संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
चतुर्विंशोऽध्यायः

भविष्यपर्व - चतुर्विंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


चतुर्षु आश्रमेषु स्थितानां ब्राह्माणानां ब्रह्मणः यज्ञस्थलस्य पुण्यप्रदेशे वस्तुं कामना

वैशम्पायन उवाच
बलिर्होमाश्च वर्धन्ते अहन्यहनि भारत ।
द्विजानां तपसाढ्यानां गृहधर्मेषु तिष्ठताम् ॥१॥
देवतार्चाश्च पूज्यन्ते तदा प्रभृति भारत ।
तेषां ब्रह्मविदां राजन् पृथिव्यां ब्रह्मवादिभिः ॥२॥
तत्रैव ब्रह्मसदने समे निस्तृणकण्टके ।
प्राज्येन्धनतृणे देशे पुण्ये पर्वतरोधसि ॥३॥
वासं यत्र प्रकुर्वन्ति दृष्ट्वा भगवतः क्रियाम् ।
तपोऽर्थिनो महाभागा ब्रह्मचर्यव्रते स्थिताः ॥४॥
गृहस्थधर्मनिरता दानप्राप्तेन चेतसा ।
यतयश्चापि काङ्क्षन्ति धर्मेणेह विकाङ्क्षिणः ॥५॥
वन्यैः कर्मफलैश्चैव रता ब्राह्मणपुङ्गवाः ।
अग्निहोत्रव्रतस्नाता जितक्रोधाः समाहताः ॥६॥
दैवयुक्तेन वा युक्ताः कर्मणा ब्रह्मसत्तमाः ।
चीरवल्कलसंवीता नियता नियतेन्द्रियाः ॥७॥
चरन्तो ब्रह्मचर्यं च व्रतमास्थाय दारुणम् ।
अनेन विधिना राजन् कर्मप्राप्तेन सर्वशः ॥८॥
क्रमाद्ये वेदसंस्कारं पुण्यं प्राप्ताः सनातनम् ।
पूर्वैराचरितं राजन् मुनिभिर्ब्रह्मवादिभिः ॥९॥
नावेदविद्वानागच्छेन्नापि रौद्रं व्रतं चरेत् ।
न च त्यागेन गच्छेत गृहधर्मं न च त्यजेत् ॥१०॥
नैव गच्छेत दुःस्थानमप्राप्तो वेदसंचयम् ।
ऋचश्च संचयः पूर्वः सामगानां च भारत ॥११॥
ये चापि पुत्रिणो न स्युः श्रुत्यापि प्राप्नुयुः फलम् ।
ब्राह्मणास्तपसा श्रान्ता गुरोश्च परिचर्यया ॥१२॥
यस्य नैव श्रुतं ब्रह्म न गृहीतं विशाम्पते ।
काम तं धार्मिको राजा शूद्रकर्माणि कारयेत् ॥१३॥
अथवा नैव विद्येत यद् ब्रह्म नाद्रियेद् द्विजः ।
द्वाभ्यां तु श्रोत्रविषये मनः पूर्वं समाहितम् ॥१४॥
एवं सर्वेन्द्रियारम्भान् वेदपूर्वान् समाचरेत् ।
ब्राह्मणो भूतिसम्पन्नो य इच्छेद् भूतिमात्मनः ॥१५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP