TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
द्वात्रिंशदधिकशततमोऽध्यायः

भविष्यपर्व - द्वात्रिंशदधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


द्वात्रिंशदधिकशततमोऽध्यायः
महाभारतहरिवंशयोः श्रवणविधिः फलं च, वाचकस्य गुणाः, प्रतिपर्वणि दानार्हं द्रव्यं, एकतः दशसंख्याकानां पारणानां महत्त्वं, महाभारतहरिवंशयोः माहात्म्यम्

जनमेजय उवाच
भगवन् केन विधिना श्रोतव्यं भारतं बुधैः ।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥१॥
देयं समाप्ते भगवन् किं च पर्वणि पर्वणि ।
वाचकः कीदृशश्चात्र यष्टव्यस्तद् ब्रवीहि मे ॥२॥
वैशम्पायन उवाच
शृणु राजन् विधिमिमं फलं यच्चापि भारतात् ।
श्रुताद् भवति राजेन्द्र यत् त्वं मामनुपृच्छसि ॥३॥
दिवि देवा महीपाल क्रीडार्थमवनिं गताः ।
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥४॥
हन्त यत् ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ।
ऋषीणां देवतानां च सम्भवं वसुधातले ॥५॥
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥६॥
गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा ।
सिद्धा धर्मः स्वयम्भूश्च मुनिः कात्यायनो वरः ॥७॥
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥८॥
स्थावरं जङ्गमं चैव जगत् सर्वं सुरासुरम् ।
भारते भरतश्रेष्ठ एकस्थमिह दृश्यते ॥९॥
तेषां श्रुतिप्रतिष्ठानां नामकर्मानुकीर्तनात् ।
कृत्वापि पातकं घोरं सद्यो मुच्येत मानवः ॥१०॥
इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः ।
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥११॥
तेषां शृणु त्वं श्राद्धानि श्रुत्वा भारत भारतम् ।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥१२॥
महादानानि देयानि रत्नानि विविधानि च ।
गावः कांस्योपदोहाश्च कन्याश्चैव स्वलंकृताः ॥१३॥
सर्वकामगुणोपेता यानानि विविधानि च ।
भाजनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥१४॥
वाहनानि च देयानि हया मत्ताश्च वारणाः ।
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलंकृताः ॥१५॥
यद् यद् गृहे वरं किंचिद् यद् यदस्ति महद्वसु ।
तत् तद् देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥१६॥
श्रद्धया परया दद्यात् क्रमशस्तस्य पारगः ।
शक्तितः सुमना हृष्टः शुश्रूषुरविकम्पनः ॥१७॥
सत्यार्जवरतो यत्तः शुचिः शौचपरायणः ।
श्रद्दधानो जितक्रोधो यथा सिद्ध्यति तच्छ्रृणु ॥१८॥
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥१९॥
रूपवान् सुभगो दान्तः सत्यवादी जितेन्द्रियः ।
दानमानग्रहीता च कार्यो भवति वाचकः ॥२०॥
अविलम्बमनायस्तमद्रुतं घोरमूर्जितम् ।
असंसक्ताक्षरपदं न च भावसमन्वितम् ॥२१॥
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् ।
वाचयेद् वाचकः स्वस्थः स्वाधीनः सुसमाहितः ॥२२॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥२३॥
ईदृशाद्वाचकाद्राजञ्च्छ्रुत्वा भारत भारतम् ।
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते ॥२४॥
पारणं प्रथमं प्राप्य द्विजान् कामैश्च तर्पयेत् ।
अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥२५॥
अप्सरोगणसंकीर्णं विमानं लभते महत् ।
प्रहृष्टः स तु देवैश्च दिवं याति समाहितः॥२६॥
द्वितीयं पारणं प्राप्य अतिरात्रफलं लभेत् ।
सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥२७॥
दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः ।
दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥२८॥
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।
वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि ॥२९॥
चतुर्थं वाजपेयस्य पञ्चमे द्विगुणं फलम् ।
उदितादित्यसंकाशं ज्वलन्तमनलोपमम् ॥३०॥
विमानं विबुधैः सार्धमारुह्य दिवि गच्छति ।
वर्षायुतानि भवने शक्रस्य दिवि मोदते ॥३१॥
षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् ।
कैलासशिखराकारं वैदूर्यमणिवेदिकम् ॥३२॥
परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् ।
विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥३३॥
सर्वांल्लोकान् विचरते द्वितीय इव भास्करः ।
अष्टमे राजसूयस्य पारणे लभते फलम् ॥३४॥
चन्द्रोदयनिभं रम्यं विमानमधिरोहति ।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥३५॥
सेव्यमानो वरस्त्रीणां चन्द्रकान्ततरैर्मुखैः ।
मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥३६॥
अङ्के परमनारीणां सुखं सुप्तो विबुध्यते ।
नवमं क्रतुराजस्य वाजिमेधस्य भारत ॥३७॥
काञ्चनस्तम्भनिर्व्यूहं वैदूर्यकृतवेदिकम् ।
जाम्बूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम् ॥३८॥
सेवितं चाप्सरसंघैर्गन्धर्वैर्दिविचारिभिः ।
विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥३९॥
दिव्यमाल्याम्बरधरो दिव्यचन्दनभूषितः ।
मोदते दैवतैः सार्धं दिवि देव इवापर ॥४०॥
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च ।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥४१॥
रत्नवेदिकसंकाशं वैदूर्यमणितोरणम् ।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥४२॥
गन्धर्वैर्गीतकुशलैरप्सरोभिर्निषेवितम् ।
विमानं सुकृतावासं सुखेनैवोपपद्यते॥४३॥
मुकुटेनार्कवर्णेन जाम्बूनदविभूषणः ।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥४४॥
दिव्याँल्लोकान् प्रचरति दिव्यैर्भोगैः समन्वितः ।
विबुधानां प्रसादेन श्रिया परमया युतः ॥४५॥
अथ वर्षगणानेवं स्वर्गलोके महीयते ।
ततो गन्धर्वसहितः सहस्राण्येकविंशतिः ॥४६॥
पुरंदरपुरे रम्ये शक्रेण सह मोदते ।
दिव्ययानविमानेषु लोकेषु विविधेषु च ॥४७॥
दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ।
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा ॥४८॥
शिवस्य भवने राजन् विष्णोर्याति सलोकताम् ।
एवमेतन्महाराज नात्र कार्या विचारणा॥४९॥
श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ।
वाचकस्य तु दातव्यं मनसा यद् यदिच्छति ॥५०॥
हस्त्यश्वरथयानादि वाहनं च विशेषतः ।
कटके कुण्डले चैव ब्रह्मसूत्रं तथापरम् ॥५१॥
वस्त्रं चैव विचित्रं च गन्धं चैवं विशेषतः ।
देववत् पूजयेत्तं तु विष्णुलोकमवाप्नुयात् ॥५२॥
अतः परं प्रवक्ष्यामि यानि देयानि भारते ।
वाच्यमानेऽथ विप्रेभ्यो राजन् पर्वणि पर्वणि ॥५३॥
जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ ।
धर्मवृत्तिं च विज्ञाय ब्राह्मणानां नराधिप ॥५४॥
स्वस्ति वाच्यं द्विजैरादौ ततः कार्यं प्रवर्तयेत् ।
समाप्तपर्वणि ततः स्वशक्त्या तर्पयेद् द्विजान् ॥५५॥
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् ।
विधिवद् भोजयेद् राजन् मधुपायससंयुतम् ॥५६
ततो मूलफलप्रायं पायसं मधुसर्पिषा ।
आस्तीके भोजयेद् राजन् दद्याच्चैव गुडौदनम्॥५७॥
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् ।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान् ॥५८॥
आरण्यके मूलफलैस्तर्पयेच्च द्विजोत्तमान् ।
अरणीपर्व आसाद्य जलकुम्भान् प्रदापयेत् ॥५९॥
तर्पणानि च मुख्यानि वन्यमूलफलानि च ।
सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् ॥६०॥
विराटपर्वणि तथा वासांसि विविधानि च ।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ॥६१॥
भोजनं भोजयेद् विप्रान् गन्धमाल्यैरलकृतान् ।
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् ।
ततः सर्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ॥६२॥
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ।
शराश्च देया राजेन्द्र चापान्यसिवरांस्तथा ॥६३॥
कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् ।
विप्रेभ्यः संस्कृतं सम्यग् दद्यात् संयतमानसः ॥६४॥
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ।
अपूपैस्तर्पयेच्चैव सर्वमन्नं प्रदापयेत् ॥६५॥
गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ।
स्त्रीपर्वणि तथा रत्नैस्तर्पयेत् तु द्विजोत्तमान् ॥६६॥
घृतौदनं पुरस्ताच्च ऐषीके दापयेत् पुनः ।
ततः सर्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ॥६७॥
शान्तिपर्वण्यपि गते हविष्यं भोजयेद्द्विजान् ।
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम् ॥६८॥
तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद् द्विजान् ।
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् ॥६९॥
महाप्रास्थानिके तद्वत् सर्वकामगुणान्वितम् ।
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद् द्विजान् ॥७०॥
हरिवंशसमाप्तौ तु सहस्रं भोजयेद् द्विजान् ।
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् ॥७१॥
तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव ।
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः ॥७२॥
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ।
हरिवंशे पर्वणि च पायसं तत्र भोजयेत् ॥७३॥
श्लोकं वा श्लोकपादं वा अक्षरं वा नृपात्मज ।
शृणुयादेकचित्तस्तु स विप्णुदयितो भवेत् ॥७४॥
व्यासं चैव सपत्नीकं पूजयेच्च यथाविधि ।
लक्ष्मीनारायणं देवं पूजितं तं च पूजयेत् ॥७५॥
वाचकं पूजयेद् यस्तु भूमिवस्त्रसुधेनुभिः ।
विष्णुः सम्पूजितस्तेन स साक्षाद् देवकीसुतः॥७६॥
पारणे पारणे राजन् यथावद् भरतर्षभ ।
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः ॥७७॥
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृतः ।
शुक्लाम्बरधरः श्रीमाञ्छुचिर्भूत्वा स्वलंकृतः ॥७८॥
अर्चयेत् तं यथान्यायं गन्धमाल्यैः पृथक् पृथक् ।
संहितापुस्तकान् राजन् प्रयतः शिष्टसम्मतः॥७९॥
भक्ष्यैर्भोज्यैश्च पेयैश्च कामैश्च विविधैः शुभैः ।
हिरण्यं गां च वस्त्रं च दक्षिणामथ दापयेत् ॥८०॥
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रणतात्मना ।
तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम् ॥८१॥
यद् यदेवात्मनोऽभीष्टं तत् तद् देयं द्विजातये ।
सर्वथा तोषयेत् भक्त्या वाचकं गुरुमात्मनः ।
देवताः कीर्तयेत् सर्वा नरनारायणौ तथा ॥८२॥
ततो गन्धैश्च माल्यैश्च स्वलंकृतद्विजोत्तमान् ।
तर्पयेद् विविधैः कामैर्दानैश्चोच्चावचैस्तथा॥ ॥८३॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ।
प्राप्नुयाच्च क्रतुफलं तथा पर्वणि पर्वणि ॥८४॥ ।
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः ।
भविष्यं श्रावयेद् विप्रान् भारतं भरतर्षभ ॥८५॥
भुक्तवत्सु द्विजेन्द्रेषु यथावत् सम्प्रदापयेत् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम् ॥८६॥
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ।
ब्राह्मणेषु च तुष्टेषु प्रसन्नाः सर्वदेवताः ॥८७॥
ततो हि भरणं कार्यं द्विजानां भरतर्षभ ।
सर्वकामैर्यथान्यायं साधुभिश्च यथाक्रमम् ॥८८॥
इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर ।
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ॥८९॥
भारतश्रवणे राजन् पारणे च नृपोत्तम ।
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता ॥९०॥
भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥९१॥
भारतं परमं पुण्यं भारते विविधाः कथाः ।
भारतं सेव्यते देवैर्भारतं परिकीर्तयेत् ॥९२॥
भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ ।
भारतात् प्राप्यते मोक्षस्तत्त्वमेतद् ब्रवीमि ते ॥९३॥
महाभारतमाख्यानं क्षितिं गां च सरस्वतीम् ।
ब्राह्मणं केशवं चापि कीर्तयन् नावसीदति ॥९४॥
वेदे रामायणे पुण्ये भारते भरतर्षभ ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥९५॥
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥९६॥
एतत् पवित्रं परममेतद् धर्मनिदर्शनम् ।
एतत् सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥९७॥
क्रियतेऽसारसंसारे वाञ्छितस्यैव कारणम् ।
हरिवंशस्य श्रवणमिति द्वैपायनोऽब्रवीत् ॥९८॥
अश्वमेधसहस्रेण वाजपेयशतैस्तथा ।
यत् फलं प्राप्यते पुंभिस्तद्धरेर्वंशपारणात् ॥९९॥
अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् ।
निरुपममनुमेयं योगिनां ज्ञानगम्यं त्रिभुवनगुरुमीशं त्वां प्रपन्नोऽस्मि विष्णो ॥१००॥
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
सर्वेषां वाञ्छिता अर्था भवन्त्वस्य च पारणात् ॥१०१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि श्रवणफलकथने द्वात्रिंशदधिकशततमोऽध्यायः ॥१३२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T15:23:30.7670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चेष्टा करणे

  • क्रि. उपहासाने बोलणे , कुचाळी करणे , खिजवणे , खिल्ली उडवणे , खोडी काढणे , गंमत करणे , चिडवणे , टवाळी , टवाळी करणे , थट्टा करणे , मजा करणे , मस्करी करणे . 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.