संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
त्र्यधिकशततमोऽध्यायः

भविष्यपर्व - त्र्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


हंसडिम्भकाभ्यां विषये जनमेजयस्य प्रश्नम्

जनमेजय उवाच
भूय एव द्विजश्रेष्ठ शङ्खचक्रगदाभृतः ।
चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥१॥
न हि मे तृप्तिरस्तीह शृण्वतः कैशवीं कथाम् ।
को नु नाम हरेर्विष्णोर्देवदेवस्य चक्रिणः ॥२॥
शृण्वंस्तथा रमन् वापि तृप्तिं याति दिवानिशम् ।
पुरुषार्थोऽयमेवैको यत्कथाश्रवणं हरेः ॥३॥
कथमासीज्जगद्धेतोर्हंसस्य डिम्भकस्य च ।
समितिः सर्वभूतानां सदा विस्मयदायिनी ॥४॥
विचक्रस्य कथं युद्धं दानवस्य महात्मनः ।
स तयोर्मित्रतां यात इत्येवमनुशुश्रुम ॥५॥
तौ सुतौ वीर्यसम्पन्नौ शिष्यौ भृगुसुतस्य ह ।
सर्वास्त्रकुशलौ वीरौ हराल्लब्धवरौ किल ॥६॥
संग्रामः सुमहानासीदित्युक्तं भवता पुरा ।
तयोश्च नृपयोर्विप्र केशवस्य जगत्पतेः ॥७॥
कस्य पुत्रौ समुत्पन्नौ यथाभूद् विग्रहो महान् ।
अष्टाशीतिसहस्राणि दानवानां तरस्विनाम् ॥८॥
बलान्यथ विचक्रस्य शितशूलधराणि च ।
आसन् युद्धे महाराज दानवस्य जयैषिणः ॥९॥
यदूनामन्तरं प्रेप्सुर्यदूनां युद्धकाङ्क्षया ।
देवासुरे महायुद्धे देवाञ्जयति दुर्धरः ।
तद्वधार्थं सदा यत्नमकरोच्चैव केशवः ॥१०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने जनमेजयवाक्ये त्र्यधिकशततमोऽध्यायः॥१०३॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP