संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| एकपञ्चाशत्तमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - एकपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकपञ्चाशत्तमोऽध्यायः Translation - भाषांतर अनुह्रादश्च तत्रैव दैत्यः परमदुर्जयः ।हिरण्यकशिपोः पुत्रः प्रययौ युद्धलालसः ॥१॥चतुश्चक्रेण यानेन त्रिनल्वप्रतिमेन तु ।युक्तेनाश्वैर्महावीर्यैः सिंहवक्त्रैरजिह्मगैः ॥२॥भीमगम्भीरनादेन नेमिघोषेण वीर्यवान् ।चालयन् वसुधां सर्वां सशैलवनकाननाम् ॥३॥विनर्दमाना दैत्यौघा अनुह्रादं ययुः शुभाः ।शतं शतसहस्राणां रथानां हेममालिनाम् ॥४परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः ।विविधायुधहस्तास्ते शूलमुद्गरपाणयः ॥५॥सुवर्णजालनिर्मुक्तैर्वज्रैश्च समलंकृताः ।रथैश्चित्रैश्च कवचैः सज्जमाना महासुराः ॥६॥तदा विशालोच्छ्रितशैलरूपेबभौ रथे काञ्चनचित्रिताङ्गे ।दैत्याधिपः सत्त्वबलानुरूपेसमास्थितस्त्वप्रतिमे सुरूपे ॥७॥विरोचनश्च बलवान् वैश्वानरसमद्युतिः ।महता रथवंशेन सर्वास्त्रकुशलः शुचिः ॥८॥व्यूहानां विनियोगज्ञो ज्ञानविज्ञानतत्त्ववित् ।बलेः पितासुरवरः सुराणामिव वासवः ॥९॥सर्वायुधसमोपेतं किङ्किणीजालभूषितम् ।युक्तानां हाजिमुख्यानां सहस्रेणाशुगामिनाम् ॥१०॥रथमारुह्य दैत्येन्द्रो बभौ मेरुरिवापरः ।किङ्किणीजालपर्यन्तं गजेन्द्रध्वजशोभितम् ।संध्याभ्रसमवर्णाभिः पताकाभिरलंकृतम् ॥११प्रवालजाम्बूनदभक्तिचित्रंव्यालम्बिमुक्ताफलभूषितं च ।रथं समारुह्य किरीटमालीययौ स युद्धाय महासुरेन्द्रः ॥१२॥विरोचनानुजश्चैव कुजंभो नाम दानवः ।स्यन्दनैर्बहुसाहस्रैर्मणिकाञ्चनभूषितैः ॥१३वृतो मदबलात् सिक्तैर्देवारिभिररिंदमः ।प्रासपाशगदाहस्तैर्दानवैर्युद्धकाङ्क्षिभिः ॥१४॥स पर्वतनिभाकारो भिन्नाञ्जनचयप्रभः ।महता भ्राजमानेन किरीटेन सुवर्चसा ॥१५॥सर्वरत्नविचित्रेण कवचेन च संवृतः ।महता दीप्तवपुषा रथेनेन्दुरिवांशुमान् ॥१६॥शातकौम्भेन महता तालवृक्षेण केतुना ।रराज रथमध्यस्थो मेरुस्थ इव भास्करः ॥१७॥रणपटुरतिवीर्यसत्त्वबुद्धिःसुरसमराभिमुखः प्रयाति तूर्णम् ।असुरगणसमावृतः कुजम्भ-स्त्रिदशगणैरिव बृत्रहामरेन्द्रः ॥१८॥असिलोमा च तत्रैव दानवः पर्वतायुधः ।दारुणं वपुरास्थाय दारुणो दारुणाननः ॥१९॥रौद्रः शकटचक्राक्षो महाकायो महाबलः ।कृष्णवासा महादंष्ट्रः किरीटी लोहिताननः ॥२०॥वृतो दैत्यसहस्रौघैर्गिरिपादपयोधिभिः ।नानारूपधरैर्दृप्तैर्दैत्यैस्त्रिदशशत्रुभिः ॥२१॥ते शूलहस्ता गगने चरन्तइतस्ततस्तोयदवृन्दतुल्याः ।खं छादयन्तस्तपनीयनिष्कायथोन्नताः प्रावृषि कालमेघाः ॥२२॥दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।देवशत्रुर्महाकायस्ताम्रास्यो निर्नतोदरः ॥२३॥दीप्तजिह्वो हरिश्मश्रुरूर्ध्वरोमा महाहनुः ।नीलाङ्गो लोहितमुखः किरीटी लोहिताम्बरः ॥२४आजानुबाहुर्विकृतः श्वेतदंष्ट्रो विभीषणः ।महामायाधरो भीमो हेमकेयूरभूषणः ॥२५॥महता मणिचित्रेण कवचेन तु संवृतः ।हेममालाधरो रौद्रश्चक्रकेतुरमर्षणः ॥२६॥किंकिणीशतसंघुष्टं तपनीयविभूषितम् ।युक्तं हयसहस्रेण रक्तध्वजपताकिनम् ॥२७रथानीकेन महता युद्धायाभिमुखो ययौ ।दिव्यं स्यन्दनमास्थाय दैत्यानां नन्दिवर्धनः ॥२८॥तपितकनकबिन्दुपिङ्गलाक्षोदितितनयोऽसुरसैन्ययुद्धनेता ।विकसितकमलाभचारुचक्षुःसितदशनः शुशुभे रथासनस्थः ॥२९॥एकचक्रस्तु तत्रैव सूर्यचक्र इवोदितः ।कालचक्रसमो रौद्रश्चक्रायुध इवोद्यतः ॥३०॥सर्वायसमयं दिव्यं रथमास्थाय भासुरम् ।वृतो दैत्यगणैर्दृप्तैः कालायसशिलायुधैः ॥३१॥तस्याशीतिसहस्राणि रथिनां चित्रयोधिनाम् ।सर्वे कालान्तकप्रख्या रुधिराक्षा महाबलाः ।आयसैः काञ्चनैश्चैव संनद्धा वरवर्णिनः ॥३२ ।व्यराजन्तान्तरिक्षस्था नीला इव पयोधराः॥सर्वे कालान्तकप्रख्या धीराः समरदुर्जयाः ॥३३॥सागरोदरगम्भीरा नीलचक्रा दुरासदाः ।नेदुर्यान्तोऽसुरवरा वेलातीता इवार्णवाः ॥३४॥ते भीममायाः सुसमृद्धकायाःकिरीटिनः काञ्चनभूषिताङ्गाः ।ययुस्तदा स्वायुधदीप्तहस्तानभः सपक्षा इव पर्वतेन्द्राः ॥३५॥संदिष्टो बलिपुत्रेण वृत्रभ्राता महासुरः ।वधाय सुरसैन्यस्य संनह्यस्वेति वीर्यवान् ॥३६॥हेममाली महादंष्ट्रः स्रग्वी रुचिरकुण्डलः ।रक्तमाल्याम्बरधरश्चण्डः समरदुर्जयः ॥३७॥सुमहावृत्तनयनः स किरीट धनुर्धरः ।प्रभिन्न इव मातङ्गः शार्दूलसमविक्रमः ॥३८महातालनिभं चापं तथा रुचिरसायकम् ।विस्फारयन् महावेगं वज्रनिष्पेषनिःस्वनम् ॥३९॥रथेन खरयुक्तेन ध्वजेन भुजगेन च ।शुशुभे स्यन्दनस्थः स संध्यागत इवांशुमान् ॥४०॥रथैस्तु बहुसाहस्रैर्हेमपट्टविभूषितैः ।शूलमुद्गरसम्पूर्णैर्जलपूर्णैरिवाम्बुदैः ।स दैत्येन्द्रोऽभिचक्राम तस्मिन्युद्ध उपस्थिते ॥४१॥पवनसमगतिर्विशालवक्षाविकसितपङ्कजचारुगर्भगौरः ।प्रवररथगतो ययौ स तूर्णंत्रिदशगणैरभिलक्षितप्रभावः ॥४२॥सिंहिकातनयश्चैव राहुर्नाम महासुरः ।विकटः पर्वताकारः शतशीर्षा शतोदरः ॥४३॥पीतमाल्याम्बरधरो जाम्बूनदविभूषितः ।स्निग्धवैदूर्यस्रंकाशः पद्मपत्रनिभेक्षणः ॥४४॥सर्वकाञ्चनसंयुक्तं मणिजालपरिष्कृतम् ।पताकाशतसंकीर्णं युक्तं परमवाजिभिः ॥४५॥आरुरोह रथं दिव्यं दैत्यः परमवीर्यवान् ।ननाद च महानादं कम्पयन् वसुधातलम् ॥४६॥मयेन विहितो दिव्यस्तस्य केतुर्हिरण्मयः ।मयूरपक्षसंकाशं कवचं चायसं महत्॥४७॥भीमवेगरवैश्चान्यै रथैर्दिव्यैः सुभासुरैः ।नानाप्रहरणाकीर्णैः सेव्यमानो महाबलः ॥४८॥असुरगणपतिर्गजेन्द्रगामीअतिरभसगतिर्महासुराणाम् ।अरिगणमभितो विभुः प्रयातोगिरिवरमस्तमिवांशुमान् सुदीप्तः॥४९॥विप्रचित्तिस्तु तत्रैव दनोर्वंशविवर्धनः ।कश्यपस्यात्मजः श्रीमान् ब्रह्मणस्तेजसा समः ॥५०॥यष्टा क्रतुसहस्राणां वेदवित् तपसान्वितः ।स्वयम्भुवा दत्तवरो वरदश्च स्वयम्भुवः ।ईशित्वं च महत्त्वं च वशित्वं च महाद्युतेः ॥५१॥ऐश्वर्यगुणसम्पन्नो ब्रह्मेव स्वयमूर्जितः ।सार्धं पुत्रैश्च पौत्रैश्च संनह्यत महाबलः ॥५२॥सर्वे मायाधराः शूराः कृतास्त्रा रणदुर्जयाः ।सर्वे कमलवर्णाभा हेमकूटोच्छ्रयोच्छ्रयाः ॥५३॥सर्वे रजतसंकाशाः कैलासशिखरोपमाः ।मयेन निर्मितास्तेषां सर्वे मायामया रथाः ॥५४॥विचरन्तो व्यराजन्त शारदा इव तोयदाः ।सर्वे हंसध्वजाः श्वेताः श्वेतदण्डसमुच्छ्रयाः॥५५॥श्वेताम्बरधरा दैत्याः श्वेतमाल्यविभूषिताः ।श्वेतातपत्राः सर्वे ते श्वेतकुण्डलमण्डिताः ॥५६॥मुक्ताहारवृतोरस्का भान्ति नाकेश्वरा इव ।महाग्रहनिभाकाराः शत्रूणां लोमहर्षणाः ॥५७॥रक्तचित्राम्बरधराश्चित्राभरणभूषिताः ।त्रैलोक्यविजयं नाम रथमास्थाय वीर्यवान् ।कैलासशिखराकारमष्टनल्वायतान्तरम् ॥५८॥युक्तं वाजिसहस्रेण सितेन सितवर्चसा ।पताकाशतसंछन्नं नानायुद्धविकल्पितम् ॥५९॥हिमांशुकुन्दप्रतिमं विशालंसितातपत्रं दनुजेश्वरस्य ।विभाति तस्योपरि धार्यमाणंश्वेताद्रिमूर्धोपगतः शशाङ्कः ॥६०॥केशी दानवमुख्यस्तु जिह्मस्ताम्राक्षदर्शनः ।नीलमेघचयप्रख्यः कालः पुरुषविग्रहः ॥६१ ।महाग्रहनिभाकारः शत्रूणां लोमहर्षणः ।चित्रमाल्याम्बरधरो रक्ताभरणभूषितः ॥६२॥शताक्षः शतबाहुश्च हरिश्मक्षुर्महाबलः ।शङ्कुकर्णो महानादो वपुषा घोरदर्शनः ॥६३॥युक्तं महिषकैर्दिव्यैर्घण्टाकोटिकृतस्वनम् ।महावारिधराकारमास्थाय रथमुत्तमम् ॥६४॥ध्वजेनोष्ट्रेण महता नीलकेसरवर्चसा ।नानारागविचित्राभिः पताकाभिर्विभूषितम् ॥६५॥द्विपञ्चाशत्सहस्राणि रथानामुग्रवर्चसाम् ।ययुस्तस्यासुरेन्द्रस्य प्रयातस्य सुरान् प्रति॥६६॥भान्ति भिन्नाञ्जननिभाः प्रयातस्य महात्मनः ।दंष्ट्रार्धचन्द्रवदनाः सबलाका इवाम्बुदाः ॥६७॥तत् तस्य वैदूर्यसुवर्णचित्रंविद्युत्प्रभं भास्कररश्मितुल्यम् ।किरीटमाभात्यसुरोत्तमस्यदावाग्निदीप्तं शिखरं यथाद्रेः ॥६८॥वृषपर्वासुरश्चैव श्रीमांश्च सुरसूदनः ।आरुरोह रथं दिव्यं मेरुशृङ्गमिवांशुमान् ॥६९॥प्रवालजाम्बूनदचित्रकूबरंमहारथं भारसहं महार्हम् ।स्वलंकृतं राजतनेमिमण्डलंगभस्तिनक्षत्रतडिन्निकाशम् ॥७०॥केयूरयुक्ताङ्गदनद्धबाहुःसहस्रतारेण च चर्मणा सः ।सांग्रामिकैराभरणैश्च चित्रै-र्मध्याह्नसूर्यप्रतिमो बभूव ॥७१॥महाबलो बद्धतलाङ्गुलित्रोबलोत्कटः किंशुकलोहिताक्षः ।प्रगृह्य चामीकरचारुचित्रंचापं स्थितो वृत्तविशालनेत्रः ॥७२॥महासुरेन्द्रश्च महासुरैर्वृतोबलिस्तदा स्यन्दनमारुरोह ।वैदूर्यहेमोपचितं विशालंविद्युत्प्रभं षोडशनल्वमात्रम् ॥७३युक्तं सहस्रेण दितेः सुतानांगजाननं विकृताकृतीनाम् ।चामीकरोरः स्थलभूषितानांप्रनर्दतां प्रावृषि चाम्बुदानाम् ॥७४महारथं देवरथप्रकाशंसहस्रमायेन मयेन सृष्टम् ।ईहामृगाक्रीडितभक्तिचित्रंदिव्यं रथं दिव्यरथानुयातम् ७५॥सकिङ्किणीकं विमलं सुविस्तृतंहिरण्मयैः पद्मशतैरलंकृतम् ।अभ्याददे वैजयिकीं जयायस्रजं वलिर्हेमविचित्रपुष्पाम् ॥७६॥आबध्य मालां प्रभया विचित्रांबलिस्तदा भाति भुजैर्विशालैः ।रराज तैः सर्वसमृद्धियुक्तै-र्महार्चिषा सूर्य इवाम्बरस्थः ॥७७॥स्रजं तदा बध्यति चास्य दुर्गासर्वासुराणामिव हारभूताम् ।वैरोचनिः सर्वश्रियाभिजुष्टोबिभ्राजतेऽसौ शरदीव चन्द्रः ॥७८॥मेरोस्तटे वा ज्वलनप्रकाशेह्यादित्यसंयुक्तमिवाभ्रजालम् ।प्रासाश्च पाशाश्च हिरण्यबद्धावर्माणि खड्गाश्च परश्वधाश्च ॥७९॥धनूंषि वज्रायुधसप्रभाणिदिव्या गदा वज्रमुखाश्च शक्त्यः ।दिव्याश्च खड्गा विशिखाश्च दीप्तानाराचपूर्णा विविधाश्च तूणाः ॥८०॥धृता रथे दैत्यवृषस्य तस्यचकाशिरे प्रज्वलिता यथोल्काः ।तं चामरापीडधराः सुदंष्ट्राःसुवर्णमुक्तामणिहेमचित्राः ॥८१॥वीजन्ति बालव्यजनैर्विनीतामहासुराः स्यन्दनवेदिकास्थाः ।अयःशिरा अश्वशिरा दुरापःशिबिर्मतङ्गो विशिराः शताक्षः ॥८२॥अयो निकुम्भः क्रथनश्च दानवोररक्षिरे ते दश दानवाधिपम् ।पुरश्चराश्चैव सहस्रशोऽसुराःपदातयो दानवराजरक्षिणः ॥८३॥शतघ्निचक्राशनिशक्तिपाणयःप्रजग्मुरग्रेऽनिलतुल्यवेगिनः ।घण्टा सुशब्दास्तपनीयबद्धाआडम्बरा गर्गरडिण्डिमाश्च ॥८४॥महारवा दुन्दुभयश्च नेदूरथप्रयाणे दितिजेश्वरस्य ।तस्योत्थितः काञ्चनवेदिकाढ्योहिरण्मयो दिव्यमहापताकः ॥८५॥महाध्वजो वै तपनीयनद्धोरराज वीरस्य यथा विवस्वान् ।समुच्छ्रितं काञ्चनमातपत्रंस्रक्काञ्चनी वक्षसि चास्य भाति ॥८६॥समन्ततश्चाप्यसुराश्चरन्तिदैत्यर्षयः प्राञ्जलयो जयन्ति ।पुरोहिताः शत्रुवधे समाहिता-स्तथैव चान्ये श्रुतशीलवृद्धाः ॥८७॥जपैश्च मन्त्रैश्च तथौषधीभि-र्महात्मनः स्वस्त्ययनं प्रचक्रुः ।स तत्र वस्त्राणि शुभाश्च गावःफलानि पुष्पाणि तथैव निष्कान् ॥८८॥बलिर्द्विजेभ्यः प्रयतः प्रयच्छन्विराजतेऽतीव यथा धनेशः ।सहस्रसूर्यो बहुकिङ्किणीकःपरार्द्ध्यजाम्बूनदहेमचित्रः॥८९॥सहस्रचन्द्रायुततारकश्चरथो बलेरग्निरिवावभाति ।तमास्थितो दानवसंगृहीतंमहाबलः कार्मुकधृक् सबाणः ॥९०॥उद्वर्तयिष्यंस्त्रिदशेन्द्रसेना-मतीव रौद्रं स बिभर्तिरूपम् ।स वेगवान् वीररथौघसंकुलःप्रयाति देवान् प्रति दैत्यसागरः ॥९१॥महार्णवो वीचितरङ्गसंकुलोयथा जलौघैर्युगसंक्षये तथा ।त्रैलोक्यवित्रासकरैर्वपुर्भिस्तान्यग्रतो यान्ति बले रथस्य ॥९२॥महाबलान्युच्छ्रितकार्मुकाणिसपर्वतानीव वनानि राजन् ॥९३इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने बलेरुद्योगे एकपञ्चाशत्तमोऽध्यायः ॥५१॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP