TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
पञ्चमोऽध्यायः

भविष्यपर्व - पञ्चमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


पञ्चमोऽध्यायः
व्यासादीनां गमनं, जनमेजयस्य अश्वमेधयागे इन्द्रस्य विघ्नं, जनमेजयेन इन्द्राय शापं, ब्राह्मणानां निर्वासनं स्वपत्न्याः भर्त्सना, विश्वावसुना जनमेजयाय परामर्शम्

सूत उवाच
इत्येवमाश्वासयतो राजानं जनमेजयम् ।
अतीतानागतं वाक्यमृषेः परिषदा श्रुतम् ॥१॥
अमृतस्येव संवाहः प्रभा चन्द्रमसो यथा ।
अतर्पयत तच्छ्रोत्रं महर्षेर्वाक्ययो रसः ॥२॥
धर्मकामार्थसंयुक्तं करुणं वीरहर्षणम् ।
रमणीयं तदाख्यानं कृत्स्नं परिषदा श्रुतम् ॥३॥
केचिदश्रूणि मुमुचुः श्रुत्वा दध्युस्तथापरे ।
इतिहासं तमृषिणा पाणाविव निदर्शितम् ॥४॥
सदस्यान् सोऽभ्थनुज्ञाय कृत्वा चापि प्रदक्षिणाम् ।
पुनर्द्रक्ष्याम इत्युक्त्वा जगाम भगवानृषिः ॥५॥
अनुजग्मुस्तदा सर्वे प्रयान्तमृषिसत्तमम् ।
लोके प्रवदतां श्रेष्ठं ये विशिष्टास्तपोधनाः ॥६॥
याते भगवति व्यासे तदा ब्रह्मर्षिभिः सह ।
ऋत्विजः पार्थिवाश्चैव प्रतिजग्मुर्यथागतम् ॥७॥
पन्नगानां सुघोराणां कृत्वा तां वैरयातनाम् ।
जगाम रोषमुन्मृज्य राजा विषमिवोरगः ॥८॥
होत्राग्निदीप्तशिरसं परित्राय च तक्षकम् ।
आस्तीकोऽथाश्रमपदं जगाम स महामुनिः ॥९॥
राजापि हास्तिनपुरं जगाम स्वजनावृतः ।
अन्वशासच्च मुदितस्तदा प्रमुदिताः प्रजाः ॥१०॥
कस्यचित् त्वथ कालस्य स राजा जनमेजयः ।
दीक्षितो वाजिमेधेन विधिवद् भूरिदक्षिणः ॥११॥
संज्ञप्तमश्वं तत्रास्य देवी काश्या वपुष्टमा ।
संविवेशोपगम्याथ विधिदृष्टेन कर्मणा ॥१२॥
तां तु सर्वानवद्याङ्गीं चकमे वासवस्तदा ।
संज्ञप्तमश्वमाविश्य तया मिश्रीबभूव सः ॥१३॥
तस्मिन् विकारे जनिते विदित्वा तत्त्वतश्च तत् ।
असंज्ञप्तोऽयमश्वस्ते ध्वंसेत्यध्वर्युमब्रवीत् ॥१४॥
अध्वर्युर्ज्ञानसम्पन्नस्तदिन्द्रस्य विचेष्टितम् ।
कथयामास राजर्षेः शशाप स पुरंदरम् ॥१५॥
जनमेजय उवाच
यद्यस्ति मे यज्ञफलं तपो वा रक्षतः प्रजाः ।
फलेनानेन सर्वेण ब्रवीमि श्रूयतामिदम् ॥१६॥
अद्यप्रभृति देवेन्द्रमजितेन्द्रियमस्थिरम् ।
क्षत्रिया वाजिमेधेन न यक्ष्यन्तीति शौनक ॥१७॥
ऋत्विजश्चाब्रवीत् क्रुद्धः स राजा जनमेजयः ।
दौर्बल्यं भवतामेतद् यदय धर्षितः क्रतुः ॥१८॥
विषये मे न वस्तव्यं गच्छध्वं सह बान्धवैः ।
इत्युक्तास्तत्यजुर्विप्रास्तं नृपं जातमन्यवः ॥१९॥
अमर्षादन्वशासच्च पत्नीशालागताः स्त्रियः ।
राजा परमधर्मज्ञस्तामसौ जनमेजयः ॥२०॥
असतीं वपुष्टमामेतां निर्यातयत मे गृहात् ।
यया मे चरणौ मूर्ध्नि पातितौ रेणुगुण्ठितौ ॥२१॥
शौण्डीर्यं मेऽनया भग्नं यशो मानश्च दूषितः ।
न चैनां द्रष्टुमिच्छामि परिक्लिष्टामिव स्रजम् ॥२२॥
न स्वादु सोऽश्नाति नरः सुखं स्वपिति वा रहः ।
अन्वास्ते यः प्रियां भार्यां परेण मृदितामिह ।
पुनर्नैवोपभुञ्जीत श्वावलीढं हविर्यथा ॥२३॥
एवमुच्चैः प्रभाषन्तं क्रुद्धं पारीक्षितं नृपम् ।
गन्धर्वराजः प्रोवाच विश्वावसुरिदं वचः ॥२४॥
विश्वावसुरुवाच
त्रियज्ञशतयज्वानं वासवस्त्वां न मृष्यते ।
अप्सरास्तेन पत्नी ते विहितेयं वपुष्टमा ॥२५॥
रम्भानामाप्सरा देवी काशिराजसुता मता ।
सैषा योषिद्वरा राजन् रत्नभूतानुभूयताम् ॥२६॥
यज्ञे विवरमासाद्य विघ्नमिन्द्रेण ते कृतम् ।
यज्वा ह्यसि कुरुश्रेष्ठ समृद्ध्या वासवोपमः ॥९७॥
बिभेत्यभिभवाच्छक्रस्तव क्रतुफलैर्नृप ।
तस्मादावर्तितश्चैव क्रतुरिन्द्रेण ते विभो ॥२८॥
मायैषा वासवेनेह प्रयुक्ता विघ्नमिच्छता ।
क्रतोर्विवरमासाद्य संज्ञप्तं दृश्य वाजिनम् ॥२९॥
रतिमिन्द्रेण रम्भायां मन्यसे यां वपुष्टमाम् ।
अथ ते गुरवः शप्तास्त्रियज्ञशतयाजिनः ॥३०॥
भ्रंशितस्त्वं च विप्राश्च बलादिन्द्रसमादिह ।
त्वत्तश्चैव सुदुर्धर्षात् त्रियज्ञशतयाजिनः ॥३१॥
बिभेति हि सदा त्वत्तो ब्राह्मणेभ्योऽपि वासवः ।
एकेन वै तदुभयं तीर्णे शक्रेण मायया ॥३२॥
स एष सुमहातेजा विजिगीषुः पुरंदरः ।
कथमन्यैरनाचीर्णं नप्तुर्दारानतिक्रमेत् ॥३३॥
यथैव हि परा बुद्धिः परो धर्मः परो दमः ।
यथैव परमैश्वर्यं कीर्तितं हरिवाहने ।
तथैव त्वयि दुर्धर्षे त्रियज्ञशतयाजिनि ॥३४॥
मा वासवं मा च गुरुमात्मानं मा वपुष्टमाम् ।
गच्छ दोषेण कालो हि सर्वथा दुरतिक्रमः ॥३५॥
ऐश्वर्येणाश्वमाविश्य देवेन्द्रेणासि रोषितः ।
आनुकूल्येन देवस्य वर्तितव्यं सुखार्थिना ॥३६॥
दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः ।
स्त्रीरत्नमुपभुङ्क्ष्वेमामपापां विगतज्वरः ॥३७॥
अपापास्त्यज्यमाना वै त्यजेयुरपि योषितः ।
अदुष्टास्तु स्त्रियो राजन्दिव्यास्तु सविशेषतः ॥३८॥
भानोः प्रभा शिखा वह्नेर्वेदी होत्रे तथाहुतिः ।
परामृष्टाप्यसंसक्ता नोपदुष्यन्ति योषितः ॥३९॥
ग्राह्या लालयितव्याश्च पूज्याश्च सततं बुधैः ।
शीलवत्यो नमस्कार्याः पूज्याः श्रिय इव स्त्रियः ॥४०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि विश्वावसुवाक्ये पञ्चमोऽध्यायः ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:13:35.9830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

balancing of telegraph-lines

  • दूरलेखन तारमार्ग संतुलन 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.