संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| पञ्चत्रिंशोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - पञ्चत्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चत्रिंशोऽध्यायः Translation - भाषांतर वैशम्पायन उवाचतस्योपरि जलौघस्य महती नौरिव स्थिता ।विततत्वात्तु देहस्य न ययौ सम्प्लवं मही ॥१॥ततः स चिन्तयामास प्रविभागं क्षितेर्विभुः ।समुच्छ्रयं च सर्वेषां पर्वतानां नदीषु च ॥२॥विलेखनं प्रमाणं च गतिं प्रस्रवमेव च ।माहात्म्यं च विशेषं च नदीनामन्वचिन्तयत् ॥३॥चतुरन्तां धरां कृत्वा तथा चैव महार्णवम् ।मध्ये पृथिव्याः सौवर्णमकरोन्मेरुपर्वतम्॥४॥प्राचीं दिशमथो गत्वा चकारोदयपर्वतम् ।शतयोजनविस्तारं सहस्रं च समुच्छ्रयम् ॥५॥जातरूपमयैः शृङ्गैस्तरुणादित्यसन्निभैः ।आत्मतेजोगुणमयैर्वेदिकाभोगकल्पितम् ॥६॥विविधांश्च महास्कन्धान् काञ्चनान् पुष्करेक्षणः ।नित्यपुष्पफलान् वृक्षान् कृतवांस्तत्र पर्वते ॥७॥शतयोजनविस्तारं ततस्त्रिगुणमायतम् ।चकार स महादेवः पुनः सौमनसं गिरिम् ॥८॥नानारत्नसहस्राणां कृत्वा तत्र सुसंचयम् ।वेदिकां बहुवर्णां च संध्याभ्राभामकल्पयत् ॥९॥सहस्रशृङ्गं च गिरिं नानामणिशिलातलम् ।कृतवान् वृक्षगहनं षष्टियोजनमुच्छ्रितम् ॥१०॥आसनं तत्र परमं सर्वभूतनमस्कृतम् ।कृतवानात्मनः स्थानं विश्वकर्मा प्रजापतिः ॥११॥शिशिरं च महाशैलं तुषारचयसंनिभम् ।चकार दुर्गगहनं कन्दरान्तरमण्डितम् ॥१२॥शिशिरप्रभवां चैव नदीं द्विजगणायुताम् ।चकार पुलिनोपेतां वसुधारामिति श्रुतिः ॥१३॥सा नदी निखिलां प्राचीं पुण्यां मुखशतैश्चिताम् ।शोभयत्यमृतप्रख्यैर्मुक्ताशङ्खविभूषितैः ॥१४॥नित्यपुष्पफलोपेतैश्छादयद्भिः सुसंवृतैः ।भूषिताभ्यधिकैः कान्तैः सा नदी तीरजैर्द्रुमैः ॥१५॥कृत्वा प्राचीविभागं च दक्षिणायामथो दिशि ।चकार पर्वतं दिव्यं सर्वकाञ्चनराजतम् ॥१६॥एकतः सूर्यसंकाशमेकतः शशिसंनिभम् ।स बिभ्रच्छुशुभेऽतीव द्वौ वर्णौ पर्वतोत्तमः ॥१७॥तेजसा युगपद् व्याप्तं सूर्याचन्द्रमसाविव ।वपुष्मन्तमथो तत्र भानुमन्तं महागिरिम् ॥१८॥सर्वकामफलैर्वृक्षैर्वृतं रम्यैर्मनोरमैः ।चकार कुञ्जरं चैव कुञ्जरप्रतिमाकृतिम् ॥१९॥सर्वतः काञ्चनगुहं बहुयोजनविस्तृतम् ।ऋषभप्रतिमं चैव ऋषभं नाम पर्वतम् ॥२०॥हेमकाञ्चनवृक्षाढ्यं पुष्पहासं स सृष्टवान् ।महेन्द्रमथ शैलेन्द्रं शतयोजनमुच्छ्रितम् ॥२१॥जातरूपमयैः शृङ्गैः सपुष्पितमदाद्रुमम् ।मेदिन्यां कृतवान् देवः प्रतिक्षोभमिवाचलम् ॥२२॥नानारत्नसमाकीर्णं सूर्येन्दुसदृशप्रभम् ।चकार मलयं चाद्रिं चित्रपुष्पितपादपम् ॥२३मैनाकं च महाशैलं शिलाजालसमावृतम् ।दक्षिणस्यां दिशि शुभं चकाराचलमायतम् ॥२४॥सहस्रशिरसं विन्ध्यं नानाद्रुमलताकुलम् ।नदीं च विपुलावर्तां पुलिनश्रोणिभूषिताम् ॥२५॥क्षीरसंकाशसलिलां पयोधारामिति श्रुतिः ।सुरम्यां तोयकलिलां विहितां दक्षिणां दिशम् ॥२६॥दिव्यां तीर्थशतोपेतां प्लावयन्तीं शुभाम्भसा ।दिशं याम्यां प्रतिष्ठाप्य प्रतीचीं दिशमागमत् ॥२७॥अकरोत् तत्र शैलेन्द्रं शतयोजनमुच्छ्रितम् ।शोभितं शिखरैश्चित्रैः सुप्रवृद्धैर्हिरण्मयैः ॥२८॥काञ्चनीभिः शिलाभिश्च गुहाभिश्चविभूषितम् ।समाकुलं सूर्यनिभैः शालैस्तालैश्च भास्वरैः ॥२९॥शुशुभे जातरूपैश्च श्रीमद्भिश्चित्रवेदिकैः ।षष्टिं गिरिसहस्राणि तत्रासौ संन्यवेशयत् ॥३०॥मेरुप्रतिमरूपाणि वपुषा प्रभया सह ।सहस्रजलधारं च पर्वतं मेरुसंनिभम् ॥३१॥पुण्यतीर्थगुणोपेतं भगवान् संन्यवेशयत् ।षष्टियोजनविस्तारं तावदेव समुच्छ्रितम् ॥३२॥आत्मरूपोपमं तत्र वाराहं नाम नामतः ।निवेशयामास गिरिं दिव्यं वैदूर्यपर्वतम् ॥३३॥राजताः काञ्चनाश्चैव यत्र दिव्याः शिलोच्चयाः ।तत्रैव चक्रसदृशं चक्रवन्तं महाबलम् ॥३४॥सहस्रकूटं विपुलं भगवान् संन्यवेशयत् ।शङ्खप्रतिमरूपं च राजतं पर्वतोत्तमम् ॥३५॥सितद्रुमसमाकीर्णं शङ्खं नाम न्यवेशयत् ।सुवर्णं रत्नसम्भूतं पारिजातं महाद्रुमम् ॥३६॥महतः पर्वतस्याग्रे पुष्पहासं न्यवेशयत् ।शुभामतिरसां चैव घृतधारामिति श्रुतिः ॥३७॥वराहः सरितं पुण्यां प्रतीच्यामकरोत् प्रभुः ।प्रतीच्यां संविधिं कृत्वा पर्वतान्काञ्चनोज्ज्वलान् ।३८ ।गुणोत्तरानुत्तरस्यां संन्यवेशयदग्रतः ।ततः सौम्यगिरिं सौम्यमन्तरिक्षप्रमाणतः ॥३९॥रुक्मधातुप्रतिच्छन्नमकरोद् भास्करोपमम् ।स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ॥४०॥तस्य लक्ष्म्यधिकं भाति तपसा रविणा यथा ।सूक्ष्मलक्षणविज्ञेयस्तपतीव दिवाकरः ॥४१॥सहस्रशिखरं चैव नानातीर्थसमाकुलम् ।चकार रत्नसंकीर्णं भूयोऽस्तं नाम पर्वतम् ॥४२॥मनोहरगुणोपेतं मन्दरं चाचलोत्तमम् ।उद्दामपुष्पगन्धं च पर्वतं गन्धमादनम् ॥४३॥चकार तस्य शृङ्गेषु सुवर्णरससम्भवम्जम्बूं जाम्बूनदमयीमनन्ताद्भुतदर्शनाम् ॥४४॥गिरिं त्रिशिखरं चैव तथा पुष्करपर्वतम् ।शुभ्रं पाण्डुरमेघाभं कैलासं च नगोत्तमम् ॥४५॥हिमवन्तं च शैलेन्द्रं दिव्यधातुविभूषितम् ।निवेशयामास हरिर्वाराहीं तनुमास्थितः ॥४६नदीं सर्वगुणोपेतामुत्तरस्यां दिशि प्रभुः ।मधुधारां स कृतवान् दिव्यामृषिशताकुलाम् ॥४७॥सर्वे चैव क्षितिधराः सपक्षाः कामरूपिणः ।तदा कृता भगवता विचित्राः परमेष्ठिना ॥४८॥स कृत्वा प्रविभागं तु पृथिव्या लोकभावनः ।देवासुराणामुत्पत्तौ कृतवान् बुद्धिमक्षयाम् ॥४९॥सर्वासु दिक्षु क्षतजोपमाक्ष-श्चकार शैलान्विविधाभिधानान् ।हिताय लोकस्य स लोकनाथःपुण्याश्च नद्यः सलिलोपगूढाः ॥५०॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP