संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| चतुरशीतितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - चतुरशीतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुरशीतितमोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य कैलासं प्रापयित्वा तत्र द्वादशवर्षेभ्यः कठोरतपश्चरणम्वैशम्पायन उवाचततः स भगवान्विष्णुर्मुनिभ्यस्तत्त्वमादितः ।कथयामास यद् वृत्तं पिशाचस्य महात्मनः ॥१॥तच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ।अहोऽस्य कर्मणः पाकस्तव संदर्शनात्तत ॥२॥अर्चितो मुनिभिः सर्वैः प्रीतः प्रीतिमतां प्रियः ।ततः प्रभाते विमले सूर्ये चाभ्युदिते सति ॥३॥आरुह्य गरुडं विष्णुर्ययौ कैलासमुत्तमम् ।भवद्भिस्तत्र गन्तव्यमित्युक्त्वा मुनिसत्तमान् ॥४॥यत्र विश्वेश्वराः सिद्धास्तपस्यन्ति यतव्रताः ।यत्र वैश्रवणः साक्षादुपास्ते शंकरं सदा ॥५॥यश्च तन्मानसं नाम सरो हंसालयं महत् ।यत्र भृङ्गीरिटिर्देवमुपास्ते शंकरं शिवम् ॥६॥गाणपत्यमवाप्याथ हरपार्श्वचरः सदा ।यत्र सिंहा वराहाश्च द्विपद्वीपिमृगैः सह ॥७॥क्रीडन्ति वन्यरतयः परस्परहिते रताः ।यत्र नद्यः समुत्पन्ना गङ्गाद्याः सागरंगमाः ॥८॥यत्र विश्वेश्वरः शम्भुरच्छिनद् ब्रह्मणः शिरः ।यत्रोत्पन्ना महावेत्रा भूतानां दण्डतां ययुः ॥९॥उमया यत्र सहितः शंकरो नीललोहितः ।ऋषिभिः प्रार्थितः पूर्वं ददौ यत्र गिरिः सुताम् ॥१०॥शंकराय जगद्धात्रे शिवाय जगतीपते ।यत्र लेभे हरिश्चक्रमुपास्य बहुभिर्दिनैः ॥११॥पुष्करैः शतपत्रैश्च नेत्रेण च जगत्पतिम् ।गुहां यत्र समाश्रित्य क्रीडन्ते सिद्धकिन्नराः ॥१२॥प्रियाभिः सह मोदन्ते पिबन्ते मधु चोत्तमम् ।यमुद्धृत्य भुजैः सर्वैः पौलस्त्यो विरराम ह ॥१३॥तमारुह्य महाशैलं देवकीनन्दनो हरिः ।मानसस्योत्तरं तीरं जगाम यदुनन्दनः ॥१४॥तपश्चर्तुं किल हरिर्विष्णुः सर्वेश्वरः शिवः ।जटी चीरी जगन्नाथो मानुषं वपुरास्थितः ॥१५॥तपसे धृतचित्तस्तु शुचौ भूमावुपाविशत् ।अवरुह्य ततो यानाद् गरुडाद्वेदसम्मितात् ॥१६॥द्वादशाब्दं तपश्चर्तुं मनो दध्रे ततो हरिः ।फाल्गुनेन तु मासेन समारेभे जगत्पतिः ॥१७॥शाकभक्षः कृतजपो वेदाध्ययनतत्परः ।किमुद्दिश्य जगन्ताथस्तपश्चरति मानवः ॥१८॥तं न विद्मो यथाकामं दुर्ज्ञेयेश्वरचिन्तना ।तपस्यति तदा विष्णौ पर्वते भूतसेविते ॥१९॥गरुडः कश्यपसुत इन्धनानि समाचिनोत् ।होमार्थं वासुदेवस्य चरतस्तप उत्तमम् ॥२०॥चक्रराजोऽथ पुष्पाणि संचिनोति तदा हरेः ।दिक्षु सर्वासु सर्वत्र ररक्ष जलजस्तदा ॥२१॥खड्ग आहृत्य यत्नेन कुशान् सुबहुशस्तदा ।गदा कौमोदकी चैव परिचर्या चकार ह ॥२२॥धनुःप्रवरमत्युग्रं शार्ङ्ग दानवभीषणम् ।स्थितं हि पुरतस्तस्य यथेष्टं भृत्यवत् स्वयम् ॥२३॥जुहोति भगवान् विष्णुरेधोभिर्बहुभिः सदा ।आज्यादिभिस्तदा हव्यैरग्निं सम्पूज्य माधवः ॥२४॥सप्तार्चिषः समाप्तिं च समस्तव्यस्ततः कृती ।एकस्मिन्नेकदा मासे भुञ्जानो नियतात्मवान् ॥२५ ।द्वितीये त्वथ पर्याये भुञ्जन्नेकेन केशवः ।एकस्मिन् वत्सरे भुञ्जंस्तथैवैकेन केनचित् ॥२६॥समाप्य तत् तपः सर्वमेवमेव जगत्पतिः ।द्वादशाब्दे तथा पूर्णे ऊनमासे जगत्पतिः ॥२७॥जुह्वन्नग्निं समास्थाय पठन् मन्त्रं जनार्दनः ।आरण्यकं पठन् विष्णुः साक्षात् सर्वेश्वरो हरिः ।आस्ते ध्यानपरस्तत्र पठन् प्रणवमुत्तमम् ॥२८॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायांकृष्णतपोवर्णने चतुरशीतितमोऽध्यायः ॥८४॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP