संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| त्रिंशदधिकशततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - त्रिंशदधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रिंशदधिकशततमोऽध्यायः Translation - भाषांतर गोपगोपीभिःसहितैः यशोदानन्दयोः गोवर्धनपर्वते आगत्वा श्रीकृष्णबलभद्राभ्यां सह समागमम् ।वैशम्पायन उवाचयशोदा नन्दगोपश्च कृष्णदर्शनलालसौ ।गोवर्धनगतं श्रुत्वा वासुदेवं सहाग्रजम् ॥१॥नवनीतं च दधि च पायसं कृसरं तथा ।वन्यं पुष्पं महाराज मयूराङ्गदमेव च ॥२॥बल्लवैरपरैः सार्धं गोपिभिश्च समन्ततः ।जग्मतुः सहसा प्रीतौ गोवर्धनमथो नृप ॥३॥क्वचिद् वृक्षे समासक्तं कृष्णं कृष्णमृगेक्षणम् ।ददर्शतुर्महाबाहुं वासुदेवं सहाग्रजम् ॥४॥प्रणेमतुः सुसंहृष्टौ तत्र दृष्ट्वा महाबलौ ।दर्शयामासतुर्देवौ पायसानि महान्ति च ॥५॥तात मातर्व्रजे गोष्ठे कुशलं वा स्वगोधनम् ।अपि गावः क्षीरवत्यो वत्सा वत्सतराः पितः ॥६॥अपि वा सुशुभं क्षीरमपि गावः सुशोभनाः ।अपि वा दारका मातर्वत्सपालाः पिबन्ति च ॥७॥बहूनि चापि दामानि कीलका अपि वा बहु ।तृणानि बहुरूपाणि किं वा सन्ति पितः सदा ॥८॥शकटानि सुगन्धीनि किं वा सन्ति पितर्ध्रुवम् ।अपि गोप्यः पुत्रवत्यो दारकान्किमजीजनन् ॥९॥घटाः किं बहवो मातरभिन्नाः सर्वतो व्रजे ।किं गावः क्षीरमतुलं स्रवन्त्यहरहः पितः ॥१०॥हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् ।गोधनं सर्वमेवेदं नीरोगं प्रतिपद्यते ॥११॥नन्द उवाचसर्वमेतद् यदुश्रेष्ठ नीरोगं बहुशः प्रभो ।कुशलं गोधनस्यैव सर्वकालेषु केशव ॥१२॥रक्षणात् तव देवेश सदा कुशलिनो वयम् ।सगोधनाः सवत्साश्च नीरोगा इव केशव ॥१३॥एकमेव सदा दुःखं न त्वां द्रक्ष्यामि केशव ।यदेतत् केवलं दुःखमिति धीः शीर्यते सदा ॥१४॥वैशम्पायन उवाचएवमादि विलप्यन्तं गच्छेत्याह स केशवः ।यशोदां पुनराहेदं मातर्गच्छ गृहं प्रति ॥१५॥ये च त्वां कीर्तयिष्यन्ति ते च स्वर्गमवाप्नुयुः ।ये केचित् त्वां नमस्यन्ति ते मे प्रियतराः सदा ॥१६॥मद्भक्ताः सर्वदा सन्तु गच्छेत्याह च तां हरिः ।इत्युक्त्वा पितरौ देवो वासुदेवः सनातनः ॥१७॥गाढमालिङ्ग्य तौ प्रीतौ प्रेषयामास केशवः ।यशोदा नन्दगोपश्च जग्मतुः स्वगृहं प्रति ॥१८॥ततः कृष्णो हृषीकेशो यादवैः सह वृष्णिभिः ।गन्तुमैच्छत्तदा विष्णुः पुरीं द्वारवतीं किल ॥१९॥य एतच्छृणुयान्नित्यं पठेद् वापि समाहितः ।पुत्रवान् धनवांश्चैव अन्ते मोक्षं च गच्छति ॥२०॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणियशोदानन्दगोपबलभद्रकृष्णसमागमे त्रिंशदधिकशततमोऽध्यायः ॥१३०॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP