संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| एकादशाधिकशततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - एकादशाधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकादशाधिकशततमोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य गोलक्रीडा, सुधर्मासभायां दुर्वासादीनां मुनीनां आगमनं, यादवेभिः कृष्णेन च तेषां सत्कारं, श्रीकृष्णेन तेभ्यः आगमनस्य कारणस्य पृच्छा, दुर्वाससा भगवतः स्तुति एवं उपालम्भनपूर्वकं तस्य प्रश्नस्य प्रतिवादं कृत्वा स्वदुर्दशायाः वृत्तान्तकथनम्वैशम्पायन उवाचअथ सर्वेश्वरो विष्णुः पद्मकिंजल्कलोचनः ।श्यामः पीताम्बरः श्रीमान् प्रलम्बाम्बरभूषणः ॥१॥किरीटी श्रीपतिः कृष्णो नीलकुञ्चितमूर्धजः ।अव्यक्तः शाश्वतो देवः सकलो निष्कलः शिवः ॥२॥क्रीडाविहारोपगतः कदाचिदभवद्धरिः ।कुमारैरपरैः सार्धं सात्यकिप्रमुखैर्नृप ॥३॥गोलक्रीडां सुधर्माया मध्ये यादवसत्तमः ।चकार प्रियकृत् कृष्णो युयुधानेन केशवः ॥४॥ममायं प्रथमो गोलस्तव पश्चाद् भविष्यति ।इति ब्रुवंस्तदा विष्णुः सात्यकिं कमलेक्षणः ॥५॥पार्श्वस्था यादवास्तस्य वसुदेवपुरोगमाः ।उद्धवप्रमुखा राजन्नासेदुः क्वचिदत्र वै ॥६॥अन्यव्यापाररहितो भूतात्मा भूतभावनः ।विजहार यथा रामः सुग्रीवेण पुरा नृप ॥७॥मध्यंदिने महाविष्णुः शैनेयेन सहाच्युतः ।विक्रीड्य सुचिरं कृष्ण उपारंसीत् स यादवः ॥८॥द्वाःस्थेन वारिताः पूर्वं द्वार्येव च समास्थिताः ।इदमन्तरमित्येव विविशुस्तां सभां नृप ॥९॥यतयो दीर्घतपसः पुरस्कृत्य तपोधनम् ।दुर्वाससं सुमनसो ददृशुर्यादवेश्वरम् ॥१०॥गोलक्रीडासमासक्तं करसंस्थितगोलकम् ।पद्मपत्रविशालाक्षं विष्णुं तं सात्यकिं हरिम् ॥११॥एकेनाक्ष्णा ह्लादयन्तं परेणान्येन गोलकम् ।यतयश्च महाराज प्रत्यदृश्यन्त तत्पुरः ॥१२॥वृष्णिपः पुण्डरीकाक्षः सात्यकिर्बलभद्रकः ।वसुदेवस्तथाक्रूरः उग्रसेनस्तथा नृप ॥१३॥अन्ये च यादवाः सर्वे सम्भ्रमं प्रतिपेदिरे ।इदं किमिदमित्येवं व्याशङ्कमनसोऽभवन् ॥१४॥पृष्ठतोऽप्यनुगच्छन्ति दिधक्षन्तं जगत्त्रयम् ।अर्धकौपीनवसनं स्मरन्तं कमपि द्विजम् ॥१५॥अन्तस्तापसमायुक्तं छिन्नदण्डधरं यतिम् ।अन्तर्ज्वलन्तं रोषेण हंसासादितकल्मषम् ॥१६॥नेत्रोत्थितमहावह्निं प्रेक्षन्तं यादवेश्वरम् ।दुर्वाससं ते ददृशुर्भीता यादवसत्तमाः ॥१७॥किं करिष्यत्यसौ क्रुद्धः कि वा वक्ष्यति नः प्रभुः ।इति प्राञ्जलयः सर्वे यादवाः प्रतिपेदिरे ॥१८॥इदमासनमित्येवं किंचिदूचुश्च वृष्णयः ।ततः कृष्णो हृषीकेशः किंचिदुत्प्लुत्य तत्पुरः ॥१९॥इदमासनमित्येवं स्थीयतामिह निर्वृतः ।अहमद्य स्थितो विप्र किंकरोऽस्मीति चाव्रवीत् ॥२०॥ततः किंचिदिवासीन आसने यतिविग्रहः ।आसने संस्थिते तस्मिन् यतयो वीतमत्सराः ॥२१॥आसनानि यथायोगं भेजिरे निर्वृताः किल ।अर्घ्यादिसमुदाचारं चक्रे कृष्णः किरीटभृत् ॥२२॥आह भूयो हृषीकेशो यतिं दुर्वाससं प्रभुम् ।किमर्थं ब्रूहि विप्रेन्द्र अस्मिन् प्रत्यागमो हि वः ॥२३॥दृष्टं वा ह्यथवा किंचित् कारणं चास्ति वो महत् ।संन्यासिनो द्विजश्रेष्ठा यूयं विगतकल्मषाः ॥२४॥निःस्पृहाश्च सदा यूयमस्मत्तो द्विजपुङ्गवाः ।प्रार्थ्यं नाम न चैवास्ति स्पृहा नैवास्ति वो यतः ॥२५॥स्पृहाप्रेरितकर्माणः क्षत्रियान् यान्ति सुव्रताः ।निरूप्यमाणमस्माभिर्विप्र किंचिन्न दृश्यते ॥२६॥न जाने कारणं ब्रह्मन् युष्मदागमनं प्रति ।एतावता चानुमेयं किॆचित्कारणमस्ति वै ॥२७॥तद् ब्रूहि यदि विद्येत त्वत्तो ज्ञास्यामहे वयम् ।इत्युक्तवति देवेशे चक्रपाणौ जनार्दने ॥२८॥तस्यापि राजन्विप्रस्य भूयः कोपो महानभूत् ।तस्मादभ्यधिकः पूर्वात् कोपः संजायते महान्॥२९॥दिधक्षन्निव लोकांस्त्रीन् भक्षयन्निव पश्यतः ।रोषरक्तेक्षणः क्रुद्धो हसन्निव दहन्निव ॥३०॥उवाच वचनं विष्णुं दुर्वासा क्रोधमूर्च्छितः ।न जाने इति कस्मात् त्वं ब्रूषे नो यादवेश्वर ॥३१॥जानामि त्वां महादेवं वञ्चयन्निव भाषसे ।पुरातना वयं विष्णो पूर्ववृत्तान्तवेदिनः ॥३२॥यथा हि देवदेवोऽसि मायामानुषदेहवान् ।निगूहसे प्रभुरतः कस्मान्नो जगतीपते ॥३३॥सोऽसि ब्रह्मविदां मूर्तिस्तवैतत् परमं पदम् ।यदभ्यर्च्य पुरा ब्रह्मा यच्च ज्ञाना वयं पुरा ॥३४॥यतो विश्वमिदं भूतं तदेतत् परमं पदम् ।यच्च स्थूलं विजानन्ति पुरा तत्त्वेन चेतसा ॥३५॥पुराविदोऽथ विश्वेश यदेतत् परमं वपुः ।कर्मणा प्राप्यते यत्तु यत्स्मृत्वा निर्वृता वयम् ॥३६॥प्रत्यक्षमपि यद्रूपं नैव जानन्ति मानुषाः ।न हि मूढधियो देव न वयं तादृशा हरे ॥३७॥न जाने इति यद् ब्रूषे किमतः साहसं वचः ।ये हि मूलं विजानन्ति तेषां तु प्रविवेचनम् ॥३८॥कुर्वतः किं फलं देव तव केशिनिषूदन ।वेदान्ते प्रथितं तेजस्तव चेदं विचार्यते ॥३९॥ये च विज्ञानतृप्तास्तु योगिनो वीतकल्मषाः ।पश्यन्ति हृत्सरोजेऽपि तदेवेदं वपुः प्रभो ॥४०॥वेदैर्यद् गीयते तेजो ब्रह्मेति प्रतिपाद्य वै ।तदेवेदं विजानेऽहं रूपमैश्वरमेव च ॥४१॥वैष्णवं परमं तेज इति वेदेषु पठ्यते ।अवगच्छाम्यहं विष्णो तदेवेदं वपुस्तव ॥४२॥य ओमित्युच्यते शब्दो यस्य वागिति गीयते ।स एवासि प्रभो विष्णो न जाने इति मा वद ॥४३॥परोक्षं यदि किंचित् स्यात् तव वक्तुं प्रयुज्यते ।न जाने इति गोविन्द मा वादीः साहसं हरे ॥४४॥विश्वं यतः प्रादुरासीद् यस्मिँल्लीन क्षये सति ।इदं तदैश्वरं तेजस्त्ववगच्छाघि केशव ॥४५॥कर्ता त्वं भूतभव्येश प्रतिभासि सदा हृदि ।यद् यद् रूपं स्मरे नित्यं तत् तदेवासि मे हृदि ॥४६॥वायुरेव यदा विष्णुरिति मे धीयते मतिः ।तदा तद्रूप एवासि हृन्मध्ये संस्थितो विभो ॥४७॥आकाशो विष्णुरित्येव कदाचिद्धीयते मतिः ।तदा तद्रूप एवासि हृन्मध्ये संस्थितो विभो ॥४८॥पृथिवी विष्णुरित्येतत् कदाचिद्धीयते मतिः ।तदा पार्थिवरूपस्त्वं प्रतिभासि सदा मम ॥४९॥रसोऽयं देव इत्येव कदाचिच्चिन्त्यते मया ।तदा रसात्मना विष्णो हृन्मध्येसंस्थितोविभो ॥५०॥यदा त्वां तेज इत्येवं स्मर्ता स्यां पुरुषोत्तम ।तदा तद्रूपसम्पन्नः प्रतिभासि सदा हृदि ॥५१॥चन्द्रमा हरिरित्येवं तदा चान्द्रमसं वपुः ।निरीक्ष्य चक्षुषा देव ततः प्रीतोऽस्मि केशव ॥५२॥यदा सौरं वपुरिति स्मर्ता स्यां जगतीपते ।तदा तद्भावनायोगात् सूर्य एव विराजसे ॥५३॥तस्मात् सर्वं त्वमेवासि निश्चिता मतिरीदृशी ।अतो न जानेऽहमिति वक्तुं नेशो जनार्दन ॥५४॥इत्यर्थं संस्थितो विष्णो पीडां नो नैव चिन्त्यसे ।अत्यन्तदुःखिता विष्णो वयं त्वामनुसंस्थिताः ॥५५॥ईदृशीयमवस्था नो नैतां स्मरसि केशव ।एतत् पुनर्भाग्यमतो नष्टमित्येव चिन्तये ॥५६॥मन्दभाग्या वयं विष्णो यतो नो न स्मरेः प्रभो ।कौचित् क्षत्रियदायादौ गिरीशवरगर्वितौ ॥५७॥नाम्ना च हंसडिम्भकौ बाधेते नो जनार्दन ।गार्हस्थ्यं हि सदा श्रेयो वदन्ताविति केशव ॥५८॥इतस्ततश्च धावन्तौ वदन्तौ बहु किल्बिषम् ।अयुक्तं बहु भाषन्तौ धर्षयन्तौ च नः सदा ॥५९॥इदमन्यत् कृतं देव असह्यं पापमुच्यते ।पश्येदं बहुधा देव भिन्नं भिन्नं सहस्रशः ॥६०॥शक्यं च दारवं पात्रं द्विदलान् वेणुकान् बहून् ।इदमप्यपरं पश्य तयोः साहसचेष्टितम् ॥६१॥कौपीनं बहुधा छिन्नं तदस्माकं महद्धनम् ।कृतं कपालमात्रेण कमण्डलु जगत्प्रभो ॥६२॥त्वं तु नो रक्षसे नित्यं क्षात्रं वै व्रतमास्थितः ।चित्रं चित्रमिदं देव रक्षस्यसि सदानिशम् ॥६३॥किं करिष्यामि मन्दात्मा मन्दभोग्या वयं विभो ।किं नः शरणमद्यैव तद् ब्रूहि जगतां पते ॥६४॥जीवन्तौ तौ यदि स्यातां नष्टा लोका इमे त्रयः ।न विप्रा न च राजानो न वैश्या न च पादजाः ॥६५॥अत्यन्तबलिनौ मत्तौ तीक्ष्णदण्डधरौ नृप ।न तयोः पुरतः स्थातुं शक्ता देवाः सवासवाः ॥६६॥न च भीष्मो न वा राजा वाह्लीको भीमविक्रमः ।यो हि वीरो जरासंधः क्षत्रियाणां भयंकरः ॥६७॥नैव च प्रायशः स्थातुं गिरीशवरदर्पिणोः ।तयोः कृष्ण हरे शक्तो नित्यमप्रतिसङ्गिनोः ॥६८॥तस्मात् त्वं जहि तौ वीरौ रक्ष लोकानिमान् प्रभो ।अन्यथा रक्षसीत्येवं व्यर्थः शब्दोऽत्र जायते॥६९॥बहुनात्र किमुक्तेन रक्ष रक्ष जनत्त्रयम् ।इत्युक्त्वा विररामैव दुर्वासाः क्रोधमूर्च्छितः ॥७०॥इति श्रीमहाभारते खिलभागे हरिवंशे भबिष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासः समागमे एकादशाधिकशततमोऽध्यायः ॥१११॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP