TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
सप्तविंशोऽध्यायः

भविष्यपर्व - सप्तविंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


सप्तविंशोऽध्यायः
मधोः पतनात् समस्तेषु प्राणिषु हर्षं, तत्र एकत्रितानां पर्वतानां वसन्त ऋतोश्च वर्णनं, मधुवाहिनी नद्याः प्राकट्यं, गौरीसिद्ध्याः माहात्म्यम्

वैशम्पायन उवाच
मधोर्निपतनं दृष्ट्वा सर्वभूतानि पुष्करे ।
प्रहृष्टानि प्रगायन्ति प्रनृत्यन्ति च सर्वशः ॥१॥
सुपार्श्वो गिरिमुख्यस्तु काञ्चनैः शिखरोत्तमैः ।
बहुधातुविचित्रैश्च खं लिखन्निव चाबभौ ॥२॥
गिरयश्चाभिशोभन्ते धातुभिः समरञ्जिताः ।
प्रांशुभिः शिखराग्रैश्च सविद्युत इवाम्बुदाः ॥३॥
पक्षवातोद्धतो रेणुश्चूर्णैः साञ्जनवालुकैः ।
छादयन् पर्वताग्राणि महामेघ इवाबभौ ॥४॥
मेघसंश्लिष्टशिखराः पक्षविक्षिप्तपादपाः ।
काञ्चनोद्भेदबहुलाः खे तिष्ठन्तीव पर्वताः ॥५॥
पक्षवन्तः सशिखरा हेमधातुभिरञ्जिताः ।
पवनेन समुद्भूतास्त्रासयन्ति विहङ्गमान् ॥६॥
काञ्चनाः पर्वताः सर्वे स्फाटिकैर्मणिभिश्चिताः ।
सूर्यकान्तैश्च बहुभिश्चन्द्रकान्तैश्च निर्मलाः ॥७॥
हिमवांश्च महाशैलः श्वेतैर्धातुभिराचितः ।
काञ्चनैः शिखराग्रैश्च सूर्यपादप्रकाशितैः ॥८॥
मणिभिश्च प्रकाशद्भिः पक्षान्तरविनिःसृतैः ।
ताम्रपुष्पैश्च शिखरैर्दीप्यमानैः स्वतेजसा ॥९॥
मन्दरश्चोग्रशिखरः स्फाटिकैर्मणिभिश्चितः ।
वज्रगर्भो निरालम्बैः स्वर्गोपम इवाबभौ ॥१०॥
सहस्रशृङ्गः कैलासः शिलाधातुविभूषितः ।
तोरणैश्चैव निबिडैः प्रांशुभिश्चैव पादपैः ॥११॥
प्रवादयद्भिर्गन्धर्वैः किन्नरैश्च प्रगायिभिः ।
देवकन्याङ्गरागैश्च प्रक्रीडाद्रिरिवाबभौ ॥१२॥
मधुरैर्वाद्यगीतैश्च नृत्यैश्चाभिनयोद्गतैः ।
शृङ्गारैः साङ्गहारैश्च कैलासो मदनायते ॥१३॥
आदित्याभासिभिः शृङ्गैर्भिन्नाञ्जनचयोपमैः ।
विन्ध्यो नीलाम्बुदश्यामो विभिन्न इव तोयदः ॥१४॥
धात्वर्थं सर्वभूतानां मेरुपृष्ठे महाबले ।
निर्वेमुर्विमलं तोयं मेघजालैरिवोत्तमैः ॥१५॥
शिलाभिर्बहुचित्राभिर्धातुभिर्बहुरूपिभिः ।
प्रस्रवद्भिर्गुहाद्वारैः सलिलं स्फटिकप्रभम् ॥१६॥
ग्रीष्मान्ते वायुसंगूढा घना इव सविद्युतः ।
चित्रैः पुष्पैस्तरुगणाः शोभन्त इव भूषिताः ॥१७॥
नागाः कनकसम्भूतैर्विचित्रैरिव भूषिताः ।
विहंगमाभिलीनाश्च लतास्तरुसमाश्रिताः ॥१८॥
विलम्बन्त्यः सपुष्पाश्च नृत्यन्ते वायुघट्टिताः ।
पवनेन समुद्भूता महता माधवेऽहनि ॥१९॥
मुमुचुः पुष्पसंघातं तोयं वेलेव वर्षति ।
फलवद्भिश्च विपुलैः शास्त्रास्कन्धावरोहिभिः ।
पादपैर्वर्णबहुलैर्ध्रियेत च वसुंधरा ॥२०॥
मधुप्रिया मधुकरा मधुमत्ता विहंगमाः ।
घोषयन्तीव गायन्तः कामस्यागमसम्भवम् ॥२१॥
विष्णुर्मधोर्निहन्ता च चकार मधुवाहिनीम् ।
नदीं प्रस्रवनिर्भेदां सुतीर्था बहुलोदकाम् ॥२२॥
अंगारवर्णसिकतां मधुतीर्थां मनोरमाम् ।
विमलैरम्बुभिः पूर्णां पुष्पसंचयवाहिनीम् ॥२३॥
विवेश पुष्करं सा तु ब्रह्मणो वाक्यनोदिता ।
ऋषिभिश्चानुचरिता ब्रह्मतन्त्रनिषेविभिः ॥२४॥
धात्री कपिलरूपेण गौर्भूत्वा क्षरते पयः ।
मधुरं वितते यज्ञे ब्रह्मणो वाक्यचोदिता ॥२५॥
सरश्च पृथिवीभूतं संधातुं प्राप्तवन्महीम् ।
शुद्धं च भजते लोकं शाश्वतं परमाद्भुतम् ॥२६॥
सरस्वत्याः समुद्भूतं ब्रह्मक्षेत्रे तमोनुदम् ।
मरुतीर्थमतिक्रम्य पुष्करेषु विसर्पति ॥२७॥
सुचारुरूपा धर्मज्ञा अजा रूपेण छादयन् ।
रूपं कनकवर्णाभं तपोयुक्तेन चेतसा ॥२८
अजगन्धकृतोन्मुक्तः सम्भूतः पर्वतो महान् ।
गुरुद्धारगुणप्राणः शाश्वतः सिद्धसेवितः ॥२९॥
वेदिकाभिः सुचित्राभिः काञ्चनाभिर्विराजितः ।
पुष्कराणि परीतानि त्वष्ट्रा विपुलदक्षिण ॥३०॥
महामेरोर्यथा रूपं पञ्चभिर्धातुभिर्वृतः ।
चेतना याभिसम्पन्नो रूपेणाद्भुतदर्शनः ॥३१॥
करिष्याम्यहमप्येतन्मनसा धर्मचारिणम् ।
रूपं बहुविधं लोके पार्थिवीं चेतनां तथा ॥३२॥
त्रींश्च लोकान् प्रपद्येयं पञ्चभिर्धातुलक्षणैः ।
षष्ठेन च ससर्जेयं मनसा धर्मचारिणीम् ॥३३॥
सङ्गेषु भावमोहाभ्यां पश्यन्ति च समृद्धयः ।
विमुक्ताः सर्वसङ्गेभ्यो धारयन्ति परिग्रहान् ॥३४॥
न च विन्देत मां कश्चिन्मनसा कामरूपिणम् ।
पञ्चधातुनिबद्धश्च नानाभाषितचोदनः ॥३५॥
ये च विष्णुमधीयन्ते बहुधा कामविग्रहैः ।
ते मां पश्येयुरव्यक्तं तपसा दग्धकिल्बिषाः ॥३६॥
ये च मामभिरोहेयुर्नरा धर्मपथे स्थिताः ।
तेऽपि स्वर्गजितः सन्तः पश्येयुर्मां गतक्लमाः ॥३७॥
यश्चैव पर्वतः प्रांशुर्मेरुपृष्ठे व्यवस्थितः ।
एतमारुह्य युध्येयुः प्राणत्यागे सुनिर्मलाः ॥३८॥
अप्सरोभिः समागम्य विचरेयुर्मनोजवाः ।
नन्दनं वनमारुह्य काम्यकं च महद्वनम् ॥३९॥
इमां विद्यां समास्थाय मद्भक्ताः पुष्करेष्विह ।
शरीरं क्षपयिष्यन्ति व्रतैर्बहुविधैः कृतैः ॥४०॥
सिद्धिं प्राप्य क्रमेयुस्ते कामैर्बहुविधैर्नराः ।
इमं लोकममुं चैव सम्पतेयुर्यथासुखम् ॥४१॥
गौरी सिद्धेतिव्याख्याता त्रिषु लोकेषु विद्यया ।
प्रभावं तपसा वृत्तं दर्शयन्ती समाहिताः ॥४२॥
षण्णां ज्ञानाभिसंधीनामभिज्ञानात् ससंग्रहाः ।
भवेयुस्ते निरारम्भा धातुनिर्मुक्तबन्धनाः ॥४३॥
सहस्रगुणमप्यत्र दत्त्वा दानफलादिव ।
अविमानेन विप्राणां मनःशुद्धेन कर्मणा ॥४४॥
सर्वत्रैवाप्रमेयेण अत्यन्तं फलमाप्नुयुः ।
अमुष्मिँल्लोके धर्मज्ञाः सह सर्वकुलोद्भवैः ॥४५॥
येषामिह च सांनिध्यं यज्ञे ब्राह्मणसंकुले ।
ते भूयो यजमानाद्या अभिषिच्य पुनः पुनः ॥४६॥
तथा तां मन्यसे गौरीं मनसा धर्मचारिणीम् ।
अनुग्रहाय भूतानां तन्ममाग्रे तपोधने ॥४७॥
सत्य एष परोऽविद्ये भविता नात्र संशयः ।
नाफलो विद्यते धर्मश्चरितो धर्मचारिणा ॥४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सप्तविंशोऽध्यायः ॥२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:32:33.0630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धणधोपट

  • वि. धणकट ; ( प्र . ) धडधोप , धडधोपट . 
RANDOM WORD

Did you know?

परदेशात १३ हा आंकडा अशुभ कां मानतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site