संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| एकोनाशीतितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - एकोनाशीतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनाशीतितमोऽध्यायः Translation - भाषांतर भगवतः श्रीकृष्णस्य पार्श्वे पिशाचद्वयानां आगमनम्वैशम्पायन उवाचतेषामनु महाघोरौ पिशाचौ विकृताननौ ।प्रांशू पिङ्गलरोमाणौ दीर्घजिह्वौ महाहनू ॥१॥लम्बकेशौ विरूपाक्षौ ही ही हा हेति वादिनौ ।खादन्तौ मांसपिटकं पिबन्तौ रुधिरं बहु ॥२॥अन्त्रवेष्टितसर्वाङ्गौ दीर्घौ कृशकृतोदरौ ।लम्बमानमहाप्रान्तशूलप्रोतशिरोधरौ ॥३॥कर्षन्तौ शवयूथानि बाहुभ्यां तत्र तत्र ह ।हसन्तौ विविधं हासं स्वजातिसदृशं नृप ॥४॥वदन्तौ बहुरूपाणि वचांसि प्राकृतानि च ।कम्पयन्तौ महावृक्षानूरुपादप्रघट्टनैः ॥५॥सृक्किणीं लेलिहन्तौ च दन्तान्कटकटायिनौ ।अस्थिस्नायुसमाकीर्णौ धमनीरज्जुसंततौ ॥६॥वदन्तौ कृष्ण कृष्णेति माधवेति च संततम् ।कदा नु द्रक्ष्यते विष्णुः स इदानीं क्व तिष्ठति ॥७॥स्वामिनः कुत्र वसतिः कुतो द्रष्टुं यतामहे ।अत्र वा कुत्र देवेशः कुतो नु स्थास्यते हरिः ॥८॥कुतः पद्मपलाशाक्षः साक्षादिन्द्रानुजो हरिः ।यमाहुः पुण्डरीकाक्षं ब्रह्म ब्रह्मविदो जनाः ॥९॥तमजं पुरुषं विष्णुं द्रष्टुमभ्युद्यता वयम् ।अन्तकाले जगन्नाथं प्रविवेश जगत्त्रयम् ॥१०॥तमजं विश्वकर्तारं कुतो द्रक्ष्याम साम्प्रतम् ।यस्य विस्तार एवैष लोकः प्राणिनिवासिनः ॥११॥तं द्रष्टुं देवमीशानं यतामः साम्प्रतं हरिम् ।दशा घोरतमा लोके विद्विष्टा सर्वजन्तुभिः ॥१२॥पैशाचीयं समुत्पन्ना कथं नौ प्राविशद्बलात् ।नरमांसास्थिकलुषा सर्वभीतिप्रदायिनी ॥१३॥अहो नौ दुष्कृतं कर्म प्राक्तने कर्मसंचये ।अत्रैव महती प्रीतिर्वर्तते सर्वदा तथा ॥१४॥यावन्नौ दुष्कृतं कर्म तावत्स्थास्यति तादृशी ।दशा सा सर्वविद्विष्टा प्राणिपीडनकारिणी ॥१५॥सर्वथा दुष्कृतं कर्म बहुभिर्जन्मसंचयैः ।तथा हि तत्फलं घोरमद्यापि न निवर्तते ॥१६॥यताः स्म प्राणिनो हन्तुं श्वगणैः सह साम्प्रतम् ।तथा हि प्राणिनो लोके बाल्यमादौ समास्थिताः ॥१७॥अज्ञानावृतचित्ताश्च कृत्याकृत्यं न जानते ।तथा यौवनिनो भ्रान्ता विषयैर्बहुलीकृताः ॥१८॥यतन्ते श्रेयसे नैव ततो विषयसंस्थिताः ।विषयाविष्टचित्ता हि मनुष्या न विजानते ॥१९॥तथा च वृद्धभावे तु व्याधिभिर्बहुभिर्वृताः ।ज्वरादिभिर्महाघोरैर्नानादुःखविधायिभिः ॥२०॥यतन्ते न हि वै श्रेयो विनष्टेन्द्रियगोचराः ।ततो मृता गर्भवासे वसन्ति सततं नराः ॥२१॥विण्मूत्रकलिले घोरे दुःखैर्बहुभिराचिताः ।च्यवन्ते तु ततो घोराद्गर्भात्संसारमण्डले ॥२२॥परस्परं विहिंसन्तः कुर्वन्तः कर्मसंचयम् ।महत्येवं सदा घोरे संसारे दुःखसंकुले ॥२३॥पापानि बहुरूपाणि कुर्वतेऽज्ञानतस्तदा ।संसारस्यैष महिमा विस्तृतः सर्वजन्तुषु ॥२४॥अच्छेद्यः शस्त्रसम्पातैरुपायैर्बहुभिः सदा ।एतस्मान्न निवर्तन्ते मर्त्याः प्राकृतबुद्धयः ॥२५॥इमं हत्वा मनुष्येन्द्रमिदमस्माद्धराम्यहम् ।चोरयित्वा धनमिदं हरिष्याम्याददाम्यहम् ॥२६॥निर्भर्त्स्यैनमिमं शान्तं हरिष्यामि धनं बली ।इत्यादिव्याकुला मूर्खा यतन्ते प्राणिपीडनम् ॥२७॥अस्यैव दुःखमूलस्य संसारस्य सदा हरिः ।भेषजं सर्वथा देवः शङ्खचक्रगदाधरः ।आदिदेवः पुराणात्मा आत्मा ब्रह्मविदां सदा ॥२८॥ते वयं सर्वयत्नेन द्रक्ष्यामः सर्वथा हरिम् ।इत्थं पिशाचौ भाषन्तौ प्रादुरास्तां हरेः पुरः ॥२९॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायामेकोनाशीतितमोऽध्यायः ॥७९॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP