TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
सप्तदशोऽध्यायः

भविष्यपर्व - सप्तदशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


सप्तदशोऽध्यायः
मैनाकस्य स्थितिः, मेरुपृष्ठे परमात्मतः ब्रह्मणः प्राकट्यं, मेरोः विशालत्वं, ब्रह्मणा सृष्टिः, ब्रह्मस्य एवं ब्रह्मणः स्वरूपस्य वर्णनं, गङ्गायाः प्रादुर्भावः, सोमस्य उत्पत्तिः, धर्मस्य पादाः, योगःसाधना, ऐश्वर्यात् हानिः, वेदानां प्राकट्यं, यज्ञपुरुषस्य वर्णनं, योगवेत्तोः महिमा, चित्तस्य उपलब्ध्यां कारणं, मोक्षसम्बन्धि कर्मकरणस्य विधानं, कर्मफलत्यागात् मुक्तिः

वैशम्पायन उवाच
पृथिव्यां यत् कृतं छिद्रं तपनेन विवर्धता ।
तस्मिन्न्यस्तोऽथ मैनाकः स्वभावविहितोऽचलः ॥१॥
पर्वभिः पर्वतत्वं च लभते नाम संशितम् ।
अचलादचलत्वं च स्वभावान्मेरुरेव सः ॥२॥
तस्य पृष्ठे सुविस्तीर्णे नगस्य सुमहर्द्धिमान् ।
तस्मिंस्तु पुरुषो व्यक्तो वसति ज्योतिसम्भवः ।
विहितश्च स्वभावेन तेनैव परमात्मना ॥३॥
यत्तद् ब्रह्ममयं तेजो निहितं शिरसोऽन्तरे ।
तस्य ज्योतिर्मयं रूपं दान्तं पुरुषविग्रहम् ॥४॥
वदनादभिनिष्क्रान्तं ज्वलन्तमिव तेजसा ।
चतुर्भिर्वदनैर्युक्तं चतुर्भिश्च द्विजोत्तमैः ॥५॥
वक्त्रं व्रह्म समुद्भूतं ब्रह्मा ब्राह्मणपुङ्गवः ।
तदेवं तन्महद्भूतं पुनर्भावत्वमागतम् ॥६॥
उद्धृता पृथिवी देवी पुरस्तात्सलिलाशयात् ।
ब्रह्मत्वं ब्रह्मणः स्थानादलोको लोकतां गतः ॥७॥
पदसंधौ ब्रह्मलोकं शृङ्गं मेरोस्तदाभवत् ।
उच्छ्रितं योजनशतं सहस्रशतमेव च ॥८॥
एवमेव च विस्तारं चतुर्भिर्गुणितं गुणैः ।
अथवा नैव संख्यातुं शक्यं भूतेन केनचित् ।
समाः सहस्रैर्बहुभिरपि दिव्येन तेजसा ॥९॥
चतुर्भिः पार्श्वविस्तारैः शिलाभिरभिसंवृतैः ।
नगस्य यस्य राजेन्द्र विस्तारैः शतयोजनैः ॥१०॥
कोटिकोटीशतगुणैर्गुणितं ब्रह्मवादिभिः ।
योगयुक्तैः सदा सिद्धैर्नित्यं ब्रह्मपरायणैः ॥११॥
मरुद्भिः सह देवेन्द्रै रुद्रैर्वसुभिरेव च ।
आदित्यैर्विश्वसहितै ररक्ष वसुधाधिपान् ॥१२॥
ररक्ष पृथिवीं चैव भगवान् विष्णुना सह ।
विवस्वद्वरुणाभ्यां च संघातं गमितं नृप ॥१३॥
तेन ब्राह्मेण वपुषा ब्रह्मप्राप्तेन भारत ।
यत्तद् विष्णुमयं तेजः सर्वत्र समतां गतम् ॥१४॥
यत्तद् ब्रह्मेति वै प्रोक्तं ब्राह्मणैर्वेदपारगैः ।
नियमैर्बहुभिः प्राप्तैः सत्यव्रतपरायणैः ॥१५॥
एवमेते त्रयो लोका ब्राह्मेऽहनि समाहिताः ।
अहनि ब्रह्म चाव्यक्तं व्यक्तं प्राणे प्रतिष्ठितम् ॥१६॥
ब्रह्मणो नियतं कर्म प्रभावेण प्रचोदितम् ।
प्रवर्तमानं भावेन शश्वदच्छलवादिनाम् ॥१७॥
एतद्धितमिति प्रोक्तं ब्राह्मणैर्वेदपारगैः ।
यदेकं ब्रह्मणः पादं दिष्टत्वं गमितं पदम् ॥१८॥
बहुत्वाद् विप्रभावानां विश्वशब्दः प्रयुज्यते ।
ब्राह्मणैर्ब्रह्म भूतात्मा सत्यव्रतपरायणैः ॥१९॥
विश्वरूपं मनोरूपं बुद्धिरूपं च मानयन् ।
एवं द्वन्द्वं स भगवान् प्रथमं मिथुनं सृजत् ॥२०॥
स एव भगवान् विश्वो देव्या सह सनातनः ।
विधाय विपुलान्भोगान्ब्रह्मा चरति सानुगः ॥२१॥
स एष भगवान् ब्रह्मा नित्यं ब्रह्मविदां वरः ।
निर्वाणपदगन्तॄणामकिंचनपथैषिणाम् ॥२२॥
सोमात्सोमः समुत्पन्नो धारासलिलविग्रहात् ।
ययाभिषिक्तो भूतानामाधिपत्ये महेश्वरः ॥२३॥
अभिषिच्य च भूतेशं कृत्वा कर्म स्वभावतः ।
नदति स्म तदा नादं तेन सा ह्युच्यते नदी ॥२४॥
सा ब्रह्मलोकं सम्भाव्य अभिभूय सहस्रधा ।
गां गता गगनाद् देवी सप्तधा प्रससार च ॥२५॥
सहस्रधा च राजेन्द्र बहुधा च पुनः पुनः ।
इमं लोकममुं चैव भावयन् क्षरसम्भवम् ॥२६॥
ततो भूतानि रोहन्ति महाभूतफलानि च ।
ततः सर्वे क्रियारम्भाः प्रवर्तन्ते मनीषिणाम् ॥२७॥
चतुर्भिर्वदनैस्तस्य मुखपद्माद् विनिःसृता ।
तदाक्षरमयी सिद्धिर्दिशत्वं समुपागता ॥२८॥
तस्य ज्ञानमयं पुण्यं चतुष्पादं सनातनम् ।
पतित्वेनाभवद् देवो ब्रह्मा चात्र पितामहः ॥२९॥
पादा धर्मस्य चत्वारो यैरिदं धार्यते जगत् ।
ब्रह्मचर्येण व्यक्तेन गृहस्थेन च पावने ॥३०॥
गुरुभावेन वाक्येन गुह्यगामिनगामिना ।
इत्येते धर्मपादाः स्युः स्वर्गहेतोः प्रचोदिताः ॥३१॥
न्यायाद् धर्मेण गुह्येन सोमो वर्धति मण्डले ।
ब्रह्मणो ब्रह्मचरणाद् वेदा वर्तन्ति शाश्वताः ॥३२॥
गृहस्थामभि वाक्येन तृप्यन्ति पितरस्तथा ।
ऋषयोऽपि च धर्मेण नगस्य शिरसि स्थिताः ॥३३॥
नगस्य तस्य सम्पश्य मेरोः शिखरमुत्तमम् ।
पद्भ्यां सम्पीड्य वृषणावृषिभिस्तैर्विचार्यते ॥३४॥
ग्रीवां निगृह्य पृष्ठं च विनाम्य प्रहसन्निव ।
नाभिदेशे करौ न्यस्य सर्वशोऽङ्गानि संक्षिपन् ॥३५॥
मूर्ध्नि ब्रह्म समुत्क्षिप्य मनसापि पितामहः ।
असृजन्मनसा विष्णुं योगाद् योगेश्वरस्य च ॥३६॥
व्यतिरिक्तेन्द्रियो विष्णुर्बिम्बाद्बिम्बमिवोद्धृतः ।
तेजोमूर्तिधरो देवो नभसीन्दुरिवोदितः ॥३७॥
रराज ब्रह्मयोगेन सहस्रांशुरिवापरः ।
विराजन्नभसो मध्ये प्रभाभिरतुलं प्रभुः ॥३८॥
नोपलभ्यति मूढात्मा प्रत्यक्षं ब्रह्म शाश्वतम् ।
ललाटमध्ये तिष्ठन्तं द्विधाभूतं क्रियां प्रतिं ॥३९॥
ज्योतिश्चक्षुषि सम्बद्धं बिम्बं भास्करसोमयोः ।
बुद्ध्या पूर्वं तु पश्यन्ति अध्यात्मविषये रताः ॥४०
ब्राह्मणा वेदविद्वांसः सत्यव्रतपरायणाः ।
नेतरे जातु पश्यन्ति अध्यात्मं नावबुध्यते ॥४१॥
हिंसायोगैरयोगात्मा सर्वप्राणचरैर्नृप ।
भूतयो भुवि भूतेशो मोहप्राप्तेन चेतसा ॥४२॥
कर्मभिः कुत्सितैरन्यैः सर्वप्राणिवधैषिणाम् ।
नराणां योगमाधाय स्वेषु मात्रेषु भारत ॥४३॥
समाहितमना ब्रह्मन् मोक्षप्राप्तेन हेतुना ।
चन्द्रमण्डलसंस्थानाज्ज्योतिश्चान्द्रं महत् तदा ॥४४॥
प्रविश्य हृदयं क्षिप्रं गायत्र्या नयनान्तरे ।
गर्भस्य सम्भवो यश्च चतुर्धा पुरुषात्मकः ॥४५॥
ब्रह्मतेजोमयोऽव्यक्तः शाश्वतोऽथ धुवोऽव्ययः ।
न चेन्द्रियगुणैर्युक्तो युक्तस्तेजोगुणेन च ॥४६॥
चन्द्रांशुविमलप्रख्यो भ्राजिष्णुर्वर्णसंस्थितः ।
नेत्राभ्यां जनयद् देवो ऋग्वेदं यजुषा सह ॥४७॥
सामवेदं च जिह्वाग्रादथर्वाणं च मूर्धतः ।
जातमात्रास्तु ते वेदाः क्षेत्रं विन्दन्ति तत्त्वतः ॥४८॥
तेन वेदत्वमापन्ना यस्माद् विन्दन्ति तत्पदम् ।
ते सृजन्ति तदा वेदा ब्रह्म पूर्वं सनातनम् ॥४९॥
पुरुषं दिव्यरूपाभं स्वैः स्वैर्भावैर्मनोभवैः ।
अथर्वणस्तु यो योगः शीर्षं यज्ञस्य तत् स्मृतम् ॥५०॥
ग्रीवाबाह्वन्तरं चैव ऋग्भागः स भवेत् ततः ।
हृदयं चैव पार्श्वं च सामभागस्तु निर्मितः ॥५१॥
बस्तिशीर्षं कटीदेशं जङ्घोरुचरणैः सह ।
एवमेष यजुर्भागः संघातो यज्ञकल्पितः ।
पुरुषो दिव्यरूपाभः सम्भूतो ह्यमरात्पदात् ॥५२॥
स हि वेदमयो यज्ञः सर्वभूतसुखावहः ।
उभयोर्लोकयोस्तात हिंसावर्ज्यः सनातनः ॥५३॥
योगारम्भं कर्मसाध्यं ब्रह्मचर्यं सनातनम् ।
प्रभवः सर्वभूतानां यो विन्दति स वेदवित् ॥५४॥
स सिद्धः प्रोच्यते लोके सिद्धिरेव न संशयः ।
निर्मुक्तैः सर्वकर्मभ्यो मुनिभिर्वेदपारगैः ॥५५॥
वैष्णवं यज्ञमित्येवं ब्रुवते वेदपारगाः ।
ब्राह्मणा नियमश्रान्ता वेदोपनिषदे पदे ॥५६॥
जनमेजय उवाच
चेतसस्तूपलम्भे हि मनोग्राह्यस्य कामतः ।
कारणं श्रोतुमिच्छामि यथा त्वं मन्यसे मुने ॥५७॥
वैशम्पायन उवाच
न ह्यस्य कारणं किंचिद् बाह्यं भवति भारत ।
अन्तर्गतं कारणं तु शारीरं मानसं नृप ॥५८॥
येन वेद्यं विदुर्मर्त्या ब्राह्मणाः संशितव्रताः ।
अवेद्यमपि वेद्यं च शक्यं वेत्तुं न कर्मणा ॥५९॥
ब्राह्मणेन विनीतेन सदा ब्रह्मनिषेविणा ।
सदा विदिततत्त्वेन सिद्धिहेतोर्महीपते ॥६०॥
सदा चैव शुचिर्भूत्वा नियतो ब्रह्मकर्मणा ।
उपतिष्ठेत स गुरुं बद्धाञ्जलिपुटो द्विजः ॥६१॥
सायं प्रातश्च तत्त्वज्ञो मोक्षकर्माणि कारयेत् ।
विनीतो ब्रह्मभावेन समाहितमतिर्मुनिः ॥६२॥
सम्प्रपद्येत मनसा वैष्णवं पदमुत्तमम् ।
ध्यायन्नेव प्रसीदेत समाहितमतिर्द्विजः ॥६३॥
गच्छते परमं ब्रह्म निर्विकारेण चेतसा ।
अपुनर्भवभावज्ञो निर्ममो भावबन्धनात् ॥६४॥
तदेवाक्षरमित्याहुर्यत् तद् ब्रह्म सनातनम् ।
तर्हि तत्कर्मयोगेन विद्यायोगेन दर्शितम् ॥६५॥
ब्राह्मणानां विनीतानां वैष्णवे पदसंचये ।
सर्वद्रव्यातिरिक्तानां कामयोगविगर्हिणाम् ॥६६॥
अपुनर्भाविनां लोकाः कर्मयोगप्रतिष्ठिताः ।
अनादानेन मनसा राजन् कर्मणि कर्मणि ॥६७॥
आदानाद् बध्यते जन्तुर्निरादानात् प्रमुच्यते ।
ब्राह्मणेभ्यः क्रियावाप्तिर्जन्तोः पूर्वाज्जनाधिप ॥६८॥
मुक्तश्चेन्द्रियबन्धेन प्राप्तश्च परमं पदम् ।
न भूयः पुनरायाति मानुषं देहविग्रहम् ॥६९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सप्तदशोऽध्यायः ॥१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:23:15.4230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

reformist

  • सा. सुधारणावादी 
  • सा. सुधारणावादी 
  • सा. सुधारणावादी 
  • सा. परिवर्तनवादी 
More meanings
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site