TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
चतुर्दशाधिकशततमोऽध्यायः

भविष्यपर्व - चतुर्दशाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


चतुर्दशाधिकशततमोऽध्यायः
जनार्दनस्य भगवद्दर्शनविषयक उत्कण्ठा

वैशम्पायन उवाच
ततः प्रायाद्धरिं विष्णुं ब्राह्मणो ब्रह्मवित्तमः ।
हयेनैकेन राजेन्द्र त्वरितं स ययौ नृप ॥१॥
यथा निदाघसमये सूर्यांशुपरिपीडितः ।
पान्थो याति जलं दृष्ट्वा त्वरितं तत्पिपासया ॥२॥
धावत्येव तथा विप्रो हरिं द्रष्टुं जनार्दनः ।
गच्छन्स चिन्तयामास चोदयन्हयमुत्तमम् ॥३॥
हंस एव प्रियो मह्यं कुर्यात् प्रियहितं मम ।
तथा हि प्रेषितस्तेन हरिं पश्याम्यहं प्रभुम् ॥४॥
अहमेव सदा धन्यो मत्तो ह्यभ्यधिको न हि ।
यतो द्रक्ष्याम्यहं विष्णुं वसन्तं द्वारकापुरे ॥५॥
सा हि मे जननी धन्या हरिं दृष्ट्वा पुनर्गतम् ।
कृतार्थं सर्वदा देवी द्रक्ष्यत्येषा मनस्विनी ॥६॥
मुखमुन्निद्रहेमाब्जकिञ्जल्कसदृशप्रभम् ।
द्रक्ष्यामि देवदेवस्य चक्रिणः शार्ङ्गधन्वनः ॥७॥
'मैं शार्ङ्ग धनुष धारण करनेबाले देवाधिदेव श्रीकृष्णके
उश्च मुखका दर्शन करूँगा३ जो विकसित सुवर्णमय कमलके
केसरकीन्ही कान्तिसे प्रकाशित होता हैं ॥७॥
वपुर्द्रक्ष्याम्यहं विष्णोर्नीलोत्पलदलच्छवि ।
शङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम् ॥८॥
नेत्रे ते देवदेवस्य पद्मकिञ्जल्कसप्रभे ।
पश्याम्यहमदीनात्मा नष्टदुःखोऽस्मि निर्वृतः ॥९॥
अपि द्रक्ष्यति योगात्मा सौम्येनैव स्वचक्षुषा ।
अपि वा मत्प्रियं ब्रूयात् स्वस्ति चेति च वा वदेत् ॥१०॥
द्रक्ष्यामि चक्रिणो वर्ष्म ततस्त्रैलोक्यसंनिभम् ।
पादाब्जं चक्रिणो द्रष्टुं त्वरत्येव च मे मनः ॥११॥
वक्षःस्थलं सदा विष्णोः स्फुरद्रत्नप्रभायुतम् ।
पश्यन्निव च गच्छामि स्मरश्चानिशमीश्वरम् ॥१२॥
पीतकौशेयवसनं लम्बहारविभूषितम् ।
ईषत्स्मिताधरं विष्णुं पश्यामि च पुनः पुनः ॥१३॥
स्मरतश्च हरे रूपं रोमहर्षोऽयमीदृशः ।
गच्छतश्च पुरो भाति शङ्खचक्रगदासिमान् ॥१४॥
यातीव च पुरो भाति मह्यं देवा जगद्गुरुः ।
एषोऽयमिति मे वक्तुं जिह्वा प्रस्फुरतीव तम् ॥१५॥
इदं दुःखतरं मन्ये करं देहीति मद्वचः ।
इदं तत्साहसं मन्ये तद्वचस्तस्य भूपतेः ॥१६॥
हंसस्य करदो विष्णुस्तदाज्ञापरिचारकः ।
तस्य सर्वं पुरो गत्वा वक्ताहं किल निर्दयः ॥१७॥
मूढानामग्रणीरस्मि निर्लज्जश्च तथा वदन् ।
करं देहि हरे विष्णो हंसस्य यदुपुङ्गव ॥१८॥
लवणानि बहून्याशु दातव्यानि करात्मना ।
इति वक्तुं न मे युक्तं पुरतस्तस्य शार्ङ्गिणः ॥१९॥
तथापि मित्रभावात् तु वक्तव्यं घोरमीदृशम् ।
कष्टो ह्ययं मित्रभावो मनुष्याणां कृतात्मनाम् ॥२०॥
अथवा सर्वविद् विष्णुः सर्वस्य हृदि संस्थितम् ।
जानात्येव सदा भावं प्राणिनां शोभने रतः ॥२१॥
तथा सति न मे दोषो मित्रभावो यतो ह्ययम् ।
सर्वथा रक्षतां विष्णुर्घोरं वक्तुं यतस्य मे ॥२२॥
द्रक्ष्याम्यहं जगन्नाथं नीलकुञ्चितमूर्धजम् ।
कम्बुग्रीवधरं विष्णुं श्रीवत्साच्छादितोरसम् ॥२३॥
स्फुरत्पद्ममहाबाहुं रत्नच्छायाविराजितम् ।
द्रक्ष्यामि केशवं विष्णुं चक्रिणं यादवेश्वरम् ॥२४॥
अचिन्त्यविभवं देवं भूतभव्यभवत्प्रभुम् ।
आत्मेच्छया जगद्रक्षं द्रक्ष्यामि जलशायिनम् ॥२५॥
कृतार्थः सर्वथा चाहं भवामि विगतज्वरः ।
अद्य मे सफलं जन्म साक्षाद् दृष्टवतो हरिम् ॥२६॥
अद्य मे सफला यज्ञाः साक्षात्कृतवतो हरिम् ।
नेत्रे मे सफले विष्णुं पश्यतश्च जगन्मयम् ॥२७॥
प्रीतिमानस्तु मे विष्णुर्वक्तुर्घोरस्य कर्मणः ।
उन्मिषन्नेत्रयुग्मेन द्रक्ष्यामि सकृदीश्वरम् ॥२८॥
आमूलमसकृद् विष्णुं पश्यामि च पुनः पुनः ।
पिबामि नेत्रयुग्मेन वपुः कृष्णस्य केवलम् ॥२९॥
धारयिष्याम्यहं पांसुं तत्पादप्रभवं शिवम् ।
ततः कृतार्थतां यास्ये स्वर्गमार्गो हि तद्रजः ॥३०॥
मेघगम्भीरनिर्घोषं श्रोष्यामि च हरेः स्वरम् ।
पादाब्जं चक्रिणो विष्णोः पश्यामि च जगत्पतेः ॥३१॥
पश्यामि च हरेर्वक्त्रं पूर्णेन्दुसदृशप्रभम् ।
हरेरिदं जगद् रूपं पश्यामीव च सर्वतः ॥३२॥
प्रसीदतु सदा विष्णुरयुक्तं वक्तुमिच्छतः ।
आलोलकुण्डलयुतं हरिचन्दनचर्चितम् ॥३३॥
स्फुरत्केयूररत्नार्चिर्बाहुद्वयविराजितम् ।
सव्ये द्योतन्महाशङ्खं रश्मिजालविराजितम् ॥३४॥
प्रोद्यद्भास्करवर्णाभं चक्रज्वालाविराजितम् ।
प्रोज्ज्वलत्कङ्कणयुतं तप्तजाम्बूनदाङ्गदम् ॥३५॥
पीतकौशेयवसनं विस्तीर्णोरस्कमच्युतम् ।
कदा द्रक्ष्यामि देवेशमिदानीमथवान्यदा ॥३६॥
सर्वथा कृतकृत्योऽहं यद्वपुर्द्रष्टुमुद्यतः ।
नमो मह्यं नमो मह्यं यतो द्रष्टुमहं हरिम् ॥३७॥
उद्यतोऽस्मि जगन्नाथं बलभद्रकृतास्पदम् ।
द्रक्ष्याम्यवश्यमद्यैव जिष्णुं विष्णुं जगद्गुरुम् ॥३८॥
श्रीकौस्तुभोद्भवरुचि स्फुरितोरुवक्षः पीताम्बरं मकरकुण्डलपङ्कजाक्षम् ।
कृष्णं किरीटवरचक्रगदोर्ध्वहस्तं तेजोमयं मम हरेर्वपुरस्तु भूत्यै ॥३९॥
वेदोदधौ विशदशास्त्रमहाहियोगे निष्णातशुद्धमतिमन्दरमथ्यमाने ।
उद्योतमानममरैरनिशं निषेव्यं नारायणाख्यममृतं प्रपिबामि वाद्य ॥४०॥
ध्येयं मुमुक्षुभिरमेयमनाद्यनन्तं स्थूलं सुसूक्ष्मतरमेकमनेकमाद्यम् ।
ज्योतिस्त्रिलोकजनकं त्रिदशैकवन्द्यमक्ष्णोर्ममास्तु सततं हृदयेऽच्युताख्यम्॥४१
चिन्तयन्निति विप्रेन्द्रो ययौ द्वारवतीं पुरीम् ।
मत्वा कृतार्थमात्मानं वाहयन् हयमुत्तमम् ॥४२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने विप्रस्य द्वारवतीगमने चतुर्दशाधिकशततमोऽध्यायः ॥११४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T15:00:49.3100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तापलिया तेला बावन चंदन। बुंदें एक क्षण शीतळ करी।।

  • उत्तम बावन चंदन तें कीं जें तापलेल्‍या तेलांत टाकिलें असतां तेल एकदम थंड करते. म्‍हणजे पारख या प्रकारची अस्‍सल पाहिजे. -तुगा ३०२४. 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.