संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
षट्त्रिंशोऽध्यायः

भविष्यपर्व - षट्त्रिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


जगतेः सृष्ट्याः वर्णनम्

वैशम्पायन उवाच
जगत्स्रष्टुमना देवश्चिन्तयामास पूर्वजः ।
तस्य चिन्तयतो वक्त्रान्निःसृतः पुरुषः किल ॥१॥
ततः स पुरुषो देवं किं करोमीत्युपस्थितः ।
प्रत्युवाच स्मितं कृत्वा देवदेवो जगत्पतिः ॥२॥
विभजात्मानमित्युक्त्वा गतोऽन्तर्धानमीश्वरः ।
अन्तर्हितस्य देवस्य सशरीरस्य भारत ॥३॥
प्रशान्तस्येव दीपस्य गतिस्तस्य न विद्यते ।
ततस्तेनेरितां वाणीं सोऽन्वचिन्तयत प्रभुः ॥४॥
हिरण्यगर्भो भगवान् य एष छन्दसि श्रुतः ।
एष प्रजापतिः पूर्वमभवद् भुवनाधिपः ॥५॥
तदा प्रभृति तस्याद्यो यज्ञभागो विधीयते ।
प्रजापतिरुवाच
विभजात्मानमित्युक्तस्तेनास्मि सुमहात्मना ॥६॥
कथमात्मा विभज्यः स्यात् संशयो ह्यत्र मे महान् ।
इति चिन्तयतस्तस्य ओमित्येवोत्थितः स्वरः ॥७॥
स भूमावन्तरिक्षे च नाके च कृतवांस्ततः ।
तं चैवाभ्यसतस्तस्य मनःसारमयः पुनः ॥८॥
हृदयाद् देवदेवस्य वषट्कारः समुत्थितः ।
भूम्यन्तरिक्षकानां च भूर्भुवःसुवरात्मिकाः ।
महास्मृतिमयाः पुण्या महाव्याहृतयोऽभवन् ॥९॥
छन्दसां प्रवरा देवी चतुर्विंशाक्षराभवत् ।
तत्पदं संस्मरन् दिव्यां सावित्रीमकरोत् प्रभुः ॥१०॥
ऋक्सामाथर्वयजुषश्चतुरो भगवान् प्रभुः ।
चकार निखिलान् वेदान् ब्रह्मयुक्तेन कर्मणा ॥११॥
ततस्तस्यैव मनसः सनः सनक एव च ।
सनातनश्च भगवान् वरदश्च सनन्दनः ॥१२॥
सनत्कुमारश्च विभुस्तत्र जज्ञे सनातनः ।
मानसाश्चैव पूर्वाद्या इत्येते षण्महर्षयः ॥१३॥
ब्रह्माणं कपिलं चैव षडेतांश्चैव योगिनः ।
यतयो योगतन्त्रेषु यान् स्तुवन्ति द्विजातयः ॥१४॥
ततो मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
भृगुमङ्गिरसं चैव मनुं चैव प्रजापतिम् ॥१५॥
पितॄंश्च सर्वभूतानां देवतासुररक्षसाम् ।
महर्षीनसृजच्छम्भुरष्टावेतांश्च मानसान् ॥१६॥
एते युगसहस्रान्ते याश्चैषामभवन् प्रजाः ।
कल्पे निःशेषमुक्ते तु ततो गच्छन्ति निर्वृतिम् ॥१७॥
भूयो वर्षसहस्रान्ते उत्पत्तिस्तु विधीयते ।
एतेषामेव देवानां प्रजाकर्तृषु वै तदा ॥१८॥
किं तु कर्मविशेषेण देवतानां युगे युगे ।
नामजन्मविशेषाश्च तथैव युगपर्यये ॥१९॥
अङ्गुष्ठाद् दक्षिणाद् दक्ष उत्पन्नो भगवानृषिः ।
तस्यैव तु पुनर्भार्या वामाङ्गुष्ठादजायत ॥२०॥
तस्य तत्राभवन् कन्या विश्रुता लोकमातरः ।
याभिर्व्याप्तास्त्रयो लोकाः प्रजाभिर्मनुजाधिप ॥२१॥
अदितिं च दितिं कालां दनायुं सिंहिकां मुनिम् ।
प्राधां क्रोधां च सुरभिं विनतां सुरसां तथा ॥२२॥
दनुं कद्रूं च दुहितॄः प्रददौ कश्यपाय तु ।
प्रजां संचिन्त्य मनसा गतिज्ञेनान्तरात्मना ॥२३॥
अरुन्धतीं वसुं यामीं लम्बां भानुं मरुत्वतीम् ।
संकल्पां च मुहूर्तां च साध्यां विश्वां च भारत ॥२४॥
मनवे ब्रह्मपुत्राय कन्या दक्षो ददौ दश ।
ततः सर्वानवद्याङ्ग्यः कन्याः कमललोचनाः ॥२५॥
पूर्णचन्द्रानना दिव्या गन्धवत्यो मनोरमाः ।
कीर्तिं लक्ष्मीं धृतिं पुष्टिं बुद्धिं मेधां क्षमां तथा ॥२६॥
मतिं लज्जां वसुं चैव दक्षो धर्माय वै ददौ ।
अत्रेस्तु तनयो जातस्तस्य तोयात्मकः शशी ॥२७॥
पुत्रो ग्रहाणामधिपः सहस्रांशुस्तमिस्रहा ।
तस्मै नक्षत्रयोगिन्यः सप्तविंशतिरुत्तमाः ॥२८॥
रोहिणीप्रमुखाः कन्या दक्षः प्राचेतसो ददौ ।
एतासां पुत्रपौत्रं च प्रोच्यमानं मया शृणु ॥२९॥
कश्यपस्य मनोश्चैव धर्मस्य शशिनस्तथा ।
अर्यमा वरुणो मित्रः पूषा धाता पुरंदरः ॥३०॥
त्वष्टा भगोंऽशुः सविता पर्जन्यश्चेति विश्रुताः ।
अदित्यां जज्ञिरे देवाः कश्यपाल्लोकभावनाः ॥३१॥
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ।
द्वावप्यमितविक्रान्तौ तपसा कश्यपोपमौ ॥३२॥
हिरण्यकशिपोः पुत्राः पञ्चैव सुमहाबलाः ।
प्रह्रादश्चैव संह्रादस्तथानुह्राद एव च ॥३३॥
ह्रदश्चैव तु विक्रान्तः पञ्चमोऽनुह्रदस्तथा
प्रह्रादः पूर्वजस्तेषामनुह्रादस्तथा परः ॥३४॥
प्रह्रादस्य त्रयः पुत्रा विक्रान्ताः सुमहाबलाः ।
विरोचनश्च जम्भश्च सुजम्भश्चेति विश्रुताः ॥३५॥
बलिर्विरोचनसुतो बाण एको बलेः सुतः ।
बाणस्य चेन्द्रदमनः पुत्रः परपुरंजयः ॥३६॥
दनोः पुत्रास्तु बहवो वंशे ख्याता महासुराः ।
विप्रचित्तिः प्रथमजस्तेषां राजा बभूव ह ॥३७॥
गणः प्रजज्ञे क्रोधायाः पुत्रपौत्रमनन्तकम् ।
रौद्राः क्रोधवशा नाम क्रूरकर्माण एव च ॥३८॥
सिंहिका सुषुवे राहुं ग्रहं चन्द्रार्कमर्दनम् ।
ग्रस्तारं चैव चन्द्रस्य सूर्यस्य च विनाशनम् ॥३९॥
कालायाः कालकल्पस्तु गणः परमदारुणः ।
अभवद् दीप्तसूर्याक्षो नीलमेघसमप्रभः ॥४०॥
सहस्रशीर्षा शेषश्च वासुकिस्तक्षकस्तथा ।
बहूनां कद्रुपुत्राणामेते प्राधान्यमागताः ॥४१॥
धर्मात्मानो वेदविदः सदा प्राणिहिते रताः ।
लोकतन्त्रधराश्चैव वरदाः कामरूपिणः ॥४२॥
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ।
अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः ॥४३॥
इमाश्चाप्सरसः पुण्या विविधाः पुण्यलक्षणाः ।
सुषुवेऽष्टौ महाभागा प्राधा देवर्षिपूजिता॥४४॥
अनवद्यां मनुं वंशामनूनामरुणप्रियाम् ।
अनुगां सुभगां भासीं स्त्रियः प्राधा व्यजायत ॥४५॥
अलम्बुषा मिश्रकेशी पुण्डरीका तिलोत्तमा ।
सुरूपा लक्षणा क्षेमा तथा रम्भा मनोरमा ॥४६॥
असिता च सुबाहुश्च सुवृत्ता सुमुखी तथा ।
सुप्रिया च सुगन्धा च सुरसा च प्रमाथिनी ॥४७॥
काश्या शारद्वती चैव मौनेयाप्सरसः स्मृताः ।
विश्वा वसुर्भरण्यश्च गन्धर्वाश्चैव विश्रुताः ॥४८॥
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ।
घृतस्थला घृताची च विश्वाची चोर्वशी तथा ॥४९॥
अनुम्लोचेत्यभिख्याता प्रम्लोचेति च ता दश ।
मनोवती चापि तथा वैदिक्योऽप्सरसस्तथा ॥५०॥
प्रजापतेस्तु संकल्पात् सम्भूता भुवनप्रियाः ।
अमृतं ब्राह्मणा गावो रुद्राश्चेति चतुष्टयम् ॥५१॥
सुरभ्यपत्यमित्येतत् पुराणे निश्चयो महान् ।
एतद् वै कश्यपापत्यं मनोर्वंशं निबोध मे ॥५२॥
संक्षेपेणैव तत् सर्वं कीर्तयिष्यामि तेऽनघ ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजायत॥५३॥
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः ।
भानोस्तु भानवस्तात मुहूर्ताश्च मुहूर्तजाः॥५४॥
लम्बा घोषं विजज्ञेऽथ नागवीथी च जामिजा॥
पृथिव्यां विषमं सर्वं मरुत्वत्यामजायत॥५५॥
संकल्पायास्तु कौरव्य जज्ञे संकल्प एव च॥
धर्मस्य पुत्रो लक्ष्म्यास्तु कामो जज्ञे जगत्प्रभुः ॥५६॥
यशो हर्षश्च कामस्य रत्यां पुत्रद्वयं स्मृतम्॥
सोमस्य पुत्रो रोहिण्यां जज्ञे वर्चा महाप्रभः ॥५७॥
उदयन्नेव भगवान्वर्चस्वी येन जायते॥
पुरूरवाश्च भगवातुर्वशी येन युज्यते ॥५८॥
एवं पुत्रसहस्राणि स्त्रीणां चैव परस्परम्॥
एतावत्तु जगन्मूलं यत्र लोकाः प्रतिष्ठिताः ॥५९॥
प्रजापतिस्तु भगवान् गुणतः प्रेक्ष्य देहिनः॥
आधिपत्येषु युक्तेषु नियोजयति योगवित् ॥६०॥
दिशो दश क्षितिमृषयोऽर्णवान्नगान्दुमौषधीरुरगसरित्सुरासुरान्॥
प्रजापतिर्भुवनसृजो नभोभुवः क्रियामखानथ कृतवान् गिरींश्च सः ॥६१॥
इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP