TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
पञ्चविंशत्यधिकशततमोऽध्यायः

भविष्यपर्व - पञ्चविंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


पञ्चविंशत्यधिकशततमोऽध्यायः
सात्यकिडिम्भकयोः युद्धम्

वैशम्पायन उवाच
युद्धं चक्रतुरत्यर्थं ततो डिम्भकसात्यकी ।
तावुभौ बलिनौ वीरौ विख्यातौ क्षत्रियेषु च ॥१॥
कृतश्रमौ महायुद्धे सततं वृद्धसेविनौ ।
सात्यकिर्दशभिर्वीरो डिम्भकं वेदपारगम् ॥२॥
अविध्यन्निशितैर्बाणैः स्तने वक्त्रे तथोरसि ।
स तेन विद्धो बलिना डिम्भकः क्षत्रियोत्तमः ॥३॥
नाराचैः पञ्चसाहस्रैर्विव्याध युधि गर्वितः ।
तानन्तरे वृष्णिवीरो निषिद्धन् निनदन् ब्रुवन् ॥४॥
अथ क्रुद्धो नृपवरो विद्धः सप्तभिराशुगैः ।
पुनः शतसहस्रेण प्रत्यविध्यत सात्यकिम् ॥५॥
सात्यकिस्त्वथ विक्रान्तो धनुश्चिच्छेद तस्य तत् ।
अर्धचन्द्रेण तीक्ष्णेन डिम्भकस्य स यादवः ॥६॥
आजघ्ने डिम्भको वीरश्चापमादाय चापरम् ।
क्षुरप्रेणाथ रौद्रेण तैलधौतेन विक्रमी ॥७॥
स तेन विद्धो बाणेन वमञ्छोणितकं नृप ।
अतीव शुशुभे राजन् वसन्ते किंशुको यथा ॥८॥
धनुश्चिच्छेद भूयस्तु गृहीतं यत्पुनर्महत् ।
ततोऽन्यद् धनुरादाय डिम्भको यादवेश्वरम् ॥९॥
जघान निशितैर्बाणैः सर्वक्षत्रस्य पश्यतः ।
स धनुः पुनरत्युग्रं चिच्छेद युधि सात्यकिः ॥१०॥
शरेण तीक्ष्णपुङ्खेन डिम्भकस्य दुरात्मनः ।
ततोऽन्यद् धनुरादाय सत्वरं स नृपोत्तमः ॥११॥
धनुषा तेन राजेन्द्र सात्यकिं विव्यधे पुनः ।
एवं धनूंषि राजेन्द्र शतं पञ्च च पञ्च च ॥१२॥
छित्त्वा ननाद शैनेयः सर्वक्षत्रस्य पश्यतः ।
धनुषी तौ परित्यज्य वीरौ डिम्भकसात्यकी ॥१३॥
खड्गौ प्रगृह्य चात्युग्रौ युद्धाय समुपस्थितौ ।
तौ हि खङ्गविदां श्रेष्ठौ वीरौ डिम्भकसात्यकी ॥१४॥
दौःशासनिर्महाभागः सौमदत्तिस्तथैव च ।
अभिमन्युश्च विक्रान्तो नकुलश्च तथैव च ॥१५॥
एते खङ्गविदां श्रेष्ठाः कीर्तिता युधि सत्तमाः ।
एतेष्वेतौ नृपश्रेष्ठौ षट्सु वै नृपसत्तम ॥१६॥
तावेतावसिना युद्धं चक्रतुर्युद्धलालसौ ।
भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बाहुनिःसृतम् ॥१७॥
आकरं विकरं भिन्नं निर्मर्यादममानुषम् ।
संकोचितं कुलचितं सव्यजानु विजानु च ॥१८॥
आहिकं चित्रकं क्षिप्तं कुसुम्बं लम्बनं धृतम् ।
सर्वबाहु विनिर्बाहु सव्येतरमथोत्तरम् ॥१९॥
त्रिबाहु तुङ्गबाहुत्वं सव्योन्नतमुदासि च ।
पट्टिकं मौष्टिकं चैव यौधिकं प्रथितं तथा ॥२०॥
इति प्रकारान् द्वात्रिंशच्चक्रतुः खड्गयोधिनौ ।
पुनः पुनः प्रहरन्तौ न च श्रममुपेयतुः ॥२१॥
पुष्करस्थौ महाराज युद्धाय कृतनिश्चयौ ।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥२२॥
तुष्टुवुस्तौ महाराज जये कृतपरिश्रमौ ।
अहो वीर्यमहो धैर्यमनयोर्बाहुशालिनोः ॥२३॥
एतावेव रणे शक्तौ खड्गे धनुषि पारगौ ।
एकः शिष्यो गिरीशस्य द्रोणस्यान्यो हि धीमतः ॥२४॥
अर्जुनः सात्यकिश्चैव वासुदेवो जगत्पतिः ।
त्रय एते महावीराः प्रथिताः सङ्गरे सदा ॥२५॥
डिम्भकः शक्तिभृच्छर्वस्त्रय एते महारथाः ।
प्रसिद्धाः सर्व एवैते वीर्येषु च बलेषु च ॥२६॥
इति ते देवगन्धर्वाः सिद्धा यक्षा महोरगाः ।
दिविस्थिताः समं ब्रूयुर्युद्धदर्शनलालसाः ॥२७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिडिम्भकयुद्धे पञ्चविंशत्यधिकशततमोऽध्यायः ॥१२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T15:10:26.6700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

job title

  • सेवाकार्य अभिधान 
  • कार्य नाम 
RANDOM WORD

Did you know?

सौभाग्यवती स्त्रियांनी कुंकू का लावावे ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.