TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
पञ्चपञ्चाशत्तमोऽध्यायः

भविष्यपर्व - पञ्चपञ्चाशत्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.



पञ्चपञ्चाशत्तमोऽध्यायः
नमुचिना धरसंज्ञकस्य वसोः, मयासुरेण त्वष्टुः, वायुदेवेन पुलोम्नोः, हयग्रीवेण पूष्णः देवस्य, शम्बरासुरेण भगस्य, चन्द्रदेवेन सम्पूर्णायाः असुरसैन्यस्य पराजयम्

वैशम्पायन उवाच
पुनरेव तु तत्रासीन्महायुद्धं सुदारुणम् ।
क्रुद्धस्य नमुचेश्चैव धरस्य च महात्मनः ॥१॥
संरब्धौ च महाबाहू महेष्वासावरिंदमौ ।
परस्परमुदैक्षेतां दहन्ताविव लोचनैः ॥२॥
विस्फार्य च महाचापं हेमपृष्ठं दुरासदम् ।
संरम्भात्स वसुश्रेष्ठस्त्यक्त्वा प्राणानयुध्यत ॥३॥
स सायकमयैर्जालैर्धरो दैत्यरथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम् ॥४॥
ततः प्रहस्य नमुचिर्धरस्य च शिलाशितान् ।
असृजत्सायकान्दीप्तान्भीमवेगान्दुरासदान् ॥५॥
महातेजा महाबाहुर्महावेगो महारथः ।
विव्याधातिबलो दैत्यो नवभिर्निशितैः शरैः ॥६॥
स तोत्रैरिव मातङ्गो वार्यमाणः पतत्त्रिभिः ।
अभ्यधावच्च संक्रुद्धो नमुचिं वसुसत्तमः ॥७॥
तमापतन्तं वेगेन सरम्भान्नमुची रणे ।
दैत्यः प्रत्यसरद् देवं मत्तो मत्तमिव द्विपम् ॥८॥
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादिनम् ।
विक्षोभ्य तद्बलं हर्षादुद्भूतार्णवसप्रभम् ॥९॥
अश्वानृक्षस्ववर्णाभान् हंसवर्णैः सुवाजिभिः ।
मिश्रयन् समरे दैत्यो वसुं प्राच्छादयच्छरैः ॥१०॥
समाश्लिष्टावथान्योन्यं वसुदानवयो रथौ ।
दृष्ट्वा प्राकम्पत मुहुस्त्रिदशानां महद्बलम् ॥११॥
क्रोधसंरम्भताम्राक्षौ प्रेक्षमाणौ मुहुर्मुहुः ।
गर्वन्ताविव शार्दूलौ प्रभिन्नाविव वारणौ ॥१२॥
यमराष्ट्रोपमं रौद्रमासीदायोधनं तयोः ।
रथाश्वनरसम्बाधं मत्तवारणसंकुलम् ॥१३॥
समाजमिव तं दृष्ट्वा प्रेक्षमाणा महारथाः ।
आशंसन्तो जयं ताभ्यां योधा नैकत्रसंश्रयाः ॥१४॥
तयोः प्रैक्षन्त संरम्भं संनिकृष्टं महास्त्रयोः ।
सिद्धगन्धर्वमुनयो देवदानवयोस्तदा ॥१५॥
तौ च्छादयन्तावन्योन्यं समरे निशितैः शरैः ।
शरजालावृतं व्योम चक्रतुश्च महाबलौ ॥१६॥
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ ।
प्रेक्षणीयतमावास्तां वृष्टिमन्ताविवाम्बुदौ ॥१७॥
सुवर्णविकृतान् बाणान् प्रमुञ्चन्तावरिंदमौ ।
भास्कराभं तदाकाशमुल्काभिरिव चक्रतुः ॥१८॥
तयोः शराः प्रकाशन्ते देवदानवयोस्तदा ।
पङ्क्तयः शरदि मत्तानां सारसानामिवाम्बरे ॥१९॥
त्रिदशाश्वगजानां हि शरीरैर्गतजीवितैः ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्तलम् ॥२०॥
ततः सुधारं ज्वलितं सूर्यमण्डलसन्निभम् ।
धराय वसवे मुक्तं चक्रं नमुचिना रणे ॥२१॥
पतता तेन चक्रेण धरस्य स्यन्दनोत्तमः ।
सध्वजः सायुधः साश्वो दग्धोऽर्ककिरणप्रभः ॥२२॥
स त्यक्त्वा स्यन्दनं देवः प्रदीप्तं चक्रतेजसा ।
भयात् तस्यासुरेन्द्रस्य गतः स्वगृहमुत्तमम् ॥२३॥
पराजित्य सुरं दैत्यो नमुचिर्बलगर्वितः ।
प्रयातः स्वेन सैन्येन भूयः सुरचमूं प्रति ॥२४॥
यौ तौ मयश्च त्वष्टा च देवदैत्येषु विश्रुतौ ।
प्रवरौ विश्वकर्माणौ मायाशतविशारदौ ॥२५॥
घोरस्तयोः सम्प्रहारः प्रावर्तत सुदारुणः ।
अन्योन्यस्पर्द्धिनोस्तत्र चिरात्प्रभृति संयुगे ॥२६॥
त्वष्टा तु निशितैर्बाणैर्दैत्यं तु बलदर्पितम् ।
पराक्रान्तं पराक्रम्य विव्याध त्रिशतैः शरैः ॥२७॥
मयस्तु प्रतिविव्याध त्वष्टारं निशितैः शरैः ।
सुधातैः सुप्रसन्नाग्रैः शातकुम्भविभूषितैः ।
ननाद दितिजश्रेष्ठो हतस्त्वष्ट्रः शरैर्मयः ॥२८॥
संक्रुद्धो दैत्यसैन्यस्य विचिन्वन्निव जीवितम् ।
शक्तिं कनकवैदूर्यचित्रदण्डां महाप्रभाम् ॥२९॥
देवो गृहीत्वा समरे दैत्येन्द्रं समपातयत् ।
भईह्मां सर्वायसीं ७ पुरंदर इवाशनिम् ॥३०॥
तां त्वष्टुर्भुजनिर्मुक्तामर्कवैश्वानरप्रभाम् ।
मयश्चिच्छेद तीक्ष्णाग्रैच्चूर्णं सप्तभिराशुगैः ॥३१॥
ततः क्षुण्वन्निव प्राणांस्त्वष्टुः कोपान्महासुरः ।
प्रेषयामास संरम्भः शरान् बर्हिणवाससः ॥३२॥
चिच्छेद बाणांस्त्वष्टा ताञ्ज्वलितैर्नतपर्वभिः ।
दैत्यस्य सुमहावेगैः सुवर्णविकृतैः शरैः ॥३३॥
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
शार्दूलाविव चान्योन्यं प्रसक्तावभिजघ्नतुः ॥३४॥
अन्योन्यं प्रतियुध्यन्तावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यमभिवीक्षन्तौ क्रुद्धावाशीविषाविव ॥३५॥
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥३६॥
ततः सुविपुलां दीप्तां मयो रुक्माङ्गदो गदाम् ।
त्वष्टरि प्राहिणोत् क्रुद्धः सर्वप्राणहरां रणे ॥३७॥
तया जघानातिरथस्त्वष्टुरुत्तमवाजिनः ।
गदया दानवः क्रुद्धो वज्रेणेन्द्र इवाचलान् ॥३८॥
ततः क्रुद्धो महादैत्यः क्षुराभ्यामथ संयुगे ।
पुनर्द्वाभ्यां शराभ्यां तु निशिताभ्यां महारणे ॥३९॥
ध्वजं त्वष्टुरथ च्छित्वा सूतं निन्ये यमक्षयम् ।
महाबलान् महावेगान्सदश्वान् गदया हनत् ॥४०॥
दृष्ट्वा त्वष्टा हतं सूतमश्वांश्च विनिपातितान् ।
हताश्वं रथमुत्सृज्य सूतं च पतितं भुवि ॥४१॥
विस्फारयन् महाचापं स्थितो भूमाविवाचलः ।
हताश्वसूतं विरथं दृष्ट्वा रिपुमवस्थितम् ॥४२॥
जयश्रिया सेव्यमानो दीप्यमान इवानलः ।
मयः कालान्तकप्रख्यश्चापपाणिरदृश्यत ॥४३॥
प्रादहद् देवसैन्यानि दावाग्निरिव काननम् ।.
त्वष्टुः सोऽक्षिपतात्युग्रान्नाराचांस्तिग्मतेजसः ॥४४॥
चतुर्दशशिलाधौतान् सायकान्विविधाकृतीन् ।
ते पपुस्तस्य सैन्यस्य शोणितं रुक्मभूषणाः ॥४५॥
आशीविषा इव क्रुद्धा भुजङ्गाः कालचोदिताः ।
ते क्षितिं समवर्तन्त शोभन्ते रुधिरोक्षिताः ॥४६॥
अर्द्धप्रविष्टाः संरब्धा विलानीव महोरगाः ।
तं प्रत्यविध्यत् त्वष्टा तु जाम्बूनदविभूषितैः ॥४७॥
चतुर्दशभिरत्युग्रैर्नाराचैरभिदारयन ।
ते तस्य दैत्यस्य भुजं सव्यं निर्भिद्य पत्रिणः ॥४८॥
विदार्य विविशुर्भूमिं पन्नगा इव वेगतः ।
ते प्रकाशन्त नाराचाः प्रविशन्तो वसुंधराम् ॥४९॥
अस्तं गच्छतमादित्यं प्रविशन्त इवांशवः ।
मयस्त्रिभिरथानर्च्छत् त्वष्टारं तु पतत्रिभिः ॥५०॥
सुपर्णवेगैर्विकृतैर्ज्वलद्भिः प्राणनाशनैः ।
त्वष्टाथ मयनिर्मुक्तैः सायकैरर्दितः प्रभुः ॥५१॥
अपयातो रणं हित्वा व्रीडयाभिसमन्वितः ।
तं तत्र हतसूतं च भुजङ्गमिव निर्विषम् ॥५२॥
त्वष्टारं विरथं कृत्वा मुदितः स तु दानवः ।
विस्फार्यमाणो रुचिरं चापं रुक्माङ्गदं दृढम् ॥५३॥
रणे व्यतिष्ठद् दैत्येन्द्रो ज्वलन्निव हुताशनः ।
पुलोमा तु बलश्लाघी दृप्तो दानवसत्तमः ॥५४॥
रथे श्वेतहयेनेह सार्धं युद्ध्यति वायुना ।
सर्वेषामेव भूतानां यः प्राणः कथ्यते द्विजैः ॥५५॥
बलिना कालकल्पेन वायुना सह संगतः ।
पुलोम्नस्तत्र पवनः श्रुत्वा ज्यातलनिःस्वनम् ॥५६॥
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ।
दैत्यचापच्युतैर्बाणैः प्राच्छाद्यन्त दिशो दश ॥५७॥
रश्मिजालैरिवार्कस्य विततं साम्बरं जगत् ।
स ताम्रनयनः क्रुद्धः श्वसन्निव महोरगः ॥५८॥
वृतो दैत्यशतैर्वायू रश्मिवानिव भास्करः ।
दैत्यचापभुजोत्सृष्टाः शरा बर्हिणवाससः ॥५९॥
रुक्मपुङ्खाः प्रकाशन्ते हंसाः श्रेणीकृता इव ।
चापध्वजपताकाभ्यः शस्त्रा दीप्तमुखाश्च्युताः ॥६०॥
प्रपतन्तः स्म दृश्यन्ते दैत्यस्यापततः शराः ।
एवं सुतीक्ष्णान् खचराञ्छलभानिव पावके ॥६१॥
सुवर्णविकृतांश्चित्रान् मुमोच दितिजः शरान् ।
तमन्तकमिव क्रुद्धमापतन्तं स मारुतः ॥६२॥
त्यक्त्वा प्राणानतिक्रम्य विव्याध नवभिः शरैः ।
तस्य वेगमसंहार्यं दृष्ट्वा वायुः सनातनः ॥६३॥
उत्तमं जवमास्थाय व्यधमत् सायकव्रजान् ।
तेजो विधम्य बलवाञ्छरजालानि मारुतः ॥६४॥
विव्याध दैत्यं विंशत्या विशिखैर्नतपर्वभिः ।
मरुद्गणानां प्रवरा दश दिव्या महौजसः ॥६५॥
साधु साध्विति वेगेन सिंहनादं प्रचक्रिरे ।
तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे ॥६६॥
अभ्यधावन्त दितिजाः पौलोमाः क्रोधमूर्च्छिताः ।
ते समासाद्य पवनं समावृण्वञ्छरोत्तमैः ॥६७॥
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ।
ते पीडयन्तः पवनं क्रुद्धाः सप्त महारथाः ॥६८॥
प्रजासंहरणे घोराः सोमं सप्त ग्रहा इव ।
ततो दक्षिणमक्षोभ्यं नानारत्नविभूषितम् ॥६९॥
करं गजकराकारमुद्यम्य युधि मारुतः ।
तेषां मूर्धसु दैत्यानां पातयामास वीर्यवान् ॥७०॥
निहता वायुवेगेन तेन सप्त महारथाः ।
त्यक्त्वा प्राणान्पुलोमा तु विव्याध नवभिः शरैः ॥७१॥
प्रदर्पितमसंहार्यं दृष्ट्वा वायुं सनातनम् ।
असंचिन्त्य शरौघांस्ताञ्ज्वलितांश्च पुलोमतः ॥७२॥
तेषां विदार्य तेजांसि दानवानां महात्मनाम् ।
शोणितक्लिन्नमुकुटा गैरिकाक्ता इवाद्रयः ॥७३॥
ते भिन्नवर्मास्थिभुजाः पतन्तो भान्ति दानवाः ।
मातङ्गयूथसम्भग्नाः पुष्पिता इव पादपाः ॥७४॥
तेषां विदारितैर्देहैर्दानवानां महात्मनाम् ।
ततः प्रावर्तत नदी रौद्ररूपा भयावहा ॥७५॥
प्रस्रवन्ती रणे रक्तं भीरूणां भयवर्धिनी ।
देवदैत्यगजाश्वानां रुधिरौघपरिप्लुता ।
रणभूमिरभूद् रौद्रा तत्र तत्र सहस्रशः ॥७६॥
सम्भृता गतसत्त्वैश्च यक्षराक्षसखेचरैः ।
सानुगैः सपताकैश्च सोपासङ्गरथध्वजैः ॥७७॥
शीर्षकुम्भैस्तथा नागैर्घण्टाभिस्तु विभूषितैः ।
सुवर्णपुङ्खैर्ज्वलितैर्नाराचैस्तिग्मतैजसैः ॥७८॥
देवदानवनिर्मुक्तैः सविषैरुरगैरिव ।
प्रासतोमरनाराचैः शक्तिखङ्गपरश्वधैः ॥७९॥
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः ।
कनकाङ्गदकेयूरैर्मणिभिश्च सकुण्डलैः ॥८०॥
तनुत्रैः सतलत्रैश्व हारैर्निष्कैश्च शोभनैः ।
हतैश्च दितिजैस्तत्र शस्त्रस्यन्दनवर्जितैः ॥८१॥
पतितैरपि विद्धैश्च शतशोऽथ सहस्रशः ।
निपातितध्वजरथो हतवाजिरथद्विपः ॥८२॥
विमर्दो देवदैत्यानां सदृशः कर्मणा बभौ ।
अथ दैत्यसहस्रेण पौलोमेन महारथः ॥८३॥
संवृतः पवनः श्रीमान् गदामुसलपाणिना ॥८४॥
ते जघ्नुः शतसाहस्राः पवनं दानवोत्तमाः ।
तैर्वध्यमानः स बभौ समन्तादर्पितैः शरैः॥८५॥
हत्वाष्टौ तत्र योधानां शतानि पवनः प्रभुः ।
कृत्वा मार्गं सुरश्रेष्ठो ननाद सुमहारथः ॥८६॥
अद्यापि च सुविस्तीर्णः पन्थाः संदृश्यते दिवि ।
नाम्ना वायुरथो नाम सिद्धाः पश्यन्ति तं दिवि ॥८७॥
वैशम्पायन उवाच
हयग्रीवस्तु दितिजः पूषणं प्रति वीर्यवान् ।
ननाद सुमहानादं सिंहनादं महारथः ॥८८॥
विस्फार्य सुमहच्चापं हेमजालविभूषितम् ।
पूषणं दितिजोऽपश्यत् क्रुद्धो घोरेण चक्षुषा ॥८९॥
भुजाभ्यामाददानस्य संदधानस्य वै शरान् ।
मुञ्चतः कर्षतो वापि ददृशुस्तत्र नान्तरम् ॥९०॥
अग्निचक्रोपमं दीप्तं मण्डलीकृतकार्मुकम् ।
तदासीद् दानवेन्द्रस्य सव्यदक्षिणमस्यतः ॥९१॥
रुक्मपुङ्खैस्ततस्तस्य चापमुक्तैः शितैः शरैः ।
प्राच्छाद्यन्त शिलाधौतैर्दिशः सूर्यस्य च प्रभाः ॥९२॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
नभश्चराणां नभसि दृश्यन्ते बहवो व्रजाः ॥९३॥
गिरिकूटनिभाच्चापात् प्रभवन्तः शरोत्तमः ।
श्रेणीभूताः प्रकाशन्ते यान्तः श्येना इवाम्बरे ॥९४॥
गृध्रपत्राञ्छिलाधौतान् कार्तस्वरविभूषितान् ।
महावेगान्प्रशस्ताग्रान् मुमोच दितिजः शरान् ॥९५॥
ततश्चापबलोद्भूताः शातकुम्भविभूषिताः ।
देहे समवकीर्यन्त पूष्णः संनिहिताः शराः ॥९६॥
ते व्योम्नि रुक्मविकृताः सम्प्रकाशन्त सर्वशः ।
खद्योता इव घर्मान्ते खे चरन्तः समन्ततः ॥९७॥
शिलाधौताः प्रसन्नाग्राः पूषणं सिषिचुः शराः ।
पर्वतं वारिधाराभिर्यथा प्रावृषि तोयदाः॥ ॥९८॥
ततः प्रच्छादयामास पूषणं शरवृष्टिभिः ।
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥९९॥
ततः सपूष्णोऽदेवस्य बलं वीर्यं पराक्रमम् ।
व्यवसायं च सत्त्वं च पश्यन्ति त्रिदशाद्भुतम् ॥१००॥
तां समुद्रादिवोद्भूतां शरवृष्टिं समुत्थिताम् ।
नाचिन्तयत्तदा पूषा दैत्यं चाभ्यद्रवद् रणे ॥१०१॥
हेमपृष्ठं महानादं पूष्ण आसीन्महाधनुः ।
विकृतं मण्डलीभूतं शक्राशनिरिवापरा ॥१०२॥
ततः शराः प्रादुरासन् पूरयन्त इवाम्बरम्॥१०३॥
सुवर्णपुङ्खाः पूष्णस्ते प्रभवन्तः शरासनात् ।
मालेव रुक्मपुङ्खानां वितता व्योम्नि पत्रिणाम् ॥१०४॥
प्रादुरासीन्महाघोरा बृहती पूषकार्मुकात् ।
ततो व्योम्नि विभक्तानि शरजालानि सर्वशः ॥१०५॥
आहतानि व्यशीर्यन्त शरैः संनतपर्वभिः ।
ततः कनकपुङ्खानां छिन्नानां कङ्कवाससाम् ॥१०६॥
पततां पात्यमानानां खमासीच्चावृतं रणे ।
पूषा प्रापूरयद् बाणैर्हयग्रीवं शिलाशितैः ॥१०७॥
नामङ्कैरर्कसदृशैर्दिव्यहेमपरिष्कृतैः ।
ततो व्यसृजदुग्राणि शरजालानि दानवः ॥१०८॥
अमर्षी बलवान् क्रुद्धो दिधक्षन्निव पावकः ।
पूष्णस्त्वाजौ ध्वजं चैव पताकां धनुरेव च ॥१०९॥
रश्मीन् योक्त्राणि चाश्वानां हयग्रीवो रणेऽच्छिनत् ।
अथाप्यश्वान् पुनर्हत्वा चतुर्भिः सायकोत्तमैः ॥११०॥
सारथिं सुमहातेजा रथोपस्थादपातयत् ।
कृतस्तु विरथः पूषा हयग्रीवेण संयुगे ॥१११॥
पूषा तस्य रथाभ्याशात् स ययौ तेन वै जितः ।
गतः शक्ररथाभ्याशं मुक्तो मृत्युमुखादिव ॥११२॥
तत्राद्भुतमिदं भूयो युद्धं वर्तत दारुणम् ।
कृतप्रतिकृतं घोरं शम्बरस्य भगस्य च ॥११३॥
सप्तकिष्कुपरीणाहं द्वादशारत्निकार्मुकम् ।
चापं चाशनिनिर्घोषं दृढज्यं भारसाधनम् ॥११४॥
विक्षिपन्नक्षसदृशान्व्यसृजत्सायकान् बहून् ।
क्रोधसंरक्तनयनः शम्बरः सर्वयोगवित् ॥११५॥
तेन वित्रास्यमानानि देवसैन्यानि सर्वशः ।
समकम्पन्त भीतानि सिन्धोरिव महोर्मयः॥११६॥
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् ।
भगः प्रस्फुरमाणौष्ठस्त्वरमाणो व्यदारयत् ॥११७॥
ततो भगो महेष्वासो दिव्यं विस्कारयन्धनुः ।
अवाकिरद् दैत्यगणाञ्छरजालेन छादयन् ॥११८॥
तमभ्यगाद् भगो दैत्यं तूर्णमस्यन्तमन्तिकात् ।
मातङ्गमिव मातङ्गो वृषं प्रति वृषो यथा ॥११९॥
तौ प्रगृह्य महावेगौ धनुषी भारसाधने ।
प्राच्छादयेतामन्योन्यं तक्षमाणौ रणे शरैः ॥१२०॥ ।
तयोः सुतुमुलं युद्धमासीद् घोरं महारणे ।
भगशम्बरयोभींममप्रमेयं महात्मनोः ॥१२१॥
अथ पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः ।
व्यदारयेतामन्योन्यं कार्ष्णे निर्भिद्य चर्मणी ॥१२२॥
तौ तु विकृतसर्वाङ्गौ रुधिरेण समुक्षितौ ।
सम्प्रेक्ष्यमाणौ रथिनावुभौ परमदुर्मदौ ।
तक्षमाणौ शितैर्बाणैर्न वीक्षितुमशक्नुताम् ॥१२३॥
अथ विव्याध समरे त्वरमाणोऽसुरो भगम् ।
नाराचैः क्रोधताम्राक्षः कालान्तकयमोपमः ॥१२४॥
गरुत्मानिव चाकाशे पोथयानो महोरगम् ।
नाराचा न्यपतन् देहे तूर्णं शम्बरचोदिताः ॥१२५॥
तानन्तरिक्षे नाराचान् भगश्चिच्छेद पत्रिभिः ।
ज्वलन्तमचलप्रख्यं वैश्वानरसमप्रभम् ॥१२६॥
ततो भगं चतुःषष्ट्या विव्याधासुरसत्तमः ।
शिलीमुखैर्महावेगैर्जाम्बूनदविभूषितैः ॥१२७ ।
तदा तत्सुचिरं कालं युद्धं सममिवाभवत् ।
शम्बरस्य च मायाभिर्नादृश्यत ततोऽम्बरम् ॥१२८॥
दोर्भ्यां विक्षिपतश्चापं रणे विष्टभ्य तिष्ठतः ।
श्रूयते धनुषः शब्दो विस्फूर्जितमिवाशनेः ॥१२९॥
स भगस्य हयान् हत्वा सारथिं च महाहवे ।
अभ्यवर्षच्छरैरेनं पर्जन्य इव वृष्टिमान् ॥१३०॥
न तस्यासीदनिर्भिन्नं गात्रे द्व्यंगुलमन्तरम् ।
भगदेवस्य दैत्येन शम्बरेणास्त्रघातिना ॥१३१॥
देवस्य चाद्भुतं दिव्यमस्त्रमस्त्रेण वारयन् ।
मायायुद्धेन मायावी शम्बरस्तमयोधयत् ॥१३२॥
अवञ्चयद् भगं दैत्यो मायाभिर्लाघवेन च ।
भगस्तस्य रथं साश्वं शरवर्षैरवाकिरत् ॥१३३॥
सहस्रमायो द्युतिमान् देवसेनां निषूदयन् ।
अदृश्यत शरैश्छन्नः शम्बरः शतशो रणे ॥१३४॥
अदृश्यत् पतितो भूमौ गतचेता इवासुरः ।
अथ स्म युध्यते भूयः शतधा शैलसंनिभः ॥१३५॥
दिशां गजेन्द्रमारूढो दृश्यते स पुनर्बली ।
प्रादेशमात्रश्च पुनः पुनर्भवति शैलवत् ॥१३६॥
महामेघ इव श्रीमांस्तिर्यगूर्ध्वं च सोऽभवत् ।
पुनः कृत्वा विरूपाणि विकृतानि च सर्वशः ॥१३७॥
सर्वां भीषयते सेनां देवानां भीमदर्शनः ।
ते भीताः प्रपलायन्ते सिंहं दृष्ट्वा मृगा यथा ॥१३८॥
ततः सोऽन्यं वरं देहं कृत्वा प्रांशुतरं पुनः ।
गच्छत्यूर्ध्वगतिं घोरो दिशः शब्देन पूरयन् ॥१३९॥
नभस्तलगतश्चापि वर्षते वासवो यथा ।
संवर्तकाम्बुदप्रख्यः पूरयन् पृथिवीतलम् ॥१४०॥
संवर्तकोऽनलश्चैव भूत्वा भीमपराक्रमः ।
शतवर्त्मा शतशिखो ददाह च पुनः सुरान् ॥१४१॥
मुहूर्ताच्च महाशैलः शतशीर्षा शतोदरः ।
अदृश्यत दिवः स्तम्भः शतशृङ्ग इवाचलः ॥१४२॥
येऽन्ये देवाश्च साध्याश्च ये च विश्वे च देवताः ।
क्षिपन्त्यस्त्राणि दिव्यानि तानि सोऽग्रसतासुरः ॥१४३॥
युद्ध्यमानश्च समरे सरथः सोऽसुरोत्तमः ।
गन्धर्वनगराकारस्तत्रैवान्तरधीयत ॥१४४॥
ते भीताः समुदीक्षन्त त्रिदशा भीमविक्रमाः ।
सहस्रमायं समरे शम्बरं चित्रयोधिनम् ॥१४५॥
स भगो भयसंत्रस्तो दानवेन्द्रस्य संयुगे ।
रथं त्यक्त्वा महाभागो महेन्द्रं शरणं गतः ॥१४६॥
पराजित्य तु तं देवं दानवेन्द्रः प्रतापवान् ।
गतो यत्र महातेजा जातवेदा महाप्रभः ॥१४७॥
स वह्निं वाग्भिरुग्राभिः क्रुद्धस्तर्जयते बली ।
भवाम्येष हि ते मृत्युरित्युक्त्वान्तरधीयत ॥१४८॥
वैशम्पायन उवाच
एतस्मिन्नन्तरे चैव ब्राह्मणेन्द्रो महाबलः ।
जघान सोमः शीतास्त्रो दानवानां चमूं रणे ॥१४९॥
कैलासशिखराकारो द्युतिमद्भिर्गणैर्वृतः ।
अवधीद् दानवान् दृष्ट्वा दण्डपाणिरिवान्तकः ॥१५०॥
पोथयद् रथवृन्दानि वाजिवृन्दानि वै प्रभुः ।
दैत्येषु विचरञ्छ्रीमान्युगान्ते कालवद्बली ॥१५१॥
सोऽमर्षाद् रथजालानि उरुवेगेन चन्द्रमाः ।
ददाह दानवान् सर्वान्दावाग्निरिव चोदितः ॥१५२॥
मृद्नन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः ॥१५३॥
शीतेन व्यधमत्सर्वान् वायुर्वृक्षानिवौजसा ।
चन्द्रमाः सुमहातेजा दानवानां महाचमूम् ॥१५४॥
तदस्त्रमभवत् तस्य प्रदिग्धं शत्रुशोणितैः ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥१५५॥
युगान्तकोपमः श्रीमान् दैत्येषु व्यचरद्बली ।
आवार्य महतीं सेनां प्राद्रवन्तीं पुनः पुनः ॥१५६॥
चन्द्रं मृत्युमिवायान्तं दृष्ट्वा योधा विसिस्मियुः ।
यतो यतः प्रक्षिपति शिशिरास्त्रं तमोनुदः ॥१५७॥
ततस्ततो व्यशीर्यन्त दैत्यसैन्यानि संयुगे ।
व्यदारयत् च सैन्यानि स्वबलेनाभिसंवृतः ॥१५८॥
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ।
तं तथा भीमकर्माणं गृहीतास्त्रं महाहवे ॥१५९॥
दृष्ट्वा शशांकमायान्तं दैत्याभं चन्द्रभास्करौ ।
तालमात्राणि चापानि कर्षमाणौ महाबलौ ॥१६०॥
छादयेतां शरैश्चन्द्रं वृष्टिमन्ताविवाम्बुदौ ।
अथ विस्फार्यमाणानां कार्मुकाणां सुरासुरैः ॥१६१॥
अभवत् सुमहाशब्दो दिशः संनादयन्निव ।
विनदद्भिर्महानागैर्ह्रेषमाणैश्च वाजिभिः ॥१६२॥
भेरीशङ्खनिनादैश्च तुमुलं सर्वतोऽभवत् ।
युयुत्सवस्ते संरब्धा जयगृद्धा यशस्विनः ॥१६३॥
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महावृषाः ।
शिरसां पात्यमानानां समरे निशितैः शरैः ॥१६४॥
अश्मवृष्टिरिवाकाशे ह्यभवत् सेनयोस्तथा ।
कुण्डलोष्णीषधारीणि जातरूपस्रजांसि च ॥१६५॥
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ।
विशिखैर्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ॥१६६॥
सहस्ताभरणैश्चान्यैर्विच्छिन्नै रुधिरोक्षितैः ।
कवचैरावृतैर्गात्रैरुरुभिश्चन्दनोक्षितैः ॥१६७॥
मुखैश्च चन्द्रसंकाशैस्तप्तकुण्डलभूषणैः ।
गजवाजिमनुष्याणां सर्वगात्रैः समन्ततः॥१६८॥
आसीत् सर्वा समाकीर्णा मुहूर्तेन वसुंधरा ।
चापमेघाश्च विपुलाः शस्त्रविद्युत्प्रकाशिनः ।
वाहनानां च निर्घोषः स्तनयित्नुसमोऽभवत्॥१६९॥
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः ।
प्रावर्तत सुराणां च दानवानां च संयुगे ॥१७०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T14:03:40.6470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

टांकानें गळा कांपणें

  • लिहिण्याने नाश करणें 
  • आपल्‍या हातच्या लेखाने एखाद्याची हानि करणें. 
RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site