TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
त्रयोविंशोऽध्यायः

भविष्यपर्व - त्रयोविंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


त्रयोविंशोऽध्यायः
ब्रह्मणः महायज्ञस्य वर्णनम्

वैशम्पायन उवाच
पितामहं पुरस्कृत्य मेरुपृष्ठे समाहिताः ।
जटाजिनधरा विप्रास्त्यक्तक्रोधा जितेन्द्रियाः ॥१॥
पर्वतान्तरसंसिद्धे बहुपादपसंवृते ।
धातुसंरञ्जितशिले समे निस्तृणकण्टके ॥२॥
त्रयाणां ब्रह्मवेदानां पञ्चस्वरविराजिते ।
मन्त्रयज्ञपरा नित्यं नित्यं व्रतहिते रताः ॥३॥
एकमेवाग्निमाधाय सर्वे ब्राह्मणपुङ्गवाः ।
बिभिदुर्मन्त्रविषयैः सुसमाहितमानसाः ॥४॥
त्रिधा प्रणीतो ज्वलनो मुनिभिर्वेदपारगैः ।
अतस्ते तत्त्वमापन्ना यदेकस्त्रिविधः कृतः ॥५॥
एक एव महानग्निर्हविषा सम्प्रवर्तते ।
स्वधाकारेण धर्मज्ञ मन्त्राणां कार्यसिद्धये ॥६॥
स्वयं च दक्षः सम्प्राप्तो भगवान् भूतसत्कृतः ।
ब्रह्मा ब्राह्मणनिर्माता सर्वभूतपितामहः ॥७॥
दण्डी चर्मी शरी खड्गी शिखी पद्मनिभाननः ।
अभवन्न्यस्तसंतापो जितक्रोधो जितेन्द्रियः ॥८॥
यजते पुष्करे ब्रह्मा मेधया सह संगतः ।
इन्द्रप्रोक्तानि सामानि गीयन्ते ब्रह्मवादिभिः ॥९॥
घृतं क्षीरं यवा व्रीहिः सर्वं परमकं हविः ।
वेदप्रोक्तं मखे न्यस्तं कल्पितं ब्रह्मणः पदे ॥१०॥
निर्मथ्यारणिमाग्नेयीं शमीगर्भसमुत्थिताम् ।
स ब्रह्मा प्रथमं तस्मिन्नग्निमयं प्रवर्तयत् ॥११॥
न ह्यल्पं विहितं द्रव्यं यथाग्निर्यज्ञकर्मणि ।
प्रवर्तयेद् विभागैर्वा हुतद्रव्यमयं बलम् ॥१२॥
फलानि तैः प्रयुक्तानि हवींषि विततेऽध्वरे ।
प्रयुञ्जते प्रयोगज्ञा मुनयो ब्रह्मवादिनः ॥१३॥
षण्मासांश्चतुरो वेदान् सम्बभाषे बृहस्पतिः ।
ब्रह्मणो वितते यज्ञे परया ब्रह्मसम्पदा ॥१४॥
शिक्षाक्षरसमेताया मधुरायाः समन्ततः ।
सानुस्वरितरामायाः सरस्वत्याः प्रभाषते ॥१५॥
तेन ब्राह्मणशब्देन ब्रह्मप्रोक्तेन भारत ।
विभाति स मखो व्यक्तं ब्रह्मलोक इवापरः ॥१६॥
मखो ब्रह्ममुखोत्तीर्णो ब्रह्मशब्दैरनामयैः ।
प्रयोगैः सम्प्रयुक्तः स जल्पन्निव विवर्धते ॥१७॥
समिद्भिः सोमकलशैः पात्रैश्चैव बहिश्चरैः ।
यवैर्व्रीहिभिराज्यैश्च पूर्णैश्च जलभाजनैः ॥१८॥
कर्म प्राप्तैश्च वसुभिः कर्मभिश्च परान्वितैः ।
गोभिः पयस्विनीभिश्च परिवत्सैश्च कोमलैः ॥१९॥
ब्रह्मवृद्धो वयोवृद्धस्तपोवृद्धश्च भारत ।
ब्रह्मज्ञानमयो देवो विद्यया सह संगतः ॥२०॥
मानसैश्च क्रियामूर्तिर्ये च भूताः स्वयं नृप ।
ब्रह्मा जुहोति तांस्तस्मान्मरुद्भिः सहितस्तदा ॥२१॥
तेजोमूर्तिधरै रूपैर्न च तत्कर्मणास्पृशत् ।
बेदप्रोक्तेन विधिना सर्वप्राणभृतां नृप ॥२२॥
निर्मथ्यारणिमाग्नेयीं शमीगर्भसमुत्थिताम् ।
क्रतुना यजते पूर्णमग्निष्टोमेन स प्रभुः ॥२३॥
सदस्यैस्तत्सदो व्यक्तं शुशुभे यज्ञकर्मणि ।
जल्पन्ति मधुरा वाचःसानुसाराः क्रियास्तथा ॥२४॥
कर्मभिश्च तपोयुक्तैर्वेदवेदाङ्गपारगैः ।
सूर्येन्दुसदृशै राजन् विरराज महाक्रतुः ॥२५॥
ब्रह्मघोषेण महता ब्रह्मावास इवापरः ।
वसुधामिव सम्प्राप्तैः सर्वैरेव दिवौकसैः ॥२६॥
वेदवेदाङ्गविद्भिश्च विनीतैर्ब्रह्मवादिभिः ।
गतागतैस्तपःश्रान्तैः स्वर्गलोके महीयते॥२७॥
ज्वलद्भिरिव विप्रैस्तैस्त्रिभिरेवाध्वरेऽग्निभिः ।
ब्रह्मलोक इवाभाति ब्रह्मणः स महाक्रतुः ॥२८॥
इन्द्रप्रोक्तानि सामानि गायन्ति ब्रह्मवादिनः ।
वचनानि प्रयुक्तानि यजूंषि विततेऽध्वरे ॥२९॥
तपःशान्ता ब्रह्मपराः सत्यव्रतसमाहिताः ।
आययुर्मुनयः सर्वे मनोभिः श्रोत्रवादिभिः ॥३०॥
होता चैवाभवद्राजन् ब्रह्मत्वे च बृहस्पतिः ।
सर्वधर्मविदां श्रेष्ठः पुराणो ब्रह्मसम्भवः ॥३१॥
यजमानश्च यज्ञान्ते विष्णोः पूजां प्रयुज्य च ।
अदित्याः पश्चिमे गर्भे तपसा सम्भृते नृप ॥३२॥
पदं विष्णुरजो ब्रह्मा निर्द्वन्द्वं निष्परिग्रहम् ।
यतः पदसहस्राणि भविष्यन्त्युद्भवन्ति च ॥३३॥
अवन्ध्यं चाप्रमेयं च व्यतिरिक्तं च कर्मभिः ।
आत्मापि यस्य मुनयो भवन्ति निष्परिग्रहाः ॥३४॥
परिग्रहाश्च विषया दोषप्राप्ता महीयते ।
दोषाश्च युगपत् सर्वे छादयन्ति मनो बलात् ॥३५॥
इन्द्रियग्रामविषये चरन्तो निष्परिग्रहाः ।
परिग्रहं शुभं धर्ममविद्यालक्षणं विदुः ॥३६॥
विद्यालक्षणसंयोगान्न मनश्छाद्यते नृप ।
यदि चेन्मुनिशब्देन गृह्यते ब्रह्मवादिभिः ॥३७॥
वेदविद्याव्रतस्नातैर्नियतैः कुरुसत्तम ।
दिविलोकाः सतां स्थानं लोकानां लोक उच्यते ॥३८॥
यत्र देवा हव्यपुष्टा न क्षयं यान्ति भारत ।
यजमानश्च भोगैः स्वैः कर्मप्राप्तोदिते पदे ।
मोदते सह पत्नीभिर्विज्वरो वसुधाधिप ॥३९॥
यज्ञावसाने शैलेन्द्रं द्विजेभ्यः प्रददौ प्रभु ।
दयया सर्वभूतानां निर्मलेनान्तरात्मना ॥४०॥
तं शैलं सर्वगात्राणि परस्परविशेषिणः ।
न शेकुः प्रविभागार्थं भेत्तुं सर्वोद्यमैरपि ॥४१॥
ततस्ते ब्राह्मणगणा निषेदुर्वसुधातले ।
श्रमेणाभिहताः सर्वे विवर्णवदना नृप ॥४२॥
सुपार्श्वो गिरिमुख्यस्तु वाग्भिर्मधुरभाषता ।
अब्रवीत्प्रणतः सर्वाञ्छिरसा तान्द्विजोत्तमान्॥४३॥
नहि शक्यो बलाद् भेत्तुं युष्माभिरसुसङ्गिभिः ।
अपि वर्षशतैर्दिव्यैः परस्परविरोधिभिः ॥४४ ।
एकीभूता यदा सर्वे भविष्यथ समाहिताः ।
अविरोधेन युगपद् विभजिष्यथ निर्वृताः ॥४५॥
बलं हि रागद्वेषाभ्यां वर्धते ब्रह्मसत्तमाः ।
विमुक्तं रागदोषाभ्यां ब्रह्म वर्धति शाश्वतम् ॥४६॥
यदाहं भेदयिष्यामि स्वर्गभिन्नैः शिलाशतैः ।
धातुभिश्च विसर्पद्भिः शिखरैश्चानुपातिभिः ॥४७॥
विशीर्णैः पार्श्वविवरैर्नागैश्च गलितैर्भुवि ।
बहुभिर्व्यालरूपैश्च चोद्यमानो गुहाशयैः ॥४८॥
प्रतिगृह्य च तद् वाक्यं शैलेन्द्रस्य सुभाषितम् ।
तूष्णीं बभूवुस्ते सर्वे तदा ब्राह्मणसत्तमाः ॥४९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे त्रयोविंशोऽध्यायः ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:28:52.8930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

क्रोधवश III.

  • n. महातल क असर्पविशेष । ये सब कद्रू के वंशज थे । ये गरुड से बहुत डरते थे । इसलिये क्कचित्‍ तापद बनते थे [भा.५.२४] 
RANDOM WORD

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site