TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
द्व्यधिकशततमोऽध्यायः

भविष्यपर्व - द्व्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


द्व्यधिकशततमोऽध्यायः
एकलव्यस्य द्वीपान्तरगमनं, भगवता श्रीकृष्णेन यादवानां स्वयात्रायाः संक्षिप्त वृत्तान्तकथनं, अन्तःपुरे रुक्मिणीं सत्यभामां च मिलित्वा ताभ्यां संतोषप्रदानम्

वैशम्पायन उवाच
निषादेशं ततो रामः शक्त्या वीर्यवतां वरः ।
आजघान स्तनद्वन्द्वे सिंहनादं व्यनीनदत् ॥१॥
ततः क्रुद्धो निषादेशो रामं मत्तं महाबलम् ।
गदया लोकविख्यातो जघान स्तनवक्षसि ॥२॥
आहतः स तु तेनाशु बलभद्रो महाबलः ।
उभाभ्यां चैव रामस्तु कराभ्यां वृष्णिपुङ्गवः ॥३॥
गदां गृह्य महाघोरामायान्तीं प्राणहारिणीम् ।
दुद्रावाथ निषादेशः समुद्रं मकरालयम् ॥४॥
धावत्येवं तदा राज्ञि एकलव्ये निषादपे ।
धावत्येवं च रामोऽपि यत्र यातो निषादपः ॥५॥
सागरं स प्रविश्याशु गत्वा योजनपञ्चकम् ।
भीत एव तदा राजन्नेकलव्यो निषादपः ॥६॥
कंचिद् द्वीपान्तरं राजन् प्रविश्य न्यवसत् तदा ।
इत्थं रामो निषादेशं जिगाय यदुनन्दनः ॥७॥
तां सभां मणिरत्नाढ्यां प्रविवेश हलायुधः ।
सात्यकिर्युद्धसंसक्तस्तां सभां प्रविवेश ह ॥८॥
अन्ये च यादवा राजन् यथायोगमुपस्थिताः ।
आसीनेषु च सर्वेषु वृष्णिवीरेषु सर्वतः ॥९॥
अभिवाद्य यथायोगं वृष्णीन् सर्वांश्च केशवः ।
उवाच वचनं काले भगवान् देवकीसुतः ॥१०॥
दृष्टं कैलासशिखरं शंकरो नीललोहितः ।
स तु मह्यं यदुवराः प्रीतिमांश्च ददौ वरम् ॥११॥
तत्र देवाः समायाता मुनयश्च तपोधनाः ।
दृष्ट्वा मां शंकरश्चैव प्रीतः स्तुत्वा समाययौ ॥१२॥
अत्यद्भुतं मया दृष्टं रात्रौ यादवसत्तमाः ।
पिशाचौ द्वौ महाघोरौ वदन्तौ मामिकां कथाम् ॥१३॥
मृगयां चक्रतुस्तौ तु चिन्तयन्तौ तु मां सदा ।
दृष्ट्वा मां तौ तु राजेन्द्राः प्रीतिमन्तौ तपस्विनौ ॥१४॥
भक्तिनम्रौ महात्मानौ प्रणामं चक्रतुस्तदा ।
ततोऽहं सर्वथा प्रीतस्तौ नीतौ स्वर्गमुत्तमम् ॥१५॥
तोषयित्वा महादेवं मया चाद्य समागतम् ।
वैशम्पायन उवाच
ततस्ते वृष्णयः सर्वे देवदेवं शशंसिरे ॥१६॥
सर्वथा कृतकृत्यास्ते वृष्षयः केशवाश्रयाः ।
यादवाः सर्व एवैते स्वं स्वं जग्मुर्यथालयम् ॥१७॥
अभ्यन्तरे जगन्नाथः प्रविश्य हरिरीश्वरः ।
रुक्मिणीसत्यभामाभ्यामाचचक्षे यथाभवत् ॥१८॥
ते प्रीते प्रीतियुक्तेन केशवेन समन्विते ।
एतत् ते सर्वमाख्यातं केशवस्य विचेष्टितम् ॥१९॥
शशास पृथिवीं कृत्स्नां दुष्टान् हत्वा महाबलान् ।
नरकं घोरकर्माणं पौण्ड्रकं नृपसत्तमम् ॥२०॥
हयग्रीवं निशुम्भं च तथा सुन्दोपसुन्दकौ
ररक्ष विप्रान् देवेशो मुनीन् मुनिवरार्चितः ॥२१॥
विप्रेभ्यश्च ददौ वित्तं गाश्च दत्त्वा स केशवः ।
अग्निहोत्रं प्रयुञ्जानो ब्राह्मणांश्च सुतपर्यन् ॥२२॥
मुनींश्च ब्रह्मचर्येण देवान् यज्ञैरनेकधा ।
स्वधया च पितॄन् सर्वान् प्रीणयन्नेव सर्वदा ॥२३॥
तस्मिञ्छासति देवेशे राज्यं निष्कण्टकं प्रभो ।
सुखमेव प्रजाः सर्वा जीवन्ति ब्राह्मणादयः ॥२४॥
इति श्रोमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकवधसमाप्तौ द्व्यधिकशततमोऽध्यायः ॥१०२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T14:51:02.5430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dissipation

  • न. अपक्षयन 
  • न. (act of dissipating or the state of being dissipated) अपाकरण 
  • अपचयन, ऱ्हास, उत्सर्जन, विकरण 
  • न. अपाकरण 
More meanings
RANDOM WORD

Did you know?

पूजा उपचार किती व कोणते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.