TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
अष्टाशीतितमोऽध्यायः

भविष्यपर्व - अष्टाशीतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


अष्टाशीतितमोऽध्यायः
भगवता श्रीशिवेन श्रीविष्णोः स्तुतिः

वैशम्पायन उवाच
ततो वृषध्वजो देवः शूली साक्षादुमापतिः ।
करं करेण संस्पृश्य विष्णोश्चक्रधरस्य ह ॥१॥
प्रोवाच भगवान् रुद्रः केशवं गरुडध्वजम् ।
शृण्वतां सर्वदेवानां मुनीनां भावितात्मनाम् ॥२॥
किमिदं देवदेवेश चक्रपाणे जनार्दन ।
तपश्चर्या किमर्थं ते प्रार्थना तव का विभो ॥३॥
स्वयं विष्णुर्भवान्नित्यस्तपस्त्वं तपसां हरे ।
पुत्रार्थं यदि ते देव तपश्चर्या जनार्दन ॥४॥
पुत्रो दत्तो मया देव पूर्वमेव जगत्पते ।
शृणु तत्रापि भगवन् कारणं कारणात्मक ॥५॥
तपश्चर्तुं प्रवृत्तोऽहं कुतश्चित् कारणाद्धरे ।
वर्षायुतं महाघोरं पुरा कृतयुगे तदा ॥६॥
भवानी तत्र मे देव परिचर्तुं तदाभवत् ।
पित्रा नियुक्ता देवेश उमैषा वरवर्णिनी ॥७॥
भीत इन्द्रस्तदा देव मारं मां प्रैषयत्तदा ।
मधुना सह संयुक्तो मारो मामागतस्तदा ॥८॥
लक्ष्यं मामकरोत् तत्र बाणस्य प्रेषितस्य ह ।
एष मां सेवते तत्र दानात् पुष्पादिनां हरे ॥९॥
ततः क्रुद्धोऽहमभवं दृष्ट्वा मारं तथाविधम् ।
क्रुद्ध्यतो मम देवेश नेत्रादग्निः पपात ह ॥१०॥
सोऽयमग्निस्तदा मारं भस्मसात्कृतवान् हरे ।
अचिन्तयं तदा विष्णो शक्रस्यैतच्चिकीर्षितम् ॥११॥
ततः प्रभृति देवेश दया तं प्रति वर्तते ।
ब्रह्मणा च नियुक्तोऽस्मि प्रीतस्तत्र जनार्दन ॥१२॥
नियुक्तः पुत्ररूपेण स ते देव जगत्पते ।
ज्येष्ठस्तव सुतो देव प्रद्युम्नेत्यभिविश्रुतः ॥१३॥
स्मरं तं विद्धि देवेश नात्र कार्या विचारणा ।
इत्युक्त्वा पुनराहेदं याथात्म्यं दर्शयन्निव ॥१४॥
मुनीनां श्रोतुकामानां याथात्म्यं तत्र सत्तमः ।
अञ्जलिं सम्पुटं कृत्वा विष्णुमुद्दिश्य शंकरः ॥१५॥
उमया सार्धमीशानो याथात्म्यं वक्तुमैहत ।
हरे कुर्वति तत्रैवमञ्जलिं कुरुसत्तम ॥१६॥
मुनयो देवगन्धर्वाः सिद्धाश्च सह किन्नराः ।
अञ्जलिं चक्रिरे विष्णौ देवदेवेश्वरे हरौ ॥१७॥
महेश्वर उवाच
यत्तत्कारणमाहुस्तत्सांख्याः प्रकृतिसंज्ञकम् ।
ततो महान् समुत्पन्नः प्रकृतिर्यस्य कारणम् ॥१८॥
त्रिधा भूतं जगद्योनिं प्रधानं कारणात्मकम् ।
सत्त्वं रजस्तमो विष्णो जगदण्डं जनार्दन ॥१९॥
तस्य कारणमाहुस्त्वां सांख्यप्रकृतिसंज्ञकम् ।
तद्रूपेण भवान् विष्णो परिणम्याधितिष्ठति ॥२०॥
तस्मात्तु महतो घोरादहंकारो महानभूत् ।
स त्वमादौ जगन्नाथ परिणामस्तथा हि सः ॥२१॥
अहंकारात् प्रभो देव करणानि महान्ति च ।
तन्मात्राणि तथा पञ्च भूतानि प्रभवन्त्युत ॥२२॥
तानि त्वामाहुरीशानं भूतानीह जगत्पते ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥२३॥
चक्षुर्घ्राणं तथा स्पर्शो रसनं श्रोत्रमेव च ।
मनः षष्ठं तथा देव प्रेरकं तत्र तत्र ह ॥२४॥
कर्मेन्द्रियाणि चान्यानि वागादीनि जनार्दन ।
त्वमेव तानि सर्वाणि करोषि नियतात्मवान् ॥२५॥
स्वेषु स्वेषु जगन्नाथ विषयेषु तथा हरे ।
निवेशयसि देवेश योग्यामिन्द्रियपद्धतिम् ॥२६॥
यदा त्वं रजसा युक्तस्तदा भूतानि सृष्टवान् ।
यदाच सत्त्वयुक्तोऽसि तदा पाता जगत्त्रयम् ॥२७॥
यदा त्वं तमसाऽऽकृष्टस्तदा संहरसे जगत् ।
त्रिभिरेव गुणैर्युक्तः सृष्टिरक्षाविनाशने ॥२८॥
वर्तसे त्रिविधां भूतिमादाय नियतात्मवान् ।
इन्द्रियाणीन्द्रियार्थेषु नियोजयसि माधव ॥२९॥
प्राणिनामुपभोगार्थमन्तः स्थित्वा जगद्गुरो ।
तस्मात् सर्वत्र भूतेषु वर्तते सर्वभोगवान् ॥३०॥
ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो ।
संहारे रुद्रनामासि त्रिधामा त्वमसि प्रभो ॥३१॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
एताः प्रकृतयो देव भिन्नाः सर्वत्र ते हरे ॥३२॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रधारः साहस्री सहस्रात्मा दिवस्पतिः ॥३३॥
भूमिं सर्वामिमां प्राप्य सप्तद्वीपां ससागराम् ।
अणुः सर्वत्रगो भूत्वा अत्यतिष्ठद् दशाङ्गुलम् ॥३४॥
त्वमेवेदं जगत् सर्वं यद् भूतं यद् भविष्यति ।
त्वत्तो विराट् प्रादुरभूत् सम्राट् चैव जनार्दन ॥३५॥
तव वक्त्राज्जगन्नाथ ब्राह्मणो लोकरक्षकः ।
प्रादुरासीत्पुराणात्मन् षट्कर्मनिरतः सदा ॥३६॥
राजन्यस्तु तथा बाह्वोरासीत् संरक्षणे रतः ।
ऊर्वोर्वैश्यस्तथा विष्णो पादाच्छूद्र उदाहृतः ॥३७॥
एवं वर्णा जगन्नाथ तव देहाज्जनार्दन ।
मनसस्तव देवेश चन्द्रमाः समपद्यत ॥३८॥
सुखकृत् सर्वभूतानां शीतांशुरमितप्रभः ।
अक्ष्णोः सूर्यः समुत्पन्नः सर्वप्राणिविलोचनः ॥३९॥
यस्य भासा जगत् सर्वं भासते भानुमानसौ ।
मुखादिन्द्रश्च अग्निश्च प्राणाद् वायुरजायत ॥४०॥
नाभेरभूदन्तरिक्षं तव देव जनार्दन ।
द्यौरासीत् तु महाघोरा शिरसस्तव गोपते ॥४१॥
पद्भ्यां भूमिः समुत्पन्ना दिशः श्रोत्राज्जगत्पते ।
एव सृष्ट्वा जगत्सर्वं व्याप्य सर्वं व्यवस्थितः ॥४२॥
व्याप्य सर्वानिमाँल्लोकान् स्थितः सर्वत्र केशव ।
ततश्च विष्णुनामासि धातोर्व्याप्तेश्च दर्शनात् ॥४३॥
नारा आपः समाख्यातास्तासामयनमादितः ।
यतस्त्वं भूतभव्येश तन्नारायणशब्दितः ॥४४॥
हरसि प्राणिनो देव ततो हरिरिति स्मृतः ।
शंकरोऽसि सदा देव ततः शंकरतां गतः ॥४५॥
बृहत्त्वाद् बृंहणत्वाच्च तस्माद् ब्रह्मेति शब्दितः ।
मधुरिन्द्रियनामेति ततो मधुनिषूदनः ॥४६॥
हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् ।
हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव ॥४७॥
क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गसम्भूतौ तस्मात्केशवनामवान् ॥४८॥
मा विद्या च हरे प्रोक्ता तस्या ईशो यतो भवान् ।
तस्मान्माधवनामासि धवः स्वामीतिब्दितः ॥४९॥
गौरेषा तु यतो वाणी तां च वेद यतो भवान् ।
गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान् ॥५०॥
त्रिरित्येव त्रयो वेदाः कीर्तिता मुनिसत्तमैः ।
क्रमते तांस्तथा सर्वांस्त्रिविक्रम इति श्रुतः ॥५१॥
अणुर्वामननामासि यतस्त्वं वामनाख्यया ।
मननान्मुनिरेवासि यमनाद् यतिरुच्यसे ॥५२॥
तपश्चरसि यस्मात्त्वं तपस्वीति च शब्दितः ।
वसन्ति त्वयि भूतानि भूतावासस्ततो हरे ॥५३॥
ईशस्त्वं सर्वभूतानामीश्वरोऽसि ततो हरे ।
प्रणवः सर्ववेदानां गायत्री छन्दसां प्रभो ॥५४॥
अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः ।
रुद्राणामहमेवासि वसूनां पावको भवान् ॥५५॥
अश्वत्थो वृक्षजातीनां ब्रह्मा लोकगुरुर्भवान् ।
मेरुस्त्वं पर्वतेन्द्राणां देवर्षीणां च नारदः ॥५६॥
दानवानां भवान् दैत्यः प्रह्रादो भक्तवत्सलः ।
सर्पाणामेव सर्वेषां भवान् वासुकिसंज्ञितः ॥५७॥
गुह्यकानां च सर्वेषां भवान् धनद एव च ।
वरुणो यादसां राजा गङ्गा त्रिपथभाग् भवान् ॥५८॥
आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् ।
त्वत्तः समभवद् विश्वं त्वयि सर्वं प्रलीयते ॥५९॥
अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन ।
आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ॥६०॥
नामानि तव गोविन्द यानि लोके महान्ति च ।
तान्येव मम नामानि नात्र कार्या विचारणा ॥६१॥
त्वदुपासा जगन्नाथ सैवास्ति मम गोपते ।
यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः ॥६२॥
त्वद्विस्तारो यतो देव अहं भूतपतिस्ततः ।
न तदस्ति विना देव यत् ते विरहितं हरे ॥६३॥
यदासीद् वर्तते यच्च यच्च भावि जगत्पते ।
सर्वे त्वमेव देवेश विना किंचित्त्वया न हि ॥६४॥
स्तुवन्ति देवाः सततं भवन्तं स्वैर्गुणैः प्रभो ।
ऋक्च त्वं यजुरेवासि सामासि सततं प्रभो ॥६५॥
किमुच्यते मया देव सर्वं त्वं भूतभावन ।
नमः सर्वात्मना देव विष्णो माधव केशव ॥६६॥
नमस्करोमि सर्वात्मन् नमस्तेऽस्तु सदा हरे ।
नमः पुष्करनाभाय वन्दे त्वामहमीश्बर ॥६७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां शिवकृतविष्णुस्तुतौ अष्टाशीतितमोऽध्यायः ॥८८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T14:33:05.3070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fork

  • पु. (लाकडाचा) फाटा 
  • पु. बेफाटा 
  • स्त्री. दुशाखा 
  • पु. (धातूचा) काटा 
More meanings
RANDOM WORD

Did you know?

नमस्कार कोणी कोणास कसा करावा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.