संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
त्रयोदशाधिकशततमोऽध्यायः

भविष्यपर्व - त्रयोदशाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


जनार्दनस्य हंसाय सत्परामर्शं, हंसेन तस्य उपेक्षां कृत्वा तं दूतं कृत्वा द्वारकायां प्रेषणम्

वैशम्पायन उवाच
दुर्वासास्त्वथ तत्रैव नारदेन महात्मना ।
चिन्तयन् ब्रह्मणस्तत्त्वं विजहार यथासुखम् ॥१॥
भगवानपि गोविन्दस्तयोर्वासममन्यत ।
ततस्तौ हंसडिम्भकौ तस्मिन्काले महीपतिम् ॥२॥
ब्रह्मदत्तं महीपालं पितरं वीर्यशालिनम् ।
प्रावोचतामिदं वाक्यं समन्ताज्जनसंसदि ॥३॥
राजसूयं महायज्ञं पितः कुरु सुयत्नतः ।
अस्मिन् मासि नृपश्रेष्ठ यतावो यज्ञसिद्धये ॥४॥
आवां तेऽद्य महाराज दिशां विजयतत्परौ ।
यतिष्यावो बलैः सार्धं गजैरश्वै रथैरपि ॥५॥
सम्भारा यज्ञसिद्ध्यर्थमानेतव्या नृपोत्तम ।
तथेति स महावाहो ब्रह्मदत्तोऽब्रवीत् तदा ॥६॥
जनार्दनस्तु विप्रेन्द्रो दृष्ट्वा साहसतत्परौ ।
अशक्यमिति मन्वानो वयस्यं हंसमब्रवीत् ॥७॥
शृणु हंस वचो मह्यं श्रुत्वा निश्चित्य वीर्यवान् ।
आयुष्मन् साहसं कर्तुमुद्यतोऽसि नृपोत्तम ॥८॥
स्थिते भीष्मे जरासंधे बाह्लीके च नृपोत्तमे ।
किं च वीरेषु सर्वेषु यादवेषु नृपोत्तम ॥९॥
भीष्मो हि बलवान् वृद्धः सत्यसंधो जितेन्द्रियः॥
त्रिःसप्तकृत्वः पृथिवीं यो जिगाय भृगूत्तमः ॥१०॥
तं युद्धे जितवान् भीष्मः सर्वक्षत्रस्य पश्यतः ।
जरासंधस्य यद् वीर्यं तद् भवान्वेत्ति संयुगे ॥११॥
वृष्णिवीरास्तु ते सर्वे कृतास्त्रा युद्धदुर्मदाः ।
तत्र कृष्णो हृषीकेशो जितशत्रुः कृती सदा ॥१२॥
जरासंधेन सहितः सदा युद्धे जितश्रमः ।
प्रमुखे तस्य न स्थातुं शक्तो जीवन् नृपोत्तमः ॥१३॥
बलभद्रस्तथा मत्तः क्रुद्धो यदि भवेद् बली॥
लोकानिमान् समाहर्तुं शक्नोतीति मतिर्मम ॥१४॥
तथा च सात्यकिर्वीरः शक्तो जेतुं रणे रिपून् ।
तथान्ये यादवाः सर्वे कृष्णमाश्रित्य दंशिताः ॥१५॥
अस्माभिश्च कृतः पूर्वं विरोधो यतिभिः सह ।
दुर्वासा यतिभिः सार्धं गतो द्रष्टुं स केशवम् ॥१६॥
इति श्रुतं नृपश्रेष्ठ ब्राह्मणाद् भोक्तुमागतात् ।
तथा सति यथा सिद्ध्येत्तथा चिन्त्यं च मन्त्रिभिः॥१७॥
ततः पत् विधास्यामो राजसूयं महाक्रतुम् ।
हंस उवाच
को नाम भीष्मो मन्दात्मा वृद्धो हीनबलः सदा ॥१८॥
आवयोः पुरतः स्थातुं शक्तः स किल वृद्धकः ।
यादवा इति चित्रं नः शक्ताः स्थातुं रणे द्विज ॥१९॥
कश्च कृष्णः पुरः स्थातुं बलदेवश्च मत्तकः ।
शैनेयश्चापि विप्रेन्द्र स्थातुं न इति चिन्तय ॥२०॥
जरासंधस्तु धर्मात्मा बन्धुरेव सदा मम ।
गच्छ प्रिय यदुश्रेष्ठं ब्रूहि मद्वचनात् त्वरन् ॥२१॥
दीयतां करसर्वस्वं यज्ञार्थं सुन्दरं बहु ।
लवणानि बहून्यद्य गृह्य केशव मा चिरम् ॥२२॥
आगच्छ त्वरितं कृष्ण न ते कार्यं विलम्बनम् ।
इति ब्रूहि यदुश्रेष्ठं याहि त्वरितविक्रमः ॥२३॥
न ब्रूयाश्चोत्तरं विप्र शपेयं त्वां प्रियोऽसि मे ।
मित्रभावादिदं ब्रूहि पश्यामि त्वां पुनः पुनः ॥२४॥
इति संचोदितो विप्रो नोत्तरं प्रत्यभाषत ।
मित्रभावात् तथा राजन् स्नेहाच्च जनमेजय ॥२५॥
जनार्दनस्तु धर्मात्मा नित्यं गन्तुं समुद्यतः ।
अद्य श्वो वा परश्वो वा गच्छामीति यतेत सः ॥२६॥
देवं द्रष्टुं जगद्योनिं शङ्खचक्रगदाधरम् ।
एक एव च धर्मात्मा हयमारुह्य सत्वरम् ॥२७॥
प्रातरेव जगामाशु द्रष्टुं द्वारवतीं द्विजः ।
हरिं कृष्णं हृषीकेशं मनसा संस्मरन् द्विजः ॥२८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने त्रयोदशाधिकशततमोऽध्यायः ॥११३॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP