TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
षड्विंशत्यधिकशततमोऽध्यायः

भविष्यपर्व - षड्विंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


षड्विंशत्यधिकशततमोऽध्यायः
हिडिम्बेन सार्द्धं वसुदेवउग्रसेनयोः युद्धं, बलभद्रेण हिडिम्बस्य वधम्

वैशम्पायन उवाच
वसुदेवोग्रसेनौ च वृद्धौ युद्धे सुनिर्वृतौ ।
जराजरितसर्वाङ्गौ पलिताङ्गशिरोरुहौ ॥१॥
ज्ञानविज्ञानसम्पन्नौ राजमार्गविशारदौ ।
युयुधाते महारङ्गे राक्षसेन दुरात्मना ॥२॥
शरैरनेकसाहस्रैरर्दयामासतू रणे ।
राक्षसेन्द्रं दुरात्मानं हिडिम्बं पुरुषादकम् ॥३॥
हिडिम्बो राक्षसेन्द्रस्तु भक्षयन्सर्वतो नरान् ।
अतिप्रवृद्धो दुष्टात्मा लम्बबाहुर्महाहनुः ॥४॥
लम्बोदरो विरूपाक्षः पिङ्गकेशो विलोचनः ।
श्येननासो महारौद्र ऊर्ध्वरोमा महाभुजः ॥५॥
पर्वताकारवर्ष्मा च दीर्घदंष्ट्रः शिवाननः ।
लम्बोदरो दीर्घदन्तो जगद्ग्रासपरस्तथा ॥६॥
उत्तुङ्गांसो महोरस्को दीर्घग्रीवो गजोपमः ।
भक्षयन् मांसपिटकं पिबञ्शोणितसंचयम् ॥७॥
गजान् नागैः समाहत्य हयैरश्वान् नृपोत्तम ।
रथान् रथैः समाहृत्य सादिनः सादिभिस्तथा ॥८॥
मनुष्यान् स पुरो दृष्ट्वा नास्यग्रासं चकार सः ।
कांश्चिद्धत्वा महाराज वृष्णिपालान्समन्ततः ॥९॥
भक्षयामास सहसा हिडिम्बः पुरुषादकः ।
यान् पश्यन् पुरतो रक्षस्ताञ्जघान विरूपधृक् ॥१०॥
भक्षयन्नपरान् वृष्णीन्यादवान्राक्षसेश्वरः ।
चिक्षेप सहसा कांश्चिद्धिडिम्बः पुरुषादकः ॥११॥
अन्तकाले यथा क्रुद्धो रुद्रः प्राणभृतो नृप ।
क्षणेनैकेन सर्वांस्तान् भक्षयामास राक्षसः ॥१२॥
केचिद् भीता दिशः प्रापुर्वृष्णयो वीर्यशालिनः ।
केचित् तु भक्षितास्तेन रक्षसा वृष्णिपुङ्गवाः ॥१३॥
कुम्भकर्णो यथा राजन् भक्षयामास वानरान् ।
निःशेषं वृष्णिसैन्यं तु चकार पुरुषादकः ॥१४॥
एतस्मिन्नन्तरे क्रुद्धौ वृद्धौ यादवपुङ्गवौ ।
धनुर्गृह्य महाघोरं राक्षसस्य पुरः स्थितौ ॥१५॥
यथा क्रुद्धस्य सिंहस्य मृगौ वृद्धतमाविव ।
व्यादायास्यं महारक्षस्तौ वृद्धावभ्यधावत ॥१६॥
चिखादिषुर्विरूपाक्षः पातालतलसंनिभः ।
ततो रक्षः पर्यधावत् खादत् खादत्कलेवरम् ॥१७॥
पूरयामासतुर्वीरौ शरैर्यदुवृषौ नृप ।
हिडिम्बस्य महाघोरं व्यादितास्यमिवान्तकम् ॥१८॥
सर्वांस्तान् वारयामास देवशत्रुर्विरूपधृक् ।
धावति स्म ततो रक्षो व्यादितास्यं भयानकम् ॥१९॥
तयोर्गृहीत्वा धनुषी बभञ्ज युधि सत्वरम् ।
बाहू प्रसार्य दुष्टात्मा राक्षसो विकृताननः ॥२०॥
वसुदेवं महीपालं राजानं वृद्धसेविनम् ।
ग्रहीतुं राक्षसश्रेष्ठो यतते नृपसंसदि ॥२१॥
हिडिम्ब उवाच
एष वां भक्षयिष्यामि वसुदेवं त्वया सह ।
उग्रसेन किमर्थ त्वं तिष्ठसे मत्पुरोगमः ॥२२॥
आगच्छ प्रविशास्यं मे ग्रासभूतौ तु वां मम ।
विधिना निर्मितो वृद्धो वसुदेवो हरेः पिता ॥२३॥
बुभुक्षितः श्रमार्तश्च युद्धे त्वरितविक्रमः ।
मन्मुखान्नैव गच्छेतां प्रविशेतां त्वरान्वितौ ॥२४॥
युवयोः शोणितं पीत्वा तृप्तिं यास्यामि निर्वृतः ।
खादामि च पुनर्मांसं वृद्धयोर्युवयोः सुखम् ॥२५॥
इति ब्रुवंस्तथा रक्षो व्यादितास्यो महाहनुः ।
धावति स्म तदा क्षिप्रं हिडिम्बो राक्षसेश्वरः ॥२६॥
वसुदेवोग्रसेनौ च भीतौ विप्रेक्ष्य सर्वतः ।
दिशोऽभ्यभजतां राजन्निःशस्त्रौ वृष्णिपुङ्गवौ ॥२७ ।
एतस्मिन्नन्तरे दृष्ट्वा बलभद्रः प्रतापवान् ।
दृष्ट्वा च तौ तथाभूतौ वसुदेवोग्रसेनकौ ॥२८॥
वासुदेवे समादिश्य हंसं युध्यन्तमीश्वरे ।
निर्गत्य चान्तरं तस्य राक्षसस्य दुरात्मनः ॥२९॥
मा कृथाः साहसं रक्षो मुञ्चैतौ राजसत्तमौ ।
स्थितोऽस्मि युध्यतां रक्षो मया शत्रूञ्जिघांसता॥३०॥
अहमेव हनिष्ये त्वां का चेयं तव भीषिका ।
इति ब्रुवाणं हलिनं तौ विसृज्य महारणे ॥३१॥
महानयमसौ दुष्टो भक्षयाम्येनमग्रतः ।
विदार्य पूर्ववद् वक्त्रं बलभद्रमुपाद्रवत् ॥३२॥
विसृज्य सशरं चापं राक्षसस्य पुरः स्थितः ।
मुष्टिं प्रगृह्य बलवान्स्फोटयन् बाहुमुत्तमम् ॥३३॥
हिडिम्बस्त्वथ दुष्टात्मा मुष्टिं कृत्वा भयानकम् ।
जघान वक्षो रामस्य व्यादितास्य इवान्तकः ॥३४॥
कुद्धोऽथ बलभद्रस्तु मुष्टिना तेन ताडितः ।
जघान मुष्टिना तेन राक्षसेशमनिन्दितः ॥३५॥
मुष्टियुद्धं समभवन्नरराक्षसवीरयोः ।
युद्ध्यतोर्युद्धरङ्गेऽथ नरराक्षससिंहयोः ॥३६॥
तयोश्चटचटाशब्दः. प्रादुरासीद् भयानकः ।
अथ राक्षसराजस्तु मुष्टिना राममाहवे ॥३७॥
जघान वक्षोदेशे तु वज्रेणेव पुरंदरः ।
अथ रामो बली साक्षान्मुष्टिं संवर्त्य यत्नतः ॥३८॥
हिडिम्बं ताडयामास वक्षस्यमरविद्विषम् ।
तलाभ्यामथ रामस्तु वक्त्रे हत्वा स राक्षसम् ॥३९॥
आहतस्तलघातेन हिडिम्बो राक्षसेश्वरः ।
जानुभ्यामपतद् भूमौ गतासुर्वीरराक्षसः ॥४०॥
तत उत्पत्य रामस्तु दोर्भ्यां संगृह्य राक्षसम् ।
आदाय बहुवेगेन भ्रामयित्वा पदात्पदम् ॥४१॥
व्याविध्यत् सुचिरं रामो दर्शयन्नात्मनो बलम् ।
उत्क्षिप्य राक्षसेन्द्रं तं सर्वलोकस्य पश्यतः ॥४२॥
गव्यूतिमात्रं चिक्षेप ततो देशाद्धलायुधः ।
गतासू राक्षसश्रेष्ठस्ततो देशान्निराक्रमत् ॥४३॥
ये केचिद् राक्षसास्तत्र हतशेषा महारणे ।
बलभद्रात् ततो भीता जग्मुश्चैवं दिशो दश ॥४४॥
अथांशुमाली भगवान् दिनेशः संहृत्य तेजांसि सहस्ररश्मिः ।
अस्तं ययौ चक्षुरपि प्रजानामीषत्तमश्चापि समाविवेश॥४५॥
तस्मिन् प्रविष्टेऽथ समुद्रतोयं प्रजापतौ विश्वमुखे जगद्गुरौ ।
नक्षत्रनाथः समुपाजगाम संध्यातमोऽपि व्यनशन्नृपोत्तम ॥४६॥
प्रभातकाले नृप सत्तमो रणो गोवर्धने किन्नरगीतनादिते ।
इति ब्रुवन्तो नृपसत्तमास्तदा व्युपारमंस्तत्र रणोत्सवे नृप ॥४७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हिडिम्बपराभवे षड्विंशत्यधिकशततमोऽध्यायः ॥१२६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T15:17:53.3600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fuse carrier

  • = fuse holder 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मृत माणसाचा दहावा, तेरावा आणि चौदावा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.