात्मनः ॥५४॥स्तनौ कक्षौ च वेदाश्च ओष्ठौ चास्य मखाः स्थिताः॥इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ॥५५॥तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महासुराः॥अभ्यसर्पन्त संकुद्धाः पतङ्गा इव पावकम् ॥५६॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे एकसप्ततितमोऽ- ध्यायः॥७१॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP