संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| षट्पञ्चाशत्तमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - षट्पञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षट्पञ्चाशत्तमोऽध्यायः Translation - भाषांतर देवदानवानां घोरसंग्रामम् – विरोचनस्य विष्वक्सेनेन सह, कुजम्भस्य अंशदेवेन सह युद्धकाले घोरपराक्रमस्य प्रदर्शनम्वैशम्पायन उवाचतस्मिन् महाहवे रौद्रे तुमुले लोमहर्षणे ।ववर्षुः शरवर्षाणि संरब्धा देवदानवाः ॥१॥व्याक्रोशन्त गजास्तत्र शरघातप्रपीडिताः ।अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥२॥उत्पत्य निपतन्त्यन्ये शरवर्षप्रपीडिताः ।देवानां दानवानां च गजाश्वरथिनां रणे ॥३॥समरे तत्र शूराणामन्योन्यमभिधावताम् ।धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ॥४॥शरशक्तिगदाभिस्ते खड्गैश्चामिततेजसः ।निजघ्नुर्महतीं सेनामन्योन्यस्य परंतप ॥५॥बाहूनामुत्तमाङ्गानां कार्मुकाणां च संयुगे ।राशयस्तत्र दृश्यन्ते देवदैत्यसमागमे ॥६॥अश्वानां कुञ्जराणां च रथानां च वरूथिनाम् ।नान्तं समभिगच्छन्ति निहतानां सुरासुरैः ॥७॥गदाभिरसिभिः प्रासैर्भल्लैः संनतपर्वभिः ।योधास्तत्राभ्यहन्यन्त हस्त्यश्वं चामितं बहु ॥८॥प्रावर्तत नदी घोरा शोणितौघा तरङ्गिणी ।तदा मध्ये तु सैन्यानां केशशैवलशाद्वला ॥९॥हाहाकारो महाशब्दो योधानामभवत् तदा ।दानवैर्हन्यमानानां त्रिदशानां महारणे ॥१०॥वैशम्पायन उवाचतेषां तदभवद् युद्धं देवानामसुरैः सह ।विभीषणं महारौद्रं विकृतं भीमदर्शनम् ॥११॥विरोचनस्तु तत्रैव विष्वक्सेनं महाहवे ।जघान रुधिराभाक्षं साध्यं परमधन्विनम् ॥१२॥तमायान्तमभिप्रेक्ष्य विष्वक्सेनः सुरैर्वृतः ।अमेयात्मा सुरश्रेष्ठः प्रत्यविध्यत् स्तनान्तरे ॥१३॥साध्यस्य बाणाभिहतस्तोत्रार्पित इव द्विपः ।विरोचनः प्रजज्वाल क्रोधेनाग्निरिवाध्वरे ॥१४॥स कार्मुकविनिर्मुक्तैः शरैर्दानवसत्तमः ।विष्वक्सेनं बिभेदाजौ दीप्तैः सप्तभिराशुगैः ॥१५॥सोऽतिविद्धो बलवता दानवेन सुरोत्तमः ।मूर्च्छामभिजगामाशु ध्वजं चाप्याश्रयत्प्रभुः ॥१६॥ततः स पुनराश्वस्य साध्यो युद्धे मनो दधे ।विस्फार्य च महाचापं दैत्यमध्ये व्यवस्थितः ॥१७॥विरोचनस्तु बलवानभ्ययुध्यत सर्वशः ।क्षोभयन् सुरसैन्यानि समन्तान्निशितैः शरैः ॥१८॥ततस्तस्यासुरेन्द्रस्य युद्ध्यमानस्य संयुगे ।श्रूयते तुमुलः शब्दो जीमूतस्येव गर्जतः ॥१९॥जगर्ज च महाघोषो विनिघ्नन् देववाहिनीम् ।चण्डवेगाश्मवर्षी च सविद्युत्स्तनयित्नुमान् ॥२०॥दिशो विद्रावयामास शरवर्षेण दानवः ।सर्वसैन्यानि देवानामुद्यतास्त्रो महाहवे ॥२१॥ते प्राद्रवन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥२२॥श्रुत्वा कार्मुकनिर्घोषं विस्फूर्जितमिवाशनेः ।सर्वसैन्यानि भीतानि निव्यलीयन्त संयुगे ॥२३॥विरोचनभयत्रस्ता रथेभ्यो रथिनस्तदा ।पदातीनां ययुः संघा यत्र देवः शचीपतिः ॥२४॥विष्वक्सेनस्य साध्यस्य सर्वतः सुमहाबलः ।पदा रक्षःसहस्राणि निजघान चतुर्दश ॥२५॥अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।पदातीनां च संघेषु विनिघ्नन् प्रत्यदृश्यत ॥२६॥वितत्य श्येनवत् पक्षौ सर्वतः स वरूथिनीम् ।भित्त्वा छित्त्वा महाबाहुः शिरांस्याजौ ह्यकृन्तत ॥२७॥सादिनश्च पदाताश्च हतशेषा रथास्तथा ।विष्वक्सेनेन सहिता विरोचनमथाद्रवन् ॥२८॥तेऽसिचर्मगदाशक्तिपरिघप्रासतोमरैः ।तमेकमभ्यधावन्त सिंहनादं प्रचक्रिरे ॥२९॥ततः सोऽसिं समुद्यम्य जवमास्थाय दानवः ।वकर्त रथिनामाजौ शिरांसि च धनूंषि च ॥३०॥रथनागाश्ववृन्देषु बलवानरिसूदनः ।विरोचनश्चरन् मार्गान् प्रकारानेकविंशतिम् ॥३१॥भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम् ।सम्पातं समुदीर्णं च दर्शयामास दानवः ॥३२॥केचिद् वरासिना रुग्णा दानवेन महात्मना ।विनेदुश्छिन्नवर्माणो निपेतुश्च गतासवः ॥३३॥छिन्नपृष्ठा हतारोहा दानवेन महात्मना ।विद्रुताः स्वान्यनीकानि जघ्नुस्त्रिदशवारणाः॥३४॥निपेतुरुर्व्यामाकाशे निकृता दृढधन्विना ।विविधास्तोमराश्चापा महामात्रशिरांसि च ॥३५॥प्रतीपमाहरन्नागानश्वांश्च दृढविक्रमान् ।चकर्त रथिनः कांश्चित् परामृश्य महाबलः ।सूतांश्चिच्छेद खड्गेन रथानपि च दानवः ॥३६॥मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः ।मार्गांश्चरति वैचित्रान् व्यस्मयन्त ततोऽसुराः ॥३७॥निजघान पदा काश्चिदाक्षिप्यान्यानपोथयत् ।खड्गेन चान्यांश्चिच्छेद नादेनान्यांश्च भीषयन् ॥३८॥ऊरुस्तम्भगृहीताश्च निपतन्त्यपरे भुवि ।अपरे दैत्यमालोक्य भयात्प्राणानवासृजन् ॥३९॥तस्मिंस्तथा वर्तमाने युद्धे महति दारुणे ।रथौघगजपत्तीनां सुराणां च महाक्षये ॥४०॥कुजम्भो दानवश्रेष्ठो ह्यंशमादित्यमाहवे ।योधयामास समरे वृषः प्रतिवृषं यथा ॥४१॥जघानाचलसंकाशो मत्तवारणविक्रमः ।स्फुरद्भिर्निशितैस्तीक्ष्णशरैर्बहुभिराशुगैः ॥४२॥देवसैन्यसहस्राणि सरथानि महाहवे ।तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥४३॥प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।देवानामजयः क्रूरः प्रत्यपद्यत दारुणः ॥४४॥अंशस्तु दानवेन्द्रस्य जघानोत्तमविक्रमः ।अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥४५॥आपतन्तं गजानीकं कुजम्भो वीक्ष्य दानवः ।गदापाणिरवारोहद् रथोपस्थादरिंदमः ॥४६॥अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।अभ्यद्रवद् गजानीकं व्यादितास्य इवान्तकः ॥४७॥स गजान् गदया निघ्नन् व्यचरत्समरे बली ।कुजम्भो दानवश्रेष्ठो गदापाणिर्बलाधिकः ॥४८॥विशीर्णदन्तांश्च वद्वन्भिन्नकुम्भाम्बदारुणान् ।अकरोद् दानवश्रेष्ठ उद्दिश्योद्दिश्य तान् बली ॥४९॥विशीर्णदन्ता बहवो भिन्नकुम्भास्तथा परे ।कुजम्भेनार्दिता नागा व्यद्रवन्त दिशो दश ॥५०॥कुजम्भस्य च येऽमात्या दानवा घोरविक्रमाः ।नाराचैर्विविधैस्तीक्ष्णैरपास्तगजयोधिनः ॥५१॥क्षुरैः क्षुरप्रैर्भल्लैश्च पातैरञ्जलिकैः शितैः ।चिच्छेद चोत्तमाङ्गानि कुजम्भो दानवोत्तमः ॥५२॥शिरोभिः प्रपतद्भिस्तु गगनं प्रत्यपूर्यत ।अश्मवृष्टिरिवाकाशे बहुभिश्च सहाङ्कुशैः ॥५३॥कृत्तोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।अदृश्यन्त महाराज ताला विशिरसो यथा ॥५४॥आपतन्तं महानागमंशस्यासुरसत्तमः ।जघानैकेषुणा क्रुद्धस्ततः स विमुखोऽभवत् ॥५५॥विगाह्यैवं गजानीकं कुजम्भो दानवोत्तमः ।विनिघ्नन्प्रवरान्सैन्यान्गदया बलिनां वरः ॥५६॥एकप्रहाराभिहतान् कुजम्भेन महागजान् ।अपश्यन्त सुराः सर्वे पर्वतानिव पातितान् ॥५७॥कुजम्भस्य च मार्गेषु विशीर्णास्ते महागजाः ।वज्राहता इवेन्द्रेण विशीर्णा इव पर्वताः ॥५८॥अपश्यंस्त्रिदशाः सर्वे मूर्तिमन्तमिवान्तकम् ।गजास्तथा व्यदीर्यन्त सिंहस्येवेतरे मृगाः ॥५९॥स बभौ तां गदां बिभ्रत् प्रोक्षितां गजशोणितैः ।व्यादितास्योऽनदत्क्रुद्धो रौद्ररूपो भयानकः ॥६०॥यथा हि भगवान्क्रुद्धः प्रजानां संक्षये पुरा ।विक्रीडमानो गदया रणमध्ये महासुरः ॥६१॥गोपाल इव दण्डेन कालयन्स महागजान् ।क्रुद्धं कालमिवाकाले दण्डमुद्यम्य दानवम् ।अपश्यन्त सुराः सर्वे कुजम्भं भीमविक्रमम् ॥६२॥हतारोहास्तु तत्रान्ये प्रभिन्ना वारणोत्तमाः ।ते हन्यमाना गदया बाणैश्च भृशविक्षताः॥६३॥असहन्तः कुजम्भस्य गदावेगं महाहवे ।स्वान्यनीकानि मृद्नन्तः प्राद्रवन्त महागजाः ॥६४॥महावात इवाभ्राणि विधमन् गदया गजान् ।अतिष्ठत्समरे दैत्यः कालः संवर्तको यथा ॥६५॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे कुजम्भस्योत्कर्षवर्णने षट्पञ्चाशत्तमोऽध्यायः॥५६॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP